________________ सामण्णविसेस 664 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस वस्तुनः, इति तद्व्यतिरिक्तेन तु प्रक्रमाद् विज्ञानससृष्टन, उक्तवद्यथोक्तम तथा, योग एव, इत्येवम, आयातमान्ध्यमशेषस्य जगत इत्युक्तिमात्रम्-- वचनमात्रम् / कुत इत्याह-विवक्षिताभिधेयार्थशून्यत्वात् / शून्यत्वं चोक्तवद्- यथोक्तं तथा तदयोगाद्- विवक्षितार्थायोगादिति। यत्पुनरेतदाशङ्कितम्-अभिपतन्नेवार्थः प्रबोधयत्यान्तरं संस्कारं, तेन स्मृतिनार्थदर्शनात् ' इति / एतदर्थतः साध्येव, क्षयोपशमस्य द्रव्यादिनिमित्तत्वाभ्युपगमात्, तदनुसारेण तत्प्रवृत्तिसंभवात् / यत्पुनरिदमुक्तम्- 'न, तत्संबन्धस्याऽस्वाभाविकत्वात्' इति / एतदसाधु, उक्तवदस्वाभाविकत्वासिद्धेः, वक्ष्यमाणत्वाच्चापोहाधिकारे ।अतः समयाऽदर्शने - भावादित्ययुक्तम् / तस्य क्षयोपशमव्यञ्जकत्वात्, तगावे तु तदभावेऽपि भावात्, क्वचित् तथोपलब्धेः, अन्यथा सदा तदपेक्षा स्यात् / एव च पुरुषेच्छातोऽर्थानां स्वभावापरावृत्तेरित्यादि यावदशब्दसंयोजनमेवार्थ पश्यति दर्शनात् / इति / एतन्निर्विषयमेव, अत्र ह्यनेकस्वभावतापत्त्या वस्तुनो नैरात्म्यमिति परं दूषणम् / एतच्चैकानेकस्वभावतयाऽस्य तत्त्वतोऽदूषणमेव, अन्यथा तदसत्त्वप्रसङ्गादित्युक्तप्रायम् / अतो विरोधिशब्दवाच्यत्वेऽपि तत्तत्स्वभावतया तथोपलब्धेन कश्चिद् दोषः। यत्पुनरित्यादि। यत्पुनरेतदाशङ्कित परेण। किमित्याह-'अभिपतन्नेवार्थः प्रबोधयत्यान्तरं संस्कार, तेन स्मृति र्थदर्शनादिति / एतदर्थतः अर्थमधिकृत्य, साध्वेवशोभनमेवा कथमित्याह-तदनुसारेणअर्थाभिषतनानुसारेण, तत्प्रवृत्तिसंभवात्-क्षयोपशमप्रवृत्तिसंभवा-दिति / यत् पुनरिदमुक्तंपूर्वपक्षग्रन्थ एव-न तत्संबन्धस्याऽस्वाभाविकत्यात इति / एतदसाधु-अशोभनम् / कुत इत्याह-- उक्तवद् यथोक्त प्राक सर्ववस्तूनामेव प्रायस्तथा तथा सर्वशब्दवाच्यस्वभावत्वादित्यादिना' तथा, अस्वाभाविकत्वासिद्धेस्तत्संबन्धस्य वक्ष्यमाणत्वाचापोहाधिकारे तदसाध्वि-ति / अतः समयादर्शनऽभावादिति यदुक्तम, तदयुक्तम्। कुत इत्याह- तस्य समयस्य, क्षयोपशमव्यजकत्वात् तदावे तुक्षयोपशमभावे तु तदभावेऽपि-समयाभावेऽपि, मावाद्- शब्दविशेषस्मृतेरिति प्रक्रमः / शब्दविशेष-स्मृतिग्रहणं थाऽत्र प्रतिपत्त्युपलक्षण वेदितव्यम् / भावश्च क्वचिद् विशिष्टक्षयोपशमवति प्रमातरि, तथोपलब्धेः समयाभावेऽपि शब्दविशेषस्मृत्युपलब्धेः / इत्थं चैतदङ्गीकर्तव्यमित्याहअन्यथेत्यादि। अन्यथा-क्षयोपशमभावेऽपि, समयापेक्षाभ्युपगमे सदासर्वकालं, तदपेक्षा स्यात्-समयापेक्षा स्यात्, ततश्च सदा संकेताकरणाच्या व्यवहाराभावः / एवं च 'पुरुषेच्छातोऽर्थानां स्वभावाऽपरावृत्तेरित्यादि पूर्ववचनं यावदशब्दसंयोजनमेवार्थं पश्यति दर्शनात्' इत्येतत्, निविषयमद कुत इत्याह-- अत्रेत्यादि / अत्र यस्माद्, अनेकस्वभावतापत्त्या वस्तुनो नैरात्म्यमिति पर दूषणमुक्तम् / एतच दूषणभेकोनेकस्वभावतयाऽस्य वस्तुनस्तत्त्वतोऽदूषणमेव, अन्यथैवमनभ्युपगमे, तदसत्त्वप्रसङ्गाद् वस्तुनोऽसत्त्वप्रसङ्गात. इत्युक्तप्राय प्रायेणोक्तम्, अतो विरोधिशब्दवाच्यत्वेऽपि सति. वस्तुन इति प्रक्रमः, ततत्स्वभावतया कारणेन,तथोपलब्धेः--विरोधिशब्दवाच्यत्वेनोपलब्धः, नित्यानित्यादिशब्दप्रवृत्तितया न कश्चिद् दोष इति प्रस्तुताधिकारनिगमनम्। स्यादेतत्, अनलशब्दो ह्यनले तदभिधानस्वभावतयायमभिधेयपरिणाममाश्रित्य प्रवर्तते, स जले नास्ति, जलानलयो-- रभेदप्रसङ्गात, प्रवर्तते च समयाजलेऽनलशब्दः, तथाप्रतीतेः। इति कथमनयोस्तिवो योगः? इति / उच्यते-शब्दस्यानेकस्वभावत्वात्, न ह्यनलशब्दस्याऽनलगताभिधेयपरिणामापेक्षी तदभिधानस्वभाव एवैकः स्वभावः, अपि तु तथाविलम्बितादित्वेन जलगताभिधेयपरिणामापेक्षी तदभिधानस्वभावोऽपि, तथा तत्प्रतीतेः, तद्वैचित्र्येण दोषाभावात्, क्षयोपशमवैचित्र्यतस्तथाप्रवृत्तेः,अन्यथा अहेतुकत्वेन तदभावप्रसङ्गादिति / एतेन तथानुभवसिद्धेन शब्दार्थक्षयोपशमस्वभाववैचित्र्येण, एतदपि प्रत्युक्तम्, यदुक्तम्- 'शब्देन्द्रियार्थयोर्भेद एव, अव्यापूतेन्द्रियस्याऽन्यवाङ्मात्रेणैवेन्द्रियार्थाविभावनात्, इन्द्रियादेव च शब्दार्थाप्रतीतेः' इत्यादि। नखल्वऽव्यापृतेन्द्रियोऽपि तत्क्षयोपशमयुक्तः अन्यवाङ्मात्रेण न विभावयत्येवेन्द्रियार्थम्, तदर्णमानचिह्नादिनिश्चितेः, तदन्यतुल्यजातीयमध्येऽपि भेदेन प्रवर्त्तनात्, क्वचित्तत्प्राप्तेस्तथा निवेदनात्, तथाऽस्पष्ट तु तत्साक्षात्कारेणाक्षव्यापारवैकल्यात्, न त्वतद्विषयत्वेन / एवमिन्द्रियादपि क्वचित्तथाविधक्षयोपशमभावे, सङ्केतमन्तरेणापि भवति शब्दार्थविभावनम्, तथान्तर्जल्पाकारादिबोधसिद्धेः, लोकानुभवप्रामाण्यादिति। स्यादेतदित्यादि / स्यादेतत्, अनलशब्दो ह्यनलेऽभिधेये तदभिधानस्वभावतया-अनलाभिधानस्वभावतवेन, यमभिधेयपरिणाममाश्रित्य प्रवर्तते, वास्त्वं स जले नास्ति परिणामः / कुत इत्याह-- जलानलयोरभेदप्रसङ्गात् तदेकाभिधेयपरिणामभावेन। यदि नामैवं ततः किम्? इत्याह-प्रवर्तते च समयात्- सङ्केतेन, जले अनलशब्दः। कुर इत्याह-- तथाप्रतीतः समयद्वारेण प्रवृत्ति-प्रतीतेः, इत्येवं कथमनयोः प्रक्रमाद् वस्तुवाचकयोः, वास्तवो योगस्तात्त्विकः सम्बन्धः? इति। एतदाशइक्याह- उच्यते तत्र परिहारः, शब्दस्यानेकस्वभावत्वात् शब्दग्रहण वस्तूपलक्षणम् / उभयोरनेकस्वभावत्वात्, अनयोवस्तिवो योग इतेि। अम्मेवार्थ प्रकटयालाह-नानलेत्यादि। न यस्माद, अनलशदस्याडनलगताभिधेयपरिणामापेक्षी अनलगतमभिधेयपरिणाममपेक्षते तच्छीलश्नइति विग्रहः, तदभिधानस्वभाव एव--अनलाभिधानम्वभाव एव. एक