________________ संख 41 - अभिधानराजेन्द्रः - भाग 7 संख न प्रतीतः केवलमलकाभिधानो राजा वाराणस्यां भगवता प्रवाजितोऽन्तकृद्दशासु श्रूयते स यदि परं नामान्तरेणायं भवतीति। स्था० | 8 ठा० 3 उ० / हरिकेशबलसाधोः पूर्वभवजीवस्य सोमदेवपुरोहितस्य प्रज्ञापके मथुराराज्यमुपभुज्य प्रव्रजिते स्वनामख्याते राजनि, उत्त० 12 अ० / हस्तिनापुरनगरवासिनि स्वनामख्याते इभ्यश्रावके, दर्शक 4 तत्त्व। आ० चू० वैताढ्यपर्वतस्योत्तरश्रेणेः सुरम्याया नगा राजनि स्वनामख्याते विद्याधरेन्द्रे, ती०६ कल्प / स्वनामख्याते महानिधी, ज०। णट्टविहीणाडगविही, कव्वस्सय चउव्विहस्स उप्पत्ती। संखे महाणिहिम्मि, तुडियंगाणं च सव्वेसिं||६| जं०३ वक्ष / ति०। दर्श०। ती०। (नवनिधिवक्तव्यता 'णिहि' शब्दे चतुर्थभागे 2151 पृष्ठे गता।) ऋषभदेवस्य शतपुत्राणांतृतीये पुत्रे, कल्प० 1 अधि०७ क्षण / जम्बूद्वीपे मन्दरस्य पश्चिमे शीतोदाया महानद्या दक्षिणे स्वनामख्याते चक्रवर्तिविजये, स्था०८ ठा०३ उ०। अरिष्टनेमेः पूर्वभवजीवे स्वनामख्याते राजनि, उत्त० 12 अ०। संख्य त्रि०संख्यान संख्या तामहतीतिसंख्यः। 'दण्डादेर्यः // 6 / 4 / 178 // इति यप्रत्ययः / संख्याते, कर्म० 5 कर्म०। संख्यायत इति संख्यः। पक्षमास-यनादिप्रमिते काले, विशे०। संग्राम, बृ०३ उ०। सांख्य पुं० संख्या संख्या विवेकास्तां वेत्तीति सांख्यः। कपिलशिष्ये, सूत्र० 1 श्रु०१ अ० 1 उ०। सांख्याः प्राहुः- "अशेषशक्ति-प्रचितात, प्रधानादेव केवलात् / कार्यभेदाः प्रवर्त्तन्ते, तद्रूपा एव भावतः / / 7 / / य दशेषाभिर्महदादिकार्यग्रामजनिकाभिरात्मभूताभिः शक्तिभिः प्रचित युक्तं सत्त्वरजस्तमसां साम्यावस्थालक्षणं प्रधानम्, तत एव महदादयः कार्यभेदाः प्रवर्त्तन्त इति कापिलाः। 'प्रधानादेवे' त्यवधारणं कालपुरूषादिव्यवच्छेदार्थ, 'केवलादि' ति वचन सेश्वरसाख्योपकल्पितेश्वरनिराकरणार्थम् 'प्रवर्त्तन्ते' इति साक्षात्पारम्पर्येण उत्पद्यन्त इत्यर्थः / तथाहि-तेषां प्रक्रिया-प्रधानाद्-बुद्धिः प्रथममुत्पद्यते, बुद्धेश्वाहंकारः, अहंकारात्पञ्च तन्मात्राणिशब्दस्पर्शरूपरसगन्धात्मकानीति, इन्द्रियाणि चैकादशोत्पद्यन्त-पञ्च बुद्धीन्द्रियाणि श्रोतृत्वक्चक्षुर्जिवाघ्राणलक्षणानि, पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थसंज्ञकानि / एकादशं मनश्चेति-पश्चभ्यस्तन्मात्रेभ्यः पञ्च भूतानि शब्दादाकाशः, स्पर्शाद्वायुः, रूपात्तेजः, रसादापः, गन्धात्पृथिवीति / तदुक्तमीश्वरकृष्णेन-"प्रकृतेर्महास्ततोऽहङ्कारस्तस्माद्रणश्च षोडशकः / तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि // 22 // " अत्र च-महानिति बुद्ध्यभिधानम्, बुद्धिश्च घटः पट इत्यध्यवसायल क्षणा, अहङ्कारस्त्वह सुभगोऽहं दर्शनीय इत्याद्यभिधानस्वरूपः / मनस्तु संकल्पलक्षणम्, तद्यथा-कश्चि-टुः शृणोतिग्रामान्तरे भोजनमस्तीति तत्र तस्य संकल्पः स्याद्यास्याभीति किं तत्र दधि स्यादुत दुग्धमित्येवं संकल्पः स्यात् / सकल्पवृत्ति मन इति / तदेवं बुद्ध्यहङ्कारमनसा परस्परं विशेषोऽवगन्तव्यः / महदादयः प्रधानपुरूषौ चेति पञ्चविंशतिरेषां तत्त्वानि। यथोक्तम-"पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे रतः। शिखी मुण्डी जटी वापि, मुच्यते नात्र संशयः / / 1 / " इति / महदादयश्च कार्यभेदाः प्रधानात्प्रवर्त्तमाना न कारणादन्यन्तभेदिनो भवन्ति बौद्धाद्यभिमता इव कार्यभेदाः किं तु प्रधानरूपात्मान एव वैगुण्यादिना प्रकृत्यात्मकत्वात्। तथाहि-यदात्मकं कारण कार्यमपि तदात्मकमेव यथा कृष्णरतन्तुभिरारब्धः पटः कृष्णः शुक्लैः शुक्ल उपलभ्यते, एवं प्रधानमपि त्रिगुणात्मकम् / तथा बुद्धहङ्कारतन्मात्रेन्द्रियभूतात्मक व्यक्तमपि त्रिगुणात्मकमुपलभ्यते, तस्मात्तद्रूपम्। किं च-अविवेकि / तथाहि इमे सत्त्वादयः 'इदं च महदादिकं व्यक्तमिति' पृथग न शक्यते कर्तुं, किंतु - "ये गुणास्तद्वयक्तं यद् व्यक्तं ते गुणा" इति / तथोभयमपि विषयो भोग्यस्वभावत्वात् / सामान्यं च सर्वपुरूषाणां भोग्यत्वात्पण्य-स्त्रीवद्। अचेतनात्मक च सुखदुःखं मोहाऽवेदकत्वात्। प्रसवधर्मि च। तथाहि प्रधानं बुद्धि जनयति, साऽप्यहंकारें , सोऽपि तन्मात्राणि-इन्द्रियाणि चैकादशतन्मात्राणि महाभूतानि जनयन्तीति / तस्मात्वैगुण्यादिरूपेण तद्रूपा एव कार्यभेदाः प्रवर्तन्ते / यथोक्तम्- “त्रिगुणमविवेकिविषयः, सामान्यमचेतनं प्रसवधर्मि / व्यक्तं तथा प्रधानं, तद्विपरीतस्तथा चव पुमान्॥११॥" (साड्ख्य कारि.) इति। अथ यदि तद्रूपा एव कार्यभेदाः कथं शास्त्रे व्यक्ता व्यक्तयो_लक्षण्योपवर्णनम्। “हेतुमदनित्यमव्यापि, सक्रियमनेकमाश्रित लिङ्गम्। सावयवं परतन्त्रं, व्यक्तं विपरीतमव्यक्तम्" 110 / / (सायकारिका) इति / क्रियमाणं शोभेत / अत्र ह्ययमर्थःहेतुमत्कारणवद्वयक्तमेव / तथाहि-प्रधानेन हेतु-मती बुद्धिः, अहङ्कारो बुद्ध्या हेतुमान पञ्चतन्मात्राणि एकादश चेन्द्रियाणि हेतुमन्ति अहंकारेण भूतानि तन्मात्रैः / नन्वेवमव्यक्तम् कुतश्चित्तस्यानुत्पत्तेः / तथा 'व्यव तमनित्यमुत्पत्तिधर्मकत्वात्' / तद्विपर्ययान्नत्वेवमव्यक्तम्। प्रधानपुरूषी दिवि भुवि चान्तरिक्षे च सर्वत्र व्याप्तितया यथा वर्तेत न तथा व्यक्तं वर्त्तत इति तदव्यापि / यथा च संसारकाले त्रयोदशविधेन बुद्धयहंकारेन्द्रियलक्षणेन करणेन संयुक्तं सूक्ष्मशरीराश्रितं व्यक्तम् संसारिनत्वेवमव्यक्त तस्य विभुत्वेन सक्रियत्वायोगात् / बुद्ध्यहंकारादिभेदेन चानेकविध व्यक्तमुपलभ्यते नाध्यक्तम्। तस्यैकस्यैव सकलत्रिलोकीकारणत्वात्। आश्रित च व्यक्तं- यद्यस्मादुत्पद्यते तस्य तदाश्रितत्वात्, नत्वेवमव्यक्तम् अकार्यत्वात्तस्य / लयं गच्छतीति इति कृत्वा लिङ्गं च व्यक्तम्। तथाहि-प्रलयकाले भूतानि तन्मात्रेषु लीयन्ते, तन्मात्राणीन्द्रियाणि चाहंकार, सोऽपि बुद्धौ, साऽपि प्रधाने। नत्वेवमव्यक्तं क्वचिदपि लय गच्छतीति / लीन वा अव्यक्तलक्षणार्थ गमयति व्यक्तं कार्यत्वाल्लिङ्ग, न त्वेवमव्यक्तमकार्यत्वात् तस्य / सावयवं च व्यक्तं शब्दस्पर्शरूपरसगन्धात्मकै रवयवैर्युक्तत्वात, नत्वेवमव्यक्तं तत्र शब्दादीनामनुपलब्धेः / अपि च-यथा पितरि जीवति पुत्रो न स्वतन्त्रो भवति तथा व्यक्तं सर्वदा कारणायतत्वात्परतन्त्रम्, नैवमव्यक्तमकारणाधीनत्वात्सर्वदा तस्येति / न; परमार्थतस्तद्रूप्येऽपि प्रकृतिविकारभेदेन तयोर्भेदाविरोधात / तथाहि-स्वभावतस्वैगुण्यरूपेण प्रकृतिरूपा एव प्रवर्त्तन्ते विकाराः / सत्त्वरजस्तमसान्तूत्कटानुत्कटत्वविशेषात्सर्गवैचित्र्य महदादिभेदेन न विरोत्स्यत इति कारणात्मनि कार्यमस्तीति प्रतिज्ञातं भवति / सम्म०१काण्ड (३गाथाव्याख्यायाम्)। इदानीमकारकवादिमताभिधित्सयाऽऽहकुव्वं च कारयं चेव, सव्वं कुव्वं न विजई।