________________ संख 43 - अभिधानराजेन्द्रः - भाग 7 संख धभिस्वरूपवदिति के न रूपेण धर्मी परिणतः स्यात् धर्मों वा? अवस्थातुश्व धर्मिणः सकाशादव्यतिरेकाद्धर्मयोरवस्थातृस्वरूपवन्न निवृत्तिः, नाऽपि प्रादुर्भावः, धर्माभ्यां च धर्मिणोऽनन्यत्वात् धर्मस्वरूपवत् / अपूर्वस्य चोत्पादः पूर्वस्य चं विनाश इति नैकस्य कस्यचित्परिणतिः सिद्धयेदिति, न परिणामवशादपि साख्यानां कार्यकारणभावव्यवहारगच्छते। सम्मः 1 काण्ड। (नच परिणामप्रसाधकं प्रमाण क्षणिकमक्षणिकं वा सम्भवतीत्यादि, साङ्ख्यमतप्रदर्शन तत्प्रतिक्षपश्च काजकारणभाव' शब्दे तृतीयभागे 188 पृष्ठ गतः।) ततः 'शक्तस्य शक्यकरणाद्' इत्ययमप्यनैकान्तिकः। सत्कार्यवादे च कारणभावस्याघटमानत्वाद् 'कारणभावाद्' इत्ययमप्यनैकान्तिकः। अथवा-कार्यत्वासंम्भवस्य सतः प्राक् प्रतिपादतित्वदासत्कार्यवाद एव चोपादानग्रहणादिनियमस्य युज्यमानत्वाद् उपादानग्रहणाद्' इत्यादिहेतुचतुष्टयस्य साध्य-विपर्ययसाधनाद्विरुद्धता। अथ यदि 'असदेवोत्पद्यत' इति भवता मत तत कथं सदसतोरूत्पादः सूत्रे प्रतिषिद्धः ? उक्तं च तत्र"अनुत्पन्नाश्च महामतेः सर्वधर्मा सदसतोरनुत्पन्नत्वादिति," न, वस्तूनां पुर्वापरकोटिशून्यक्षणमात्रावस्थायी स्वभाव एव उत्पाद उच्यते भेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायां, न पुनर्वैभाषिकपरिकल्पिता जातिः संस्कृतलक्षणा प्रतिषेत्स्यमानत्वात्तस्याः / नापि वैशेषिकादिपरिकल्पितसत्तासमवायः स्वकारणसमवायो वा तयोरपि निषेत्स्यमानस्वात्, नित्यत्वात् तयोः परमतेन, नित्यस्य च जन्मानुपपत्तेः, उक्तंच'सत्ता स्वकारणाश्लेषकरणात्कारणं किल / सा सत्ता स च सम्बन्धो, नित्यो कार्यमथेह किम् // 1 // ' इति / स एवमात्मक उत्पादो नाऽसना तादात्म्यन सम्बध्यते, सदसतोर्विरोधात्। नासत्सद्भवति। नापि सता पूर्वभाविना सम्बध्यते / तस्य पूर्वमसत्वात्कल्पनाबुद्ध्या तु केवलमसता वस्तु संबध्यते, नासन्नाम किंचिदस्ति यदुत्पत्तिमाविशेत्। 'असदुत्पद्यत' इति तु कल्पनाविरचितव्यवहारमात्रम् / कल्पनाबीजं तु प्रतिनियतपदार्थानन्तरोपलब्धस्य रूपस्योपलब्धिलक्षणप्राप्तस्योत्पत्त्यवस्थातः प्रागनुपलब्धिः तदेवमुत्पत्तेः प्राक्कार्यस्य न सत्त्वं धर्मः, नाऽप्यसत्त्वं धर्मस्यैवाभावात् / अपि च-चयः-प्रभृतिषु कारणेषु दध्यादिक कार्यमस्तीति यद्युच्यते तदा वक्तव्यं- किं व्यक्तिरूपेण तत्तत्र सद्, अथ शक्तिरूपेण? तत्र यदि व्यक्तिरूपेण इति पक्षः, सनयुक्त:-क्षीराद्यवस्थायामपि दध्यादीनां स्वरूपेणोपलब्धिप्रसङ्गात्। नाऽपि शक्तिरूपेण, यतः तद्रूपं दयादेः कार्यानुपलब्धिलक्षणप्राप्तात् किमन्यद्, आहोश्वित् तदेव ? यदि तदेव तदा पूर्वमेवोपलब्धिप्रसङ्गो दध्यादेः / अथान्यदिति पक्षस्तदा कारणात्मनि कार्यमस्तीत्यभ्युपगमस्त्यक्तो भवेत कार्यागिन्नतनोः शक्त्यभिधानस्य पदार्थान्तरस्य सद्भावाभ्युपगमात, तथाहि-यदेवाविर्भूतविशिष्टरसवीर्यविपाकादिगुणसमन्वित पदार्थस्वरूपं तदेव दध्यादिकं कार्यमुच्यते-क्षीरावस्थायां च तदुपलब्धिलक्षणप्राप्तमनुपलभ्यमानमसद्व्यवहारविषयत्वमवतरति। यचान्यच्छक्तिरूपं तत्कार्यमेव न भवति; नच अन्यस्य भावेऽन्यत्सद्भवति अतिप्रसङ्गात् / न चउपचारकल्पनया तद्व्यपदेशसद्भावेऽपि वस्तुव्यवस्था, शब्दस्य वस्तुप्रतिबन्धाभावात् / तद्भावेऽपि वस्तुसद्भावासिद्धेः / यदपि 'भेदानामन्वयदर्शनात्प्रधानास्तित्वम्' उक्तम् तत्र हेतोरसिद्धत्वं, नहि शब्दादिलक्षणं व्यक्तं सुखाद्यन्वितं सिद्ध सुखादीनां ज्ञानरूपत्वाच्छब्दादीनां च तद्रूपविकलत्वान्न सुखाद्यन्वितत्वम्। तथा च प्रयोगः / ये ज्ञानरूपविकलानते सुखाद्यात्मकाः, यथा-परोपगत आत्मा। ज्ञानरूपविकलाश्च शब्दादय इति व्यापकानुपलब्धिः। अथ ज्ञानमयत्वेन सुखादिरूपत्वस्य व्याप्तिर्यदि सिद्धा भवेत् तदा तन्नि (शि) वर्तमान सुखादिमयत्वमादाय निवर्तेत; न च सा सिद्धा पुरूषस्यैव संविद्रूपत्वेनेष्टे-रिति, असदेतत्; सुखादीना स्वसंवेदनरूपतया स्पष्टमनुभूयमानत्वात् / तथाहि-स्पष्टयं सुखादीनां प्रीतिपरितापादिरूपेण शब्दादिविषय - सन्निधाने असन्निधाने च प्रकाशान्तरनिरपेक्षा प्रकाशात्मिका स्वसंवित्तिः। यच्च प्रकाशान्तरनिरपेक्ष सातादिरूपतया स्वयं सिद्धिमवतरति तज्ज्ञान, संवेदनं, चेतन्यं, सुखमित्यादिभिः पर्यायैरभिधीयते / न च सुखादीनामन्येन सवेदनेनाऽनुभवादनुभवरूपता प्रथमे, तत्संवेदनस्यासातादिरूपताप्रसक्तेः स्वयमतदात्मकत्वात्। तथाहि-योगिनोऽनुमानवतो वा परकीय सुखादिकं संवेदयतो न सातादिरूपता, अन्यथा योग्यादयोऽपि साक्षात् सुखाद्यनुभाविन इवातुरादयः स्युर्योग्यादिवद्वा अन्येषामप्यनुग्रहोपघातो न स्याताम अविशेषात्। संवेदनस्य च सातादिरूपत्वाभ्युपगमे संविद्रपत्वं सुखादेः सिद्धम् / इदमेव हि सुख दुःखं च नः 'यत्सातमसातं च संवेदनम्' इति नानैकान्तिकता हेतोः / नाप्यसिद्धता, सर्वेषां बाह्यार्थवादिनां संविद्रूपरहितत्वस्य शब्दादिषु सिद्धत्वात् / विज्ञानवादिमताभ्युपगमोऽन्यथा प्रसज्येत। तथा चेष्टसिद्धिरेव विरूद्धताऽप्यस्य हेतोर्न सम्भवति सपक्षे भावात्। न च यथा बहिर्देशावस्थितनीलादिसन्निधानवशादनीलादिस्वरूपमपि संवेदनं नीलनिर्भासं संवेद्यते तथा बाह्यसुखाद्युपधानसामर्थ्यादसातादिरूपमपि सातादिरूप लक्ष्यते तेन संवेदनस्य सातादिरूपत्वेऽपि न सुखादीनां संविद्रपत्वं सिध्यति अतोऽनैकान्तिकता हेतोरिति वक्तव्यम्, अभ्यासप्रकृतिविशेषत एकस्मिन्नपि त्रिगुणात्मके वस्तुनि प्रीत्याद्याकारप्रतिनियतगुणोपलब्धिदर्शनात् / तथाहि-भावनावशेन मद्याङ्गनादिषु कामुकादीनां जातिविशेषाच्च करभादीनां केषाञ्चित्प्रतिनियताः प्रीत्यादयः सम्भवन्ति न सर्वेषाम्, एतच शब्दादीनां सुखादिरूपत्वान्न युक्तं, सर्वेषामभिन्नवस्तुविषयत्वान्नीलादि-विषयसंवित्तिवत्प्रत्येकं चित्रा संवित्प्रसज्येत। अथ यद्यपि त्रयात्मक वस्तु तथाऽप्यदृष्टादिलक्षणसहकारिवशात्किचिदेव कस्यचिदरूपमाभाति न सर्वं सर्वस्य, असदेतत् तदाकारशून्यत्वादवस्त्वालम्बनप्रतीतिप्रसक्तेः। तथाहि-त्र्याकारं तद्वस्तुएकाकारश्च संविदः संवेद्यन्त इति कथम् अनालम्बनास्ता न भवन्ति ? प्रयोगः-यद्यदाकारं संवदेनं न भवतिन तत्तद्विषयं यथा चक्षुज्ञनि न शब्दविषयम्, त्र्यात्मकवस्त्वाकारशून्याश्च यथोक्ताः संविद इति व्यापकानुपलब्धिः / तथापितद्विपयत्वेऽतिग्रसङ्गापत्तिर्विपर्यय वा बाधंक प्रमाणम्। न च यथा प्रत्यक्षेण गृहीतेऽपि सर्वात्मना वस्तुन्याभ्यासादिवंशात् क्वचिदेव क्षणिकत्वादौ निश्चयोत्पत्तिर्न सर्वत्र तद्वददृष्टादिवलादेकाकारा संविदुदेष्यतीत्यभिधातुं क्षम, क्षणिकादिविकल्पस्याऽपि परमार्थतो वस्तुविषयत्वानभ्युपग