________________ संख 44 - अभिधानराजेन्द्रः - भाग 7 संख मावस्तुनो विकल्पागोचरत्वात्परम्परया वस्तुप्रतिबन्धात्।तथाविधतत् प्राप्तिहेतुतया तु तस्य प्रामाण्यम् / उक्तं च-'लिङ्ग लिङ्गिधियोरेवं, पारंपर्येण वस्तुनि। प्रतिबन्धात्तदाभासशून्ययोरप्यबन्धनम् / / 1 / / ' इति परैस्तु परमार्थत एव वस्तुविषयत्वमिष्ट प्रीत्यादिप्रतिपत्तीनाम; अन्यथा सुखाद्यात्मना शब्दादीनामनुभवात्सुखानुभवख्यातिरित्येतदसतं स्यात्। सुखादिसंविदां च सविकल्पकत्वान्न किंचिदनिश्चित रूपमस्तीति सर्वात्मनाऽनुभवख्यातिप्रसक्तिः। यतः स्वार्थप्रतिपत्तिनिश्चयानामियमेव यत्तन्निश्चयनं नाम। यदपि 'प्रसादतापदैन्याद्युपलम्भात्सुखाद्यविन्वतत्वं सिद्ध शब्दादीनाभि' त्यभिहितं, तदनैकान्तिकम् / तथाहि-योगिनां प्रकृतिव्यतिरिक्त पुरूषं भावयता तमालम्च्य प्रकर्षप्राप्तयोगानां प्रसादः प्रादुर्भवति प्रीतिश्च, अप्राप्तयोगानां तदहुततरमपश्यतामुद्वेग आविर्भवति। जडमतीनां च प्रकृत्यावरणं प्रादुर्भवति / न च परैः पुरुषस्त्रिगुणात्मकोऽभीष्ट इति प्रसादतापदेन्यादिकार्यापलब्धेः' इत्यस्य कथं नानैकान्तिकता ? तच सङ्कल्पात्प्रीत्यादीनि प्रादुर्भवन्ति न पुरूषादिति वाष्य शब्दादिष्वप्यस्य समानत्वात्, सङ्कल्पमात्रभावित्वे च सुखादयो बाह्या नस्युः सङ्कल्पस्य संविद्रूपत्वात्। बाह्यविषयोपधानमन्तरेणाऽपि पुरुषदर्शन प्रीत्याधुत्पत्तिदर्शनात् / 'बाह्यसुखाद्युपधानबलात्सातादिरूपं संवेदनस्य' इत्यपि सव्यभिचारमेव इष्टानिष्टविकल्पादनावाश्रितबाह्यविषयसन्निधानं प्रसिद्धमेव हि सुखादिसंवेदनं कथं तत्परोपधानमेव युक्तम् ?तच मनोऽपि त्रिगुणं तदुपधानवशात्तदाविर्भवतीति वक्तव्यम, 'यदेव हि प्रकाशान्तरनिरपेक्षं स्वयं सिद्धम्' इत्यादिना संविद्रूपत्वस्य तत्र साधितत्वात् अतः 'समन्वयादि' त्यसिद्धोहेतुः / नैकान्तिकश्व प्रधानाल्येन कारणेन हेतोः क्वचिदप्यन्वयासिद्धेः / तथाहि-व्यापि नित्यमेकं त्रिगुणात्मकं कारण साधयितुमिष्ट, नचैवभूतेन कारणेन हेतोः प्रतिबन्धः प्रसिद्धः / न-चाऽयं नियमः यदात्मक कार्य कारणमपि तदात्मकमेव, तयोर्भेदात् / तथाहि-हेतुमदादिभिर्धर्मर्युक्तं व्यक्तमभ्युपगम्यते तद्विपरीतं चाऽव्यक्तमिति कथं न कार्यकारण्योर्भदादनैकान्तिको हेतुः ? धर्मिविशेषविपरीतसाधनाद्वि-रुद्धोऽप्ययं हेतुः। तथाहिएको नित्यस्त्रिगुणात्मकः कारणभूतो धर्मी साधयितुमिष्टरत्तद्विपरीतशानेकोऽनित्यश्च, ततः सिद्ध-मा-सादयति, यतो व्यक्त नैकया त्रिगुणात्मिकया स्वात्मभूतथा जात्या समन्वितमुपलभ्यते,किं तर्हि?, अनेकत्वानित्यत्वादिधर्मकलापोपेतमेव, अतः कार्यस्यानित्यत्वाऽनेकत्वादिधर्मान्वयदर्शनात्कारणमपि तथैवाऽनुमीयते / क्रमयोगपद्याभ्यामर्थक्रियाविरोधान्न नित्यस्य कारणत्वं कारणभेदकतत्वाच्च कार्यवैचित्र्यस्य अन्यथा निर्हेतुकत्वप्रसङ्गात, नैकरूपस्याऽपि कारणत्वमिति विपर्ययसिद्धिप्रसक्तेन नित्यैकरूपप्रधानसिद्धिः / यदि तु अनित्यानेकरूपे कारणे 'प्रधानम् ' इति संज्ञा क्रियते तदा अविवाद एव / यद्यपि 'सत सदित्येकरूपेण स एवाऽयमिति' च स्थिरंगा स्वभावनानुगता अध्यवसीयन्ते कल्पनाज्ञानेन भावास्तथाऽपि नेषामेकजात्यान्वयः स्वस्वभावय्यवस्थिततया देशकालशक्तिप्रतिभासादिभेदात्, नापि स्थैर्य क्रमोत्पत्तिमतां तथैव प्रतिभासनात्। 'प्रतिभासदश्व भावान भिनत्ति' इत्यसकृर प्रतिपादितम / 'मुद्रिकारादिवद्' इति दुष्टान्तोऽपि साध्यसाधनविकलः एकजात्यन्वयस्यैककारणप्रभवत्वस्य च तत्राऽप्यसिद्धत्वात् / न चैकं मृत्पिण्डादिकं कारणं मृदादिजातिश्चैकानुगता तत्र सिद्धेति वक्तव्यं, यतोऽनैकोऽवयवी मृत्पिण्डादिरस्ति एकदेशावरणे सर्वाऽऽवरणप्रसङ्गात् / नाऽप्येका जातिः, प्रतिव्यक्ति प्रतिभासभेदादिति प्रतिपादितत्वात्प्रतिपादयिष्यमाणत्वाच्च / 'समन्वयाद्' इत्यस्य हेतोः पुरूषैश्वानैकान्तिकत्वम्। तथाहि-चेतनत्वादिधर्मेरन्विताः पुमासोऽभीष्टाः / नच तथाविधैककारणपूर्वकास्त इष्यन्ते / नच चेतनाद्यन्वितत्वं पुरूषाणां गौणं यतोऽचेतनादिव्यावृत्ताः सर्व एव पुरूषाः, अतोऽर्थान्तरव्यावृत्तिरूपा चैतन्यादिजातिस्तदनुगामिनी कल्पिता, न तु तात्विकी समस्तीति वक्तव्यम्, अन्यत्रापि समानत्वात्-रातः शब्दादिष्वप्यमुख्य सुखाद्यन्वितत्वमसत्यप्येककारणपूर्वकत्वे पुरूषेष्विव भविष्यतीति कथं नानैकान्तिकत्वं हेतोः / मूलप्रकृत्यवस्थायां च सत्त्वरजस्तमोलक्षणा गुणाः, गुणत्वऽचेतनाऽभोक्तृत्वादिभिरन्विताः प्रधानपुरूषाश्च नित्यत्वादिभिरन्टितास्तथाभूतैककारणपूर्वकाश्चन भवन्तीत्यनैकान्तिकत्वमेव / तदेव 'समन्वयाद्' इत्यस्य हेतोरसिद्धविरूद्धानैकान्तिकदोषदुष्टत्वान्न प्रधानप्रसाधकत्वम्। अनेनेव न्यायेन 'परिमाणात्'शक्रितः प्रवृत्तेः कार्यकारणभावाद्वैश्वरूप्यस्याविभागादित्यादिकानामपि न प्रधानाऽस्तित्वसाधकत्वम् / तथाहि-साध्यविपर्यय च बाधकप्रमाणाप्रदर्शनात्सर्वेऽप्येतेऽनैकान्तिकाः। नहि प्रधानाख्यस्य हेतोरभावेन परिमाणादीनां विरोधः सिद्धः। तथाहियदि तावत्कारणमात्रस्याऽऽस्तित्वमत्र साध्यते तदा सिद्धसाध्यता नारगाकं कारणमन्तरेण कार्यस्योत्पादोऽभीष्टः, नच कारणमात्रस्य 'प्रधानमिति' नाम करणे किंचिद्वाध्यते। अथ प्रेक्षावत्कारणमस्ति यद् व्यक्तं नियतपरिमाणमुत्पादयति शक्नि तश्च प्रवर्त्तत इते साध्यते तदाऽनेकान्तिकता, विनाऽपि हि प्रेक्षावता विधात्रा स्वहेतुसामयात्प्रतिनियतपरिमाणादियुक्तस्योत्पत्त्यविरोधात् / न च प्रधान प्रेक्षावत्कारणं, युक्तम्, अचेतनत्वात् तस्य प्रेक्षायाश्च चेतनापर्यायत्वात्। अपि च - 'शक्तितः प्रवृत्तेः' इत्यनेन किमव्यतिरिक्र शक्तिमत्कार साध्यते, आहाश्विव्यतिरिक्तानेकशक्तिसम्बन्धि तदेकत्वादिधर्मकलापाध्यासितमिति कल्पनाद्वयम्। तत्रयद्याद्या कल्पना तदा सिद्धसाधनं कारणमात्रस्य ततः सिझ्यभ्युपगमात्। द्वितीयायां हेतोरनैकान्तिकता. तथाभूतेन वचिदप्यन्वयासिद्धेहेतुश्वासिद्धो यतो न विभिन्नशक्रियोगात्कस्यचित् कृचित्कार्ये कारणस्य प्रवृत्तिः सिद्धा स्वात्मभूतत्वाच्छक्तीनाम निरन्वयविनाशावष्टब्धत्वात् सर्वभावानां क्वचिदपि लयासिद्धेः, अविभागाद्वैश्वरूपस्येत्ययमपि हेतुरसिद्धः, लयो हि भवन पूर्वस्वभावापगमे वा भवेद, अनपगमे वा?, यद्याद्यः पक्षस्तदा निरन्वयविनाश - प्रसङ्गः। द्वितीयस्तदा लयाऽनुपपत्तिः, यतो नाविकलं स्वरूप विभ्रतः कस्य-चिलयो नामातिप्रसाङ्गादतिविरुद्धमिदं परस्परतः अविभागणे 'वेश्वरूप्यं' चेति / विरूद्धा वा एतं हेतवः प्रधानहेत्वभावस्वकारणशवितभेदतः कार्यस्य परिमाणदिरूपेण वैचित्र्यस्य कार्यकारणभावादिना चोपपद्यमानत्वात्। थाहि-प्रधानं यदि व्यक्तस्य कारण भवेत्तदा सर्वमेव विश्वं तत्स्वरूपवत्तदात्मकत्वादेकमेव द्रव्यं स्यात,