________________ संख 42 - अभिधानराजेन्द्रः - भाग 7 संख एवं अकारओ अप्पा, एवं ते उपगमिआ१३॥ कुर्वन्निति स्वतन्त्रः कर्ताऽभिधीयते आत्मनश्चामूर्तत्वान्नित्यत्वात्सर्वव्यापित्वाच कर्तृत्वानुपपत्तिः / अत एव हेतोः कारायतृत्वमप्यात्मनोऽनुपपन्नमिति / पूर्वश्वशब्दोऽतीतानागतकर्तृत्वनिषेधको, द्वितीयः समुच्चयार्थः / ततश्वात्मा न स्वयं क्रियायां प्रवर्तते नाप्यन्य प्रवर्तयति / यद्यपि च स्थितिक्रियां मुद्राप्रतिबिम्बोदयन्यायेन (जपास्फटिकन्यायेन च) भुजिक्रियां करोति, तथापि समस्तक्रियाक र्तृत्वं तस्य नास्तीत्येतद्दर्शयति- 'सव्वं कुव्वं ण विज्जइ' त्ति सर्वां परिस्पन्दादिकां देशाद्देशान्तरप्राप्तिलक्षणां क्रियां कुर्वन्नात्मा न ] विद्यते सर्वव्यापित्वेनामूर्तत्वेन चाकाशस्ये-वात्मनो निष्क्रियत्यमिति। तथा चोक्तम्- 'अकर्ता निर्गुणो भोक्ता,आत्मा सांख्यनिदर्शने' इति। एवमनेन प्रकारेणात्माऽ-कारकं इति / ते-सांख्याः तुशब्दः पूर्वेभ्यो व्यतिरेकमाह-ते पुनः सांख्या एवं प्रगल्भिताः प्रगल्भवन्तो धाटयवन्तः सन्तो भूयो भूयस्तत्र तत्र प्रतिपादयन्ति, यथा “प्रकृतिः करोति पुरूष उपभुङ्क्ते तथा बुझ्यध्यवसितमर्थ पुरूषश्चेतयते इत्याद्य कारवादिमतमिति। सूत्र०१ श्रु० 1 अ०१ उ०। ('कज्जकारणभाव' शब्दे तृतीयभागे 167 पृष्ठे सत्कार्ययाद उक्तः।) सांख्यदर्शनप्रतिपेक्षः अशुद्धद्रव्यास्तिकसांख्यमतप्रतिक्षेपकस्तु पर्यायास्तिकः प्राह-यदुक्तं कापिलैः "प्रधानादेव महदादिकार्यविशेषाः प्रवर्त्तन्ते" इति / तत्र यदि महदायः .कार्यविशेषाः प्रधानस्वभावा एव कथमेषां कार्यतया ततः प्रवृत्तिर्युक्ता? न हि यद् यतोऽव्यतिरिक्तं तत्तस्य कार्य कारणं वेति व्यपदेष्टुं युवतं, / कार्यकारणयोर्भिन्नलक्षणत्वात् अन्यथा हि 'इदंकारणं' कार्य च इत्यसंकीर्णव्यवस्थोत्सीदेत्। ततश्व यदुक्तं प्रकृतिकारणिकैः- "मूलप्रकृतेः कारणत्वमेव, भूतेन्द्रियलक्षणस्य षोडशकगणस्य कार्यत्वमेव, महदहकारतन्मात्राणां च पूर्वोत्तरापेक्षया कार्यत्वकारणत्वे च" इति तत्सङ्गतं न स्यात्। आह चेश्वरकृष्णः- “मूलप्रकृतिरविकृति-महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकस्तु विकारो, न प्रकृतिर्न विकृतिः पुरुषः // 3 // " (सांख्यका०) इति / यतः सर्वेषां परस्परमव्यतिरेकात्कार्यत्वं कारणत्वं वा प्रसज्जयेत् अन्यापेक्षत्वाद्वा कार्यकारणभावस्यापेक्षणीयस्य रूपान्तरस्यवाऽभावात्। पुरुषवत्न प्रकृतित्वं विकृतित्वंवा सर्वेषां स्यात्। अन्यथा पुरूषस्यापि प्रकृतिविकारख्यपदेशप्रसक्तिः। उक्तं च“यदेव दधि तत् क्षीरं, यत् क्षीरं तद्दधीति च / वदता विंध्यवासित्वं, ख्यापितं विन्ध्यवासिना / / 1 / " इति / 'हेतुमत्त्वादिति धर्मासङ्गिविपरीतमव्यक्तम्' इत्येतदपि बालप्रलापमनुकरोति। न हि यद्यतोऽव्यतिरिक्तस्वभावं तत्ततो विपरीतं युक्तं वैपरीत्यस्य रूपान्तरलक्षणत्वात्, अन्यथा भेदव्यवहारोच्छेदप्रसङ्ग इति। सत्यरजस्तमसा चैतन्यानां च परस्परभेदाभ्युपगमो निर्निमित्तो भवेत्ततश्च विश्वस्यैकरूपत्वात् सहोत्पत्तिविनाशप्रसङ्गः अभेदव्यवस्थितेरभिन्नयोगक्षेमलक्षणत्वादिति। व्यक्तरूपाव्यतिरेकाद् अव्यक्तमपि हेतुमदादिधर्मासङ्गिप्रसक्तं व्यक्तस्वरूपवत्, अहेतुमत्त्वादिधर्मकलापाध्यासितं वा व्यक्तम् अव्यक्तरूपाव्यतिरेकात्तत्स्वरूपवत् अन्यथाऽतिप्रसक्तिः / अपि चअत्वयव्यतिरेकनिबन्धनः कार्यकारणभावः प्रसिद्धः,नच प्रधानादिभ्यो / महदाद्युत्पत्त्यवगमनिबन्धनः अन्वयो व्यतिरेको वा प्रतीतिगोचरः सिद्ध, यतः- 'प्रधानान्महान्महतोऽहङ्कारः' इत्यादि प्रक्रिया सिद्धिसौधशिखरमध्यास्त / तस्मानिर्बन्धन एवायं प्रधानादिभ्यो महदाधुत्पत्तिप्रकमः / न च नित्यस्य हेतुभावः संगतः यतः प्रधानान्महदादीनामुत्पत्तिः स्यान्नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधादिति प्रतिपादयिष्यमाणत्वात् / अथ नास्माभिरपूर्वस्वभावोत्पत्त्या कार्यकारणभावोऽभ्युपगतः यतो रूपाऽभेदादसौ विरूध्यते / किं तु-प्रधानं महदादिरूपेण परिणतिमुपगच्छति, सर्पः कुण्डलादिरूपेणेवेति / 'प्रधानं महदादिकारणम्' इति व्यपदिश्यते, महदादयस्तु तत्परिणामरूपत्वातत्कार्यव्यपदेशमासादयन्ति। न च परिणमोऽभेदेऽपि विरोधमनुभवति एकवस्त्वधिष्ठानत्वात्तस्येति, असम्यगेतत्परिणामासिद्धेः / तथाहिअसौपूर्वरूपप्रच्युतेर्भवेदप्रच्युतेर्वेति कल्पनाद्वयम्। तत्र यद्यप्रच्युतेरिति पक्षस्तदावस्थासांकर्यादृद्धाद्यवस्थायामपि युवत्वाद्यवस्थोपलब्धिप्रसङ्गः / अथ प्रच्युतिरिति पक्षस्तदा स्वरूपहानिप्रसक्तिरिति पूर्वक स्वभावान्तरं निरूद्धम् अपरं च तदुत्पन्नमिति न कस्यचित्परिणामः सिध्द्येत् / अपि च-तस्यैवान्यथाभावः परिणामो भवद्भिर्वर्ण्यत; स चैकदेशेन सर्वात्मना वा? न तावदेकदेशेन, एकस्यैकदेशासम्भवात्, नाऽपि सर्वात्मना, पूर्वपदार्थविनाशेन पदार्थान्तरोत्पादप्रसङ्गात्। अतो न तस्यैवान्यथात्वं युक्तं, तस्य स्वभावान्तरोत्पादनिबन्धनत्वात् / व्यवस्थितस्य धर्मिणो धर्मान्तरनिवृत्तौ धर्मान्तरप्रादुर्भावलक्षणः परिणामोऽभ्युपगम्यते नतु स्वभावान्यथात्वमिति चेत्, असदेतत् ; यतः प्रच्यवमान उत्पद्यमानश्च धर्मो धर्मिणोऽर्थान्तरभूतोऽभ्युपगन्तव्यः, अन्यथा धर्मिण्यवस्थिते तस्य तिरोभावाविर्भावासम्भवात् / तथाहियस्मिन् वर्तमाने यो व्यावर्त्तते स ततो भिन्नो, यथा घटेऽनुवर्तमाने ततो व्यावय॑मानः पटः, व्यावर्त्तते च धर्मिण्यनुवर्तमानेऽप्याविर्भावतिरोभावासङ्गीधर्मकलाप इति, कथ-मसौ ततो न भिन्न इति। धर्मी तदवस्थ एवेति कथं परिणतो नाम? यतो नार्थान्तरभूतयोः कटपटयोरूत्पादविनाशेऽचलितरूपस्य घटादेः परिणामो भवत्यतिप्रसङ्गात्, अन्यथा चैतन्यमपि परिणामि स्यात् / तत्सम्बद्धयोधर्मयोरुत्पादविनाशात् तस्याऽसावभ्युपगम्यते नान्यस्येति चेत्, न; सदसतोः सम्बन्धाभावेन तत्सम्बन्धित्वायोगात्। तथाहि- सम्बन्धो भवन् सतो वा भवेदसतो वा भवेदिति कल्पनाद्वयम्। न तावत्सतः समधिगता-शेषस्वभावस्यान्यानपेक्षतया क्वचिदपि पारतन्त्र्यासम्भवात् / नाप्यसतः, सर्वोपाख्याविरहिततया तस्य क्वचिदाश्रितत्वानुपपत्तेः, नहि शशविषाणादिः कचिदप्याश्रित उपलब्धः। नच व्यतिरिक्तधर्मान्तरोत्पादविनाशे सतिपरिणामो भवद्भिर्यवस्थापितः, किंतर्हि? यत्रात्मभूतैकस्वभावनुवृत्तिः अवस्थाभेदश्च तत्रैवत व्यवस्था। नच धर्मिणः सकाशाद्धर्मयोर्व्यतिरेकेसतिएकस्वभावानुवृत्तिरस्ति, यनोधर्येव तयोरेक आत्मा; सचव्यतिरिक्त इतिनात्मभूतैकस्यभावानुवृत्तिः। न च निरुध्यमानोत्पद्यमानधर्मद्वयव्यतिरिक्तो धर्मी उपलब्धिलक्षणप्राप्तो दृग्गोचरमवतरति कस्यचिदिति तादृशोऽस व्यवहारविषयतैव। अथ अनर्थान्तर भूत इतिपक्षःकक्षीक्रियते तथाऽप्येकस्माद्धमिस्यरूपाद व्यतिरिक्तत्वात्तिरोभावाऽऽविर्भाववतोर्मियोद्धयोरप्येकत्वं