________________ सामण्णविसेस 660 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस अवगृहीते सामान्ये, ईहा प्रवर्तते। तामाह-विषयार्थकत्यादि। विषयः. स्पादिः, स एवाऽर्थ(य)माणत्वादों विषयार्थः, तस्यैकदेशः सामान्यमनिर्देश्यादिरूपम्, तस्माद् विषयार्थकदेशात् परिच्छिन्नादनन्तरं स्पर्शमात्रग्रहे तस्य सर्पमृणालस्पर्शसाधाच्छेषानुगमनेन सद्भूता-सद्भूतोष्णत्वादिविशेषत्यागोपादानाभिमुख्यरूपेण न संशय इव सर्वात्मपरिकुण्ठचित्तभावतोऽननुगमनेन। किमित्याह-निश्चयविशेषजिज्ञासाचेष्टति / निश्चीयतेऽसाविति निश्चयः मृणालस्पर्शादिः, स एव विशेष्यतेऽन्यस्मादिति विशेषः तस्य ज्ञातुमिच्छा जिज्ञासा तया चेष्टाबोधः स्वतत्त्वात्मव्यापाररूपा, ईहोच्यते / एवमीहामभिधायाऽवायमभिधातुमाह-अवगृहीत इत्यादि। अनेनापि क्रममाचष्टे / अवगृहीते विषये स्पर्शसामान्यादौ,ततः सम्यगसम्यगिति, मृणालस्पर्श इत्येवमादानाभिमुख्यं सम्यक् तत्र तद्भावानुगुण्यात; न अहिस्पर्श इत्येवं परित्यागाभिमुख्यम-सम्यक्, तत्र तद्भाववैगुण्यात् / इति एवमीहाया प्रवृत्ताया सत्याम, ततः किमित्याह-गुणदोषविचारणाव्यवसायापनोदः-अवाय इति / इह मृणाले, साधारणो धर्मो गुणः, तत्रासंभवी तु दोषः, तयोर्विचारणामार्गणा तया व्यवसायो-विमलतरबोधः स एवापनोदः- मृणालस्पर्श एवेति निश्चयादपनुदति तत्रेहामिति कृत्वाऽवाय इत्ययमेवंविधोऽपनोदोऽवाय इति, अवैतीत्यवायः-निश्चयेन परिच्छिनत्तीत्यर्थः / एवमयायमभिधायाधुना धारणामभिधित्सयाऽऽह-धारणेत्यादि / धारणेति लक्ष्य, प्रतिपत्तिरुपयोगाप्रच्युतिः / यथा--स्वमिति / यथाविषयं यो यः स्पर्शादिविषयः मृणालस्पर्शानुभवस्याऽनाश इत्यर्थः, तथा मत्यवस्थानमित्युपयोगान्तरेऽपि शक्तिरूपाया मतेः कृचिदवस्थानम्, तथाऽवधारण चेति कालान्तरानुभूतविषयगोचरं स्मृतिज्ञानमिति भावः / एवमेतेनाविच्युलिवासनास्मरणरूपा त्रिविधा धारणेत्युक्तं भवति / न चेत्यादि। न चैकत्वादवबोधस्याऽवबोधसामान्यापेक्षया, इह मतिज्ञाने इन्द्रियप्रत्यक्षे, चातुर्विध्याभावोऽवग्रहादिभेदेन / कुत इत्याह- सर्वथैकतवासिद्धेः अवबोधस्य। असिद्धिश्च क्रमेण भावादवग्रहादीनाम्, तथा संपूर्णभवनेऽवग्रहादारभ्य धारणान्तभवने अनियमात् कारणात्। अधिकृतोपदर्शनायाह- दृश्यत इत्यादि / दृश्यत एव लोके, ईहाद्यभावेऽपि, आदिशब्दादवायादिग्रहः क्वचिद्देवदत्तादौ, अवग्रहमात्रम् तथा निरवायेहा दृश्यते क्वचित्,निर्धारण श्वावायो दृश्यते क्वचित, तथा तदनुभवसिद्धेः केवलत्वेनाऽवग्रहादीनामनुभवसिद्धे कारणात, न चातुर्विध्याभावः / अत एव तथा तदनुभवसिद्धरेव, एकत्वमप्यवग्रहादीनाम् / युक्तिमाह- कथंचिदेकाधिकरणत्वात्। तत्तद्धर्मग्रहणेन। अत एव आह-तत्रैव प्रवृत्तेः अवग्रहादिगृहीत एवेहादिप्रवृत्तेः, कथञ्चिदिति वर्तत / एतत्रपष्टनायैवाह-तद्वद्यधर्माणाम्--अवग्रहादिवेद्यस्वभावानाम्, इतरेतरानुवेधात्-अन्योन्यानुवेधात् / एतदेव भावयति- तथाचेत्यादिना / तथाच वदिद सदा-तस्मिन् काले दृष्टमपि सदिति, अनेनावग्रहव्यापारमाह। नोपलक्षितं न सामीप्येन तदितरधर्मालोचनया लक्षितम् | अनेनेहाव्यापारनिषेधमाह / तथेषल्लक्षितमपीहया, न सम्यगज्ञातमवायरूपेण, तदिदानीं यद् न सम्यग् ज्ञातं तत्सांप्रतम्, अवधारितं सम्यग्विज्ञाय चेतसि स्थापितम्, इत्यस्ति व्यवहारस्तद्वेद्य-धर्माणामितरेतरानुवेधव्यवस्थापकः / न चाय व्यवहारो भान्तः / कुत इत्याह अविगानेन प्रवृत्तेः कारणात् / प्रकृतयोजनया निगमनमाह- अत इत्यादिना। अतोऽस्मात्कारणात्, इद मतिज्ञानसंज्ञितमिन्द्रियज्ञानम्, एकानेकमवग्रहादिसमुदायात्मकत्वेन, अन्वयव्यतिरेकवदनुवृत्तिव्यावृत्तिस्वभावं दीर्घमप्यवग्रहादिक्रमभावित्वेन, कालसौम्याद्धेतोः तथावभासते प्रक्रमाद् युगपदिवावभासते, नतुयुगपदेवेत्यर्थः। आह-एवमपि तत्तद्धर्मावग्रहणादेः सर्वेषामवग्रहादित्वप्रसङ्गः। न, स्थूरेतरधर्मालम्बनावरणभेदतः क्रमभवनेन तथाप्ररूपणात्, तत्त्वतस्त्वयमदोष एव / एवं चावग्रहादिभावे तत्तद्धर्मबोधात् केषाञ्चित् तथास्वभावत्वेनाक्षरानुगतबोधबोध्यत्वात्, तेष्वन्यथा नीलादाविव पीतादित्वेन बोधाप्रवृत्तेः क्षयोपशमसामर्थ्यतोऽक्षरप्रायोग्यद्रव्यग्रहणाविरोधात्, तथा-विधानुभवस्यान्यथानुपपत्तेः, स्वसंवेद्यत्वेन प्रतिक्षेपायोगात् सन्न्यायत एव सिद्धं सविकल्पकं प्रत्यक्षमिति। आह-एवमप्यवग्रहादिभावे, तत्तद्धर्मावग्रहणादेः, आदिशब्दाततत्तद्धर्मासमर्थपर्यालोचनादिग्रहः, सर्वेषामधग्रहादीनां मतिभेदानाम्, अवग्रहादित्वप्रसङ्गोऽन्वर्थयोगेन, आदिशब्दादीहादिग्रहः। एतदाशङ्कयाह नेत्यादि / न-नैतदेवम्।कुत इत्याह-स्थूरेतरधर्मालम्बनावरणभेदतः कारणात्, स्थूरेतराश्च ते धर्माश्च स्थूरेतरधर्माः, इतरेसूक्ष्माः , ते एवालम्बनम्, एतबावरण चेति विग्रहः, तयोर्भदस्तस्मात्, क्रमभवनेन तथाप्ररूपणादवग्रहादित्वेन प्ररूपणात; तथाहि- स्थूरधर्मालम्बनोऽवग्रहः, सूक्ष्मधर्मालम्बना ईहादयः, एवमन्यदवग्रहावरणम्, अन्यचेहादेः, इह चावरणग्रहणं क्षयोपशमोपलक्षणमवसेयम् / इत्थमुपन्यासस्तु भिन्नमेव तद् बोधावारकमिति निदर्शनार्थम्, क्रमभवनं तु प्रसाधितमेव, इत्यतस्तथाप्ररूपणं न्याय्यमेवेति भावनीयम्। तत्त्वतस्त्वयं सर्वेषामव-ग्रहादित्वप्रसङ्गः, अदोष एवान्वर्थयोगतस्तथाघटनादिति। एवं चोक्तनीत्या, अवग्रहादिभावे सन्न्यायत एव सिद्धं सविकल्पक प्रत्यक्षमिति योगः / कुत इत्याह-तत्तद्धर्मबोधात्-वस्तुसदादिधर्मबोधात् / तथा, केषांचिद्धर्माणां तथास्वभावत्वेन हेतुना, अक्षरानुगतबोधबोध्यत्वादीहादिगोचराणा,विशिष्टमनोऽनुगतत्वोपलक्षणमेतत्। यदि नामैवं ततः किमित्याह-तेषु अक्षरानुगतबोधबोध्येषु धर्मेषु अन्यथा नीलाऽऽदाविव वस्तुनि पीतादित्वेन रूपेण, बोधाऽप्रव्रत्तेः कारणात्। कुतस्तत्राक्षरप्रायोग्यद्रव्यग्रहणमित्याशड्कानिरासायाहक्षयोपशमेत्यादि। क्षयोपशमसामर्थ्यतः कारणात्, अक्षरप्रायोग्यद्रव्यग्रहणाविरोधात्; स हि क्षयापशम एव तादृशो यो भाषाद्रव्याणि ग्राहयतीत्यर्थः / इत्थं चैतदङ्गीकर्तव्यनित्याहतथा-विधानुभवस्य अक्षरानुगतबोधरूपस्य, अन्यथाक्षरप्रायोग्यद्रव्यग्रह--