________________ सामण्णविसेस 661 - अमिधानराजेन्द्रः - भाग 7 सामण्णविसेस णमन्तरेण, अनुपपत्तेः कारणात् / अस्य च स्वसंवेद्यत्वेन हेतुना, प्रतिक्षेपायोगात / किमित्याह- सन्न्यायत एवउक्तनीत्या सिद्ध सविकल्पक प्रत्यक्षमिति। एतेन यत्परेणाभ्यधायि-'इतश्चेतदेवम्, अन्यथा स्वाभिधानविशेषणापेक्षा एवार्था विज्ञानैर्व्यवसीयन्त इति प्राप्तम, अस्त्वेवमपि को दोष इति चेत्, एतदाशङ्कय निवृत्तेदानीमि-- न्द्रियज्ञानवार्ता अभिधानविशेषस्मृतेरयोगात्, इत्यादि। तदपि परिहतमवगन्तव्यम्, अभिधानविशेषयोजनासिद्धेः वाच्यतद्वोधयोरेव तत्स्वभावत्वात् / न हि सर्वत्रैव स्मृत्यपेक्षो वाच्ये वाचकप्रयोगः, तथाऽननुभवात्, अन्तर्जल्पाकारबोधोपलब्धेः, प्रयोगे उच्चार्यमाणस्य शब्दान्तरत्वात्, तस्यापि तद्रलेनैव प्रवृत्तेः, तदसंपृक्तबोधवताऽनुच्चारणात् / प्रष्ट्रा व्यभिचार इति चेत् / न, तस्यापि प्रश्रामिलापसंपृक्तबोधत्त्वात्, अन्यथा प्रश्नाभावात् वस्तुनश्चानेकस्वभावत्वेन तस्याप्यभिधेयत्वात्, सर्ववस्तूनामेव प्रायस्तथा तथा सर्वशब्दवाच्यस्वभावत्वात्, तत्तद्रव्याद्यपेक्षक्षयोपशमभेदतस्ततस्ततस्तत्र तत्राविलम्बितादिप्रतीतिभावात्, अविगानेन तथा व्यवहारसिद्धः, अस्य चान्यथाऽयोगात्, निमित्तानुपपत्तेः। एतेन-अन्न्तरोदितेन न्यायेन, यत्परेण-पूर्वपक्षवादिना, अभ्यधायि-अभिहितं पूर्वपक्षग्रन्थे। यदभ्यधायि तदाह--'इतश्चैतदेवम् अन्यथा स्वाभिधानविशेषणापेक्षा एवार्था विज्ञानैर्व्यवसीयन्त इति प्राप्तम् , अस्त्वेवमपि को दोष इति चेत्, एतदाशक्य निवृत्तेदानीमिन्द्रियज्ञानवार्ता, अभिधानविशेषस्मृतेयोगादित्यादि' व्याख्यातमेवैतदितिन व्याख्यायते / तदपि परिहतमवगन्तव्यम् / कथमित्याह- अभिधानविशेषयोजनाऽसिद्धेः कारणात्। असिद्धिश्च वाच्य तद्बोधयोरेव-अर्थतज्ज्ञानयोरेव, तत्स्वभावत्वात् प्रक्रमात् स्मृत्यनपेक्षाभिधानविशेषप्रवर्तनस्वभावत्वात् / अमुमेवार्थ स्पष्टयन्नाह-नहीत्यादि। न यस्मात्सर्वत्रैव वाच्य इति योगः, स्मृत्यपेक्षो वाचकप्रयोगः / कुतो नेत्याहतथा स्मृत्यरक्षप्रयोगरूपत्वेन, अननुभवात् कारणात् / कथमननुभव इत्याह- अन्तर्जल्पाकारबोधापलब्धेः / इह प्रक्र मे तत्त्वतोऽस्यैव स्मृतित्वादित्यर्थः। तथा चाह- प्रयोगेभाषाविषये, उच्चार्यमाणस्य शब्दस्य, शब्दान्तरत्वात्, अन्तर्जल्पाऽऽकारबोधशब्दमधिकृत्य, तस्याऽपि प्रयोगे उच्चार्यमाणस्य शब्दान्तरस्य, तद्वलेनैवाऽन्तर्जल्पाकारबोधशब्दसामर्थ्यनैव, प्रवृत्तेः / कुत एतदेवमित्याह--तदसंपृक्तबोधवताशब्दासंपृक्तबोधवता; अविकल्पबोधवतेत्यर्थः, भाणकेनेति प्रक्रमः। किमित्याह-अनुच्चारणात् कारणात्, प्रष्ट्रा पुरुषेण व्यभिचारः, स हि तदसपृक्तबोधवान् तत्पृच्छन् समुच्चारयति, अन्यथा प्रश्नायोगस्तदज्ञानादेवेति चेत्। एतदाशड्क्याह-न। तस्यापि प्रष्टु, प्रश्नाभिला- | पसपृक्तबोधवत्त्वात / इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा एव मनभ्युपगमे, अविकल्पबोधवतः प्रश्नाभावात् तस्मात्किञ्चिज्जानन् किञ्चिदजानानस्तत्रैव पृच्छ-तीति भावनीयम् / वस्तुनश्च वाच्यस्य, अनेकस्वभावत्वेन हेतुना, तस्यापि प्रश्नशब्दस्य अभिधेयत्वात् कारणात् / अभिधेयत्वं च सर्ववस्तूनामेव, प्रायो बाहुल्येन अनभिलाप्यधर्मान विहाय, तथा चित्रसमयादियोगेन, सर्वशब्दवाच्यस्वभावत्वात्। एतदव लेशतः प्रकटयतितत्तदित्यादिना। तच्च तत् तद्रव्य च तत्तद्र्ध्यमुदकादि, आदिशब्दात्-क्षेत्रकालादिग्रहः, तत्तद्रव्याद्यपेक्षत इति तत्तद्रव्याद्यपेक्षः तत्तद्रव्याद्यपेक्षश्चासौ क्षयोपशमभेदश्च भेदोविशेष इति विग्रऽहस्तस्मात् / ततस्ततः प्रक्रमाच्छब्दान्नीरोदकादेः, तन्न तत्रोदकादौ वस्तुनि, अविलम्बितादिप्रतातिभावात्, अविलम्बिताअव्यवहिता, यथा नीरशब्दाद्दाक्षिणात्यस्योदकार्थे तत्प्रतीतिः, विलम्बिता तु तस्यैवान्यदेशमागतस्य अन्यथा समयग्रहणे उदकशब्दात् तत्रेति,इयमादिशब्देन गृह्यते / अन्या च चित्रा सत्येतरादिरूपेति प्रतीतिभावश्च, अविगानेन तथाविलम्बितादित्वेन, व्यवहारसिद्धः कारणात्, अस्य च व्यवहारस्य, अन्यथा सर्ववस्तूनामेव प्रायस्तथा सर्वशब्दवाच्यस्वभावतामन्तरेण, अयोगात्। अयोगश्च निमित्तानुपपत्तेः, तथाहि-किमत्रान्यन्निमित्तम्, तत्तत्स्वभावतामन्तरेण? अनिमित्तस्य च सदाभावादिदोष इति भावनीयम् / एवं च सर्वशब्दानामपि प्रायो यथोक्तं सर्ववस्तुवाचकत्वमिति / क्षयोपशमानुरूपा च छद्मस्थानां प्रतीतिः। इति न समं सर्वथा वा तदवसायः / न ह्यनेक प्रदीपावभासितेऽपीन्द्रनीलादौ मन्दलोचनादीनां सर्वाकारं समो वा तद्बोधः, तथाऽननुभवात्, निमित्तभेदात्।नचासौ न तन्निमित्तः, तद्भावे भावात, तदभावे चाभावादिति। दीपमण्डलादिदर्शनाद् व्यभिचार इति चेत्। न। तस्य तन्निमित्तत्वेऽपि भ्रान्तत्वात, आन्तरदोषवैगुण्येनोत्पत्तेः, तद्विकलेनादर्शनात्; इन्द्रनीलादिधर्माणां तु तदन्यवेदिनाऽपि वेदनात्, सूक्ष्मधर्मद्रष्ट्राऽपि स्थूराणां ग्रहणात्, तथाप्रतीतेः। न चैवं दीपदिद्रष्ट्रा तद् गृह्यते, इति दोषविजृम्भितमेतत् / एवं च सर्वशब्दानामपि नीरोदकादीनां,यथोक्तम्-प्रायस्तथा सर्ववस्तुवाचकस्वभावत्वेन, इह प्रायोग्रहणाद् मृषाभाषावर्गणोत्थवन्ध्यशब्दव्यवच्छेदः, एवं यथोक्तम्, सर्ववस्तुवाचकत्वं सर्वशब्दानामपि / क्षयोपशमानुरूपा च छद्मस्थानां विशेषणान्यथानुपपत्त्या प्रमातॄणां, प्रतीतिरिति कृत्वा, न सम-न युगपत्, सर्वथा वा सर्वैर्वा प्रकारैरविलम्बितादिभिः, तदवसायःप्रक्रमाद्वाच्यवस्तुस्वभावावसायः। अमुवेवार्थ दृष्टान्तद्वारेणोपदर्शयन्नाह न हीत्यादिना / न यस्मादनेकप्रदीपावभासितेऽपीन्द्रनीलादौ रत्नविशेषे, मन्दलोचनादीनां प्रमातृणाम, आदिशब्दाद्-अमन्दलोचनादिग्रहः / सर्वाकारं तत्प्रदीपावभासापेक्षया, समा वा तुल्यो वा, तद्बोधः-इन्द्रनीलादिबोधः / कुतो नेत्याह