________________ सामण्णविसेस 656 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस विशेषदर्शनात्, तस्याहेतुकत्वेऽप्ययोगात, सदाभावादिप्रसङ्गात्, बोधमात्रस्याहेतुत्वात्, भेदकाभावे विशिष्टत्वाभावात्, न्यायतोऽतिप्रसङ्गात् / तद्भावे च तस्यैवावरणात्वात्; इति | तथाविधनयनपटलादिकल्पं तज्ज्ञानविशेषकारि विरुद्धचेष्टादि-निमित्तं ततोऽन्यत्तदिति तत्त्ववादक्षयोपशमभावश्चास्य कालपरिणत्या विशिष्टानुष्ठानतश्च तत्तत्स्वभावतया नयनपटलादिहासरूपः प्रतिप्राण्येव यथोचितं तथाविधचित्रावबोधलिगावसे यः। तस्मि श्च सति तत्सामर्थ्यत एव विषयस्स तज्ज्ञेयत्वपरिणतिभावात, विषयिणोऽपि तज्ज्ञातृत्वपरिणत्युपपत्तेः,उभयोस्तथास्वभावत्वात्, अन्यथा तदनुपपत्तेः, अतिप्रसङ्गात्, नयनपटलादिह्रास इव स्थूरावबोधादि, तदानुरूप्यत आविद्वदङ्गनासिद्ध तथाविध-वस्तुग्राह्येवाऽवग्रहेहावायधारणारूपं मतिज्ञानसंज्ञितमिन्द्रियज्ञानमुपजायते, "तदिन्द्रियानिन्द्रियनिमित्तम्" इति वचनात्। इह चेत्यादि। इह चानेकधर्मके वस्तुनि, जगति वा। कि, मित्याहज्ञानावरणाद्याच्छादितः तत्पुद्गलप्रतिबद्धसामर्थ्यः, छद्मस्थः प्रमाता प्राणी। कुत एतदेवमित्याह-बोधविशेषदर्शनात्-बोधभेदोपलब्धेः, इह वस्तुनि तस्य बोधविशेषस्य, अहेतुकत्वे सति, अयोगात्, अयोगश्च सदाभावादिप्रसङ्गात् / आदिशब्दाद्- अभाव--ग्रहः / बोधमात्रस्याऽहेतुत्वाद् बोधविशेष प्रति, भेदकाभावे-तदन्यवस्त्वभावे, विशिष्टत्वा- | भावाद्बोधमात्रस्य, न्यायतोऽतिप्रङ्गात् सर्वबोधविशिष्टत्वापत्त्या। तद्भावे च भेदकभावे च तस्यैव भेदकरय, आवरणत्वात् इत्येवं, तथाविधनयनपटलाऽऽदिकल्पं तथाविधं स्वच्छं नैकान्ततो बोधविघातकारि, नयनपटलं प्रतीतम्, आदिशब्दात्-श्रोत्रादिमलग्रहः, एतत्कल्पम्एतत्तुल्यं,तज्ज्ञानविशेषकारितस्य छद्मस्थप्रमातु बर्बोधविशेषकरणशीलं | क्षयोपशमतो भावाभावाभ्याम्, इति ज्ञानावरणव्यापार उक्तो वेदितव्यः / विरुद्धचेष्टादिनिमित्तमित्यनेनतु आदिशब्दात्-क्षिप्तचारिखमोहनीयादिव्यापार इति, ततश्छद्म-स्थप्रमातुः, तबोधादेर्वा, अन्यदर्थान्तरभूतं, तत् ज्ञानावरणादिकर्म, इति तत्त्ववादः / क्षयोपशमभावश्चास्य कर्मणः, कालपरिणत्या मन्दानुभावस्य, विशिष्टानुष्ठानतश्च तीव्रविपाकस्य / अथवा-कालपरिणत्या विशिष्टानुष्ठानतश्चेति समुच्चयपक्षः / तत्स्वभावतया तस्य कर्मणः, तत्स्वभावतयाकालपरिणत्यादिक्षयोप- / शमस्वभावतयेत्यर्थः, नयनपटलाटिहासरूपः क्षयोपशमभावः, तदेकान्तानिवृत्तेः, इत्थं निदर्शनमिति भावनीयम, प्रतिप्राण्येव प्राणिन प्राणिनं प्रति प्रतिप्राण्येव, यथोचितमिति क्रियाविशेषणम्, यस्य य उचितस्तथाविधचित्रावबोधलिङ्गावसेयः, तथाविध उच्चावचादिभेदेन चित्रावबोधस्तत्तद्विषयभेदत एतल्लिङ्गावसेयः क्षयोपशमभावः / तस्मिश्च सति क्षयोपशमभावे, तत्सामर्थ्यत एव-क्षयोपशमभावसामर्थ्यत एव, अवग्रहादिरूपमिन्द्रियज्ञानमुपजायत इतियोगः। कथमित्याह-विषयस्य घटरूपादेः, तज्ज्ञेयत्वपरिणतिभावाद्- विवक्षितेन्द्रियज्ञानज्ञेयत्वपरिणतिभावात, विषयिणोऽप्यधिकृतेन्द्रियज्ञानस्य, तज्ज्ञातृत्वपरिणत्युपपत्तेः-प्रस्तुतविषयज्ञातृत्वपरिणत्युपपत्तेः। उपपत्तिश्व उभयोर्विषयज्ञानयोः, तथास्वभावत्वात्तज्ज्ञेयत्वतज्ज्ञातृत्वभवनस्वभावत्वात्, अन्यथा तत्तत्स्वभावत्वमन्तरेण, तदनु-पपत्तेः-विषयविषयिणोस्तज्ज्ञेयत्वतज्ज्ञातृत्वपरिणत्यनुपपत्तेः 1 अनुपपत्तिश्चातिप्रसङ्गात् तत्तत्स्वभावतामन्तरेण तज्ज्ञ-यत्वतज्ज्ञातृत्वभावे तद्गत्तदन्तरापत्याऽतिप्रसङ्ग इति भावनीयम्। नयनपटलादिहास इवेति निदर्शनम्। स्थूरावबोधादि, आदिशब्दात् तथाविधचेष्टाग्रहः / तदानुरूप्यतः-प्रक्रमात् क्षयोपशमभावानुरूप्येण, आविद्वदङ्गनादिसिद्धमविप्रतिपत्त्या, तथाविधवस्तुग्राह्यवतज्ज्ञेयत्वपरिणतवरतुग्राह्येव, न त्वविषयं सदाभावादिप्रसङ्गेन, अवग्रहेहावायधारणारूप परिस्थूरजातिभेदेन, मतिज्ञानसंज्ञितं स्वतन्त्रे, इन्द्रियज्ञानमुपजायते, सविकल्पमेव इन्द्रियज्ञानता चाऽस्य ''तदिन्द्रियानिन्द्रियानिमित्तम्' इति वचनात् / तन्मतिज्ञानम्, इन्द्रियानिन्द्रिय-निमित्तम् / अनिन्द्रियं मनः / एतन्निमित्तम् / इति सविकल्पकमेतत्। अवग्रहस्वरूपाभिधित्सयाऽऽहतत्राव्यक्तं यथास्वमिन्द्रियर्दिषयाणामालोचनावधारणमवग्रहः / अवगृहीते विषयार्थकदेशात् शेषानुगमनेन निश्चयविशेषजिज्ञासाचेष्टा ईहा। अवगृहीते विषये सम्यगसम्यगिति गुणदोषविचारणाव्यवसायापनोदोऽवायः / धारणाप्रतिपत्तिः, यथास्वं मत्यवस्थानम्, अवधारणं च न चैकत्वाद् बोधस्येह चातुर्विध्याभावः, सर्वथैकत्वासिद्धेः क्रमेण भावात्, संपूर्णभवनेऽनियमात् दृश्यत एवेहाद्यभावेऽपि क्वचिदवग्रहमात्रम्, तथा निरवायेहा, अनिर्धारणश्चावायः, तथा तदनुभवसिद्धेः / अत एवैकत्वमपि कथशिदेकाधिकरणत्वात् तत्रैव प्रवृत्तेः तवेद्यधर्माणामितरेतरानुवेधात् तथा च यदिदं तदा दृष्टमपि नोपलक्षितम्, ईषल्लक्षितमपि न सम्यग्ज्ञातम् तदि-दानीमवधारितम्, इइत्यस्ति व्यवहारः / न चायं भ्रान्तः, अविगानेन प्रवृत्तेः / अत इदमेकाऽनेकमन्वयव्यतिरेकवद् दीर्घमपि कालसौक्ष्म्यात् तथावभासत इति। तत्राव्यक्तमित्यादि तत्रेति पूर्ववत्, अव्यक्तमस्फुटम्, आलोचनावधारणमितियोगः। तदेव विशिष्यतेयथा-स्वमिति यथात्मीयम इन्द्रियैः स्पर्शनादिभिः विषयाणांस्पर्शादीनां यथात्मीयं यो यस्य विषय इत्यर्थः, आलोचनावधारणमिति आइमर्यादायां, लोचनंदर्शनम्। एतदुक्तं भवतिमर्यादया सामान्यस्यानिर्देश्यस्य स्वरूपनामादिकल्पनारहितस्य, दर्शनम-आलोचनं तदेवा-वधारणमालोचनावधारणम्, एतदवग्रहोऽभिधीयते, अवग्रहणमवग्रह इत्यन्वर्थयोगादिति / एवमवग्रहं कथयित्वा ईहास्वरूपंकथयन्नाह-अवगृहीत इत्यादि।अवगृहीत इत्यनेनक्रमं दर्शयति।