________________ सामण्णविसेस 663 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस वाभावेन / न चाय न्याय्यः प्रसङ्गः इत्याह- दृष्टष्टविरोधात् / अयोगिज्ञानाविषयत्व दृष्टविरोधः, योगिज्ञानाविषयत्वे चाभ्युपगमविरोध इति भवः / दोषान्तरमाह-भिन्नसंस्थानबुद्ध्यसिद्धेः अणुसमुदायाविशेषण घटशरावादिबुदध्यसिद्धरित्यर्थः / अमुमेवार्थ स्पष्टयन्नाह- तत्त्वतःपरमार्थेन, अणुसमुदायाविशषतः कारणात्, तदयोगाद् भिन्नसंस्थानायागेन तदबुद्ध्ययोगात / यदि नामैवं ततः किमित्याह-अस्याश्च भिन्नसस्थानबुद्धेः, अनुभवसिद्धत्वात् अत एव प्रतिक्षेपायोगात्, अयोगश्च सर्वत्रानाश्वासप्रसङ्गात्, अनुभवप्रतिक्षेपे सति।नचासावनुभवमात्रविषय इत्याह-विशेषहेत्वभावात् अनुभवस्याणुसमुदायमात्रालम्बनत्वेन। सर्वत्रानाश्वासे च तत्त्वव्यवस्थानुपपत्तेर्विसंवादिबोधाशङ्कया, इति-एवं, बाह्यालम्बनवा देना सर्वेण, एकानेकस्वभावमेन तदालम्बनम्, अङ्गीकर्तव्यमित्याह- तत्रापि एवंभूत आलम्बने, अनुपप्लुतप्रमात्रविगानस्वेद्याः स्वभावा धर्माः, वस्तुसन्तः-परमार्थसन्तः, इन्द्रनीलादौ स्थूरादिधर्मवर, तदन्ये पुनर्नउपप्लुतप्रमातृविगानसंवेद्या दीपमण्डलादिवदिति / कुत एतदेवमित्याह तथालोकानुभवसिद्धेः कारणात्। अन्यथैवमनभ्युपगमे, तद्वाधयालोकानुभवबाधया, सर्वमेवासमञ्जसम् / दत इत्याह-अनिबन्धनत्वाद् नियामकाभावात्। इत्येवमयुक्तैकान्ततः शुष्कतर्कानुसारिणी जातिवादप्रधाना, सूक्ष्मेक्षिका। किमित्ययुक्तेत्याह-- अनया यस्माच्छुष्कतर्कानुसारिण्या सूक्ष्मेक्षिकया, भवदध्यक्षलक्षणमपि--भवतोऽध्यक्षलक्षणं 'प्रत्यक्ष कल्पनापोढम्' इत्याद्यपि, असंभव्येवेति वक्ष्यामः। अतोऽनेकस्वभावे वस्तुनि क्षयोपशमानुरूपप्रतिपत्तावुक्तवदन्तर्जल्पाकारबोधसिद्धरभिधानविशेषस्मृत्ययोगोऽबाधक एव / यदपि क्वचिद् वच्योपलब्धौ तद्वाचकविशेषास्मरणं तदप्यनेकवाचकवाच्यत्वेऽस्य तथाविधावरणभावाद् विकल्पबोधवत एव, अमिलापाद्यसंसृष्टबोधेनाननुस्मरणात् तथाप्रतीतेरिति। एवं च 'सति ह्यर्थदर्शनेऽर्थसन्निधौ दृष्ट शब्दे ततः स्मृतिः स्यात्, अग्निधूमवत्' इति नैकान्तसुन्दरम्,तदर्थस्यामिलापासंसृष्टबोधेनादर्शनात्, तथास्वभावत्वात्, शब्दान्तरस्मृतौ चोक्तवददोषात्। एवं च 'नचायमशब्दमर्थ पश्यति इति विचारणीयम्। यदिशब्दानास्कन्दितमिति। तदसिद्धम, केवलस्यैव दर्शनात्। अथाविकल्पज्ञानेन ततः सिद्धसाध्यता, शब्दार्थस्य तेनादर्शनात्। एवं च 'अपश्यंश्च न शब्दविशेषमनुस्मरति' इत्येतदपि विचारास्पदमेव / यदि येनैव संसृष्टविज्ञानस्तमेव नानुस्मरतीति सिद्धसाध्यता तस्य तदा तेनैव विद्यमानत्वात् / अथ तत्प्रतिबद्ध शब्दान्तरमिति / तदसिद्धम, तस्य सति क्षयोपशमे तद्दर्शनात् स्मरणोपपत्तेः / एवम् 'अननुस्मरन्नयोजयति' इत्यप्ययुक्तम्, तद्विज्ञानसंसृष्टस्य तथा योजनात्, इतरस्यापि तत्संभवाविरोधात। एवम् 'अयोजयन्नप्रत्यति'हस्वप्यसांप्रतमेव, शब्दान्तरमधिकृत्यायोजयतोऽपि प्रतीते,तद्वयसिक्तेमतक्तवद्योग एव 'इत्यायातमान्ध्यमशेषस्य जगतः' इत्युक्तिमात्रम्, विवक्षिताभिधेयार्थशून्यत्वात्, उक्तवत्तदयोगादिति। एवं प्रासनिकमभिधाय प्रकृतमुपक्रमत-अत इत्यादिना / अतोऽनेकरवभावे वस्तुन्युक्तनात्या व्यवस्थिते, क्षयोपशमानुरूपप्रतिपत्ती सत्याम, उक्तवयथोक्त तथा, अन्तर्जल्पाकारबोधसिद्धेः कारणात्, अभिधानविशेषस्मृत्ययोगोऽबाधक एव, स्मृतेरेवान्तर्जल्पाकारबोधरूपतयाऽप्रवृत्तिप्रसङ्गादिति हृदयम्। दोषान्तरपरिजिहीर्षयाह- यदपि क्वचिद् वाच्योपलब्धो सत्या, तद्वाचकविशेषास्मरणं किमिदमित्यादि सामान्यवाचकप्रवृत्तावेव, तदप्यनेकवाचकवाच्यत्वेऽस्य वस्तुनः, तथाविधावरणमावाद-वाचकविशेषस्मरणावरणभावात् विकल्पबोधवत एवअस्मृतिपूर्वकशब्दसंपृक्तबोधवत एवेतार्थः / कुतइत्याह-अभिलापाद्यसंसृष्टवोधेन आदिशब्दाद्विशिष्टमनः परिग्रहः,अननुस्मरणात् कारणात्। अननुस्मरणच तथाप्रतीतः, न ह्यवग्रहमात्रात् स्मृतिः, एवं च कृत्वा सति ह्यर्थदर्शन-अर्थसन्निधौ दृष्ट शब्दे ततः स्मृतिः स्यादनिधूमवदिति पूर्वपक्षोदितम्, नैकान्तसुन्दरम् / कुत इत्याह- तदर्थस्यशब्दार्थस्य, अभिलाषासंसृष्टबोधेनादर्शनात् / अदर्शनं च तथा स्वभावत्वात्अभिलाषाससृथ्वोधनादर्शनस्वभावत्वात्। शब्दान्तरस्मृतौ च वाचकविशेषस्मृती च उक्तवद् यथोक्तम्-तथा-विधावरणभावादित्यादि तथा, अदोषात्। एवं च कृत्वा न चायमशब्दमर्थं पश्यतीत्येतत्पूर्वपक्षोदितं विचारणीयम्। किमुक्तं भवति-अशब्दमिति? यदि शब्दानास्कन्दितमिति / तदसिद्धम् / कुत इत्याह- केवलस्यैव तच्छदानास्कन्दितस्य, दर्शनात्। अथाविकल्पज्ञानेनाशब्दमर्थ पश्यति। एतदाशक्याह-ततः सिद्धसाध्यता। कुत इत्याह- शब्दार्थस्य तेन अतिकल्पज्ञानेनाऽदर्शनाता ततश्च विकल्पज्ञानन सशब्दमर्थ पश्यतीति भवति। अयमेव च शब्दार्थ इति भावः। एवं चापश्यश्च न शब्दविशेषमनु-स्मरतीत्येतदपि पूर्वपक्षोपन्यस्तं, विचारास्पदमेव। किमुक्तं भवति-न शब्दविशेषमनुस्मरति? यदि येनैव शब्दविशेषेण संस्पृष्टविज्ञानः प्रमातातमेव शब्दविशेष नानुस्मरतीति, एवं सिद्धसाध्यता। कुत इत्याह-तस्य शब्दविशेषस्य, तदा तेनैव ज्ञानेन, वेद्यमानत्वात् तद्बोधाविनिगिन / अथ तत्प्रतिबद्धमपक्रमाद दृश्यवस्तुप्रतिबद्धं शब्दान्तरम्, न शब्दविशेषमनु - स्मरतीति / एतदधिकृत्याह- तदसिद्धम् / तस्य शब्दान्तरस्य, सति क्षयोपशमे तज्ज्ञनावरणकर्मणः, तद्दर्शनादन्यायप्रापितशब्दार्थदर्शनात, स्मरणोपपरो:- स्मरणसंभवात् / एवमननुस्मरन्न योजयतीत्यपि पूर्वपक्षोक्तम्, अयुक्तम्। कुत इत्याह-तद्विज्ञानसंसृष्टस्यशब्दस्येति प्रक्रमः / तथा-वाचकत्वेन,योजनात्, इतरस्यापि तत्प्रतिबद्धशब्दान्तरस्य तत्संभवाविरोधाद- योजनासंभवाविरोधात् / 'एवमयोजयन् न प्रत्येतीत्यपि पर्वप्रक्षवचः, असांप्रतमेवअशोभनमेव / कुत इत्याहशब्दान्तरमधिकृत्य तत्प्रतिबद्धम्, अयोजन्तरेऽपि प्रतीक्षेः प्रक्रमाद्