________________ सामण्णविसेस 658 - अमिधानराजेन्द्रः - भाग 7 सामण्णविसेस शकटादीनां भावानां तद्भावापत्तेः- पटभावापत्तेः आपत्तिश्व तथास्वभावात् पटान्यत्यैकस्वभावादधिकृतवस्तुनः अन्यस्वभावत्वात् कटादीनां पटभावापत्तिः, पटकटादिसमुदायान्यत्वैकत्वभावं कथं पटान्यत्वकस्वभावमुच्यत इत्युच्यते-- अचित्रस्यानेकान्यत्वैक-- त्वायोगात्। तथा चाह-अचित्रस्वेत्यादि। अचित्रस्य विवक्षितवस्तुनः, एकस्वभावस्य अनेकान्यत्वैकत्वायोगे, अनेकेभ्यः पटादिन्यः अन्यत्वमनेकान्यत्वंतस्यैकत्वमनेकान्यत्वैकत्वम, तस्यायोगे, उक्तवत्तदेकत्वप्रसङ्गेन तस्मिन् सति तचित्रतया विवक्षितवस्त्वेकस्वभावस्य चित्रतया। किमित्याह-एकान्तैकत्वाभावात्। विवक्षितवस्तुनः, एकस्वभावस्येति प्रक्रमः। हेत्वन्तरमाह-पारम्पर्येणानेकजन्यजनकत्वाच्च अनेकधर्मकत्वं वस्तुन इति। पारम्पर्येणैकादिव्यवधानापेक्षया, जन्यश्च जनकश्च जन्यजनकः अनेकेषां जन्यजनकः, अनेकजन्यजनकस्तद्भावस्तस्मात्। इत्थं चैतदगीकर्तव्यमित्याह-अन्यथा एवमनभ्युपगमे, तद्भावासिटेरधिकृतवस्तुभावासिद्धेः / असिद्धिश्च परम्पराहेतुतोऽपि सकाशात्, भावादधिकृतवस्तुनः, न हि पितामहाद्यभावेऽपि पौत्रादिभाव इति भावनीयम् / इहैव युक्तिमाह- लथाविधतद्भावभावित्वापत्तेः / तथाविधर्मकादिव्यवधानवच्च तत् तद्भावभावित्वं च परम्पराकारणभावभाधित्वं चैतदेवोपपत्तिस्ततः। एलदप्यङ्गीकर्तव्यमित्याह-पुष्कलस्य च तद्भावभावितस्य, अनन्तरेणापि कारणेन, सहायोगात् / अयोगश्च तदा कारणादिकाले, तद्भावाभावात्-कार्यादिभावाभावात् अन्यथा जन्यजनकत्वाभावः सव्येतरगाविषाणवदिति। अनन्तरजन्यत्वमेव कार्यस्य परम्पराजन्यत्वमिति चेत्। एतदाशङ्ख्याह-न परम्पराजनकाना हेतूनाम्, अनन्तरजनकत्वायोगात् / अयोगश्च स्वभावादिभेदात्, स्वभावभेदः प्रतीतः, आदिशब्दात्- कालभेदपरिग्रहः / तद्भेदेन च-स्वभावादिभेदेन च, तत्तजनकत्वे तेषामनन्तरपरम्पराहेतूना, तज्जनकत्वेप्रक्रमाद् विवक्षितकार्यजनकत्ये। किमित्याह-न तदेव तत् नानन्तरजन्यत्वमेव परम्पराजन्यत्वमिति निगमनम्। एवं जनकत्वेऽपि योजनीयमिति तच्चित्रस्वभावता, सुखदुः खादिहेतुत्वाच्च, स्वभावभेदेन सुखादिजनकत्वात्, तेषां चाहादादिरूपत्वेन ज्ञानादन्यत्वात्, तत्स्वरूपेण बाह्यावेदनात्, ज्ञानभावेऽपि क्वचित्तदभावात्, तथानुभवसिद्धत्वात्। अज्ञानत्वे कथममीषामनुभवः? इति चेत् / सत्त्वादिवत्कथञ्चिज्झानाभेदाद, तदुदग्रत्वेन तथा तज्ज्ञानरञ्जनात्, उभयोस्तत्स्वभावत्वात, युगपत्प्रवृत्त्यवि,रोधात, सुखादिज्ञाने तथानुभवसिद्धत्वात्, तत्तद्वचनसिद्धेश्च 'आविर्भावतिरोभावधर्मकं वस्तु न कृतार्थे प्रकृतिप्रवृत्तिः, तद्विरागात् तवृत्तिसंक्षयाच' इति वचनप्रामाण्यात् / तथा 'अनित्यता सर्वसंस्कृताना, दुःखता सर्वसाश्रवाणां, शून्यानात्मकते सर्वधर्माणाम्, अविकारिणी तथावा' इति वचनप्रमाण्याच्चेत्यनेकधर्मकं वस्तु / एवमित्यादि / एवम्-उक्तनीत्या, जनकत्वेऽपि योजनीयम् / पारम्पर्येणानेकजनकत्वादधिकृतवस्तुनः, अन्यथा तद्भावासिद्धेःततोऽनकभावासिद्धेः परम्पराहेतुतोऽपि भावादनेकेष ग। एव शषमपि स्वधिया योजनीयम् / इत्येवं,तचित्रस्वभावतातस्थ वस्तुनश्चित्रस्वभावता / अनेकधर्मकत्वमित्यर्थः / हेत्वन्तरमाह-सुखदुः खादिहेतुत्वाच अनेकधर्मकं वस्तु / कथमेतदेवमित्याह.. स्वभावभेदन सुखादिजनकत्वाद्वस्तुनः / आदिशब्दाद्-दुःख-महज्ञानादिग्रहः / ने ते तत्कृतज्ञानतोऽन्य, इत्याशङ्कापोहायाह- तेषां च सुखादीनामह्लादादिरूपत्वेन हेतुना, आहादरूपं सुखम्, परितापरूपं दुःखम्, असंवित्स्वभावो मोह इति कृत्या। किमित्याह-ज्ञानादन्यत्वात् / इत्थं चैतदङ्गीकर्तव्यमित्याह- तत्स्वरूपेण आह्लादादिलक्षणेन ज्ञानेनव, बाह्यावेदनात / इतश्चैतदेवम्- ज्ञानभावेऽपि क्वचिद्विरक्ताऽऽदौ, तदभावादाबादाद्यभावात: अभावश्च तथाऽनुभवसिद्धत्वात: आह्वादाधभावेनापि भाववेदनादित्यर्थः / अज्ञानत्वे सति, कथममीषा सुखादीनाम्, अनुभव इति चेत् / एतदाशङ्कयाह- सत्त्वादिवत् / इति निदर्शनम् / आदिशब्दाद्-ज्ञेयत्वादिग्रहः कथञ्चित् ज्ञानाभेदात्; तथाहि-नसत्त्वमेव ज्ञानम्, सत्त्वमात्रत्वे ज्ञानस्य सर्वत्र ज्ञानप्रसङ्गः / अथ च ज्ञाने न तदात्मीयमनुभूयत इति / युक्त्यन्तरमाह- तदुग्रत्वेन सुखघुदग्रत्वेन, तथे कलोलीभावेन, तज्ज्ञानरञ्जनात्- सुखादिज्ञानरञ्जनात् / एतच्चैवमित्थमित्याह.- उभयोः सुखादिज्ञानयोः, तत्स्वभावत्वात् रज्यरञ्जकस्वभावत्वात्। अत एव युगपत्प्रवृत्त्यविरोधात, सुखादीनां ज्ञानस्य चेति प्रक्रमः / अविरोधश्च सुखादिज्ञाने, तथा कथचिदिन्नसुखादिवेदकत्वेन, अनुभवसिद्धत्वात् कारणात् अमीषामनुभव इति योगः। हेत्वन्तरमाह-तत्तद्वचनसिद्धेश्च हेतोः / अनेकधर्मक वस्तु / तस्मिस्तस्मिन् सांख्यादिवचने यथासिद्धं तत् तथाभिधातुमाहआविवित्यादि / आविर्भावः-प्रकटभावः, तिरोभावस्त्वप्रकटभावः, एतद्धर्मकं वस्तु प्रधानाख्यम्, इत्यनेकधर्मकता / तथा न कृतार्थे पुसि प्रकृतिप्रवृत्तिमहदादिभावेन,तद्विरागात्- पुरुषविरागात्, तवृत्तिसंक्षयाचप्रकृतिवृत्तिसंक्षयाच ततश्चाविरक्ते प्रवृत्तिः, विरक्ते वृत्तिसंक्षयश्च, पुरुषोऽपि विरक्तश्चाविरक्तश्चेत्यनेकधर्मकता, इति वचनप्रामाण्यात् / तथा, अनित्यता नश्वरता,सर्वसंस्कृतानां सर्वकृतकानां, दुःखता बाधायुक्तता, दुःख-परिणाम-दुःखसंस्कार-दुःखापेक्षया यथासंभवं सर्वसाश्रवाणां सर्वरागादिक्लेशवताम, शून्यानात्मकते तत्त्वतस्तुच्छरूपे,सर्वधर्माणां व्यावृत्तिद्वारपरिकल्पितानामनित्यदुःखादिधर्मतोऽनेकधर्मकता, तथा, अविकारिणी उपादाननिमित्तकृतविकारशून्या, तथाताबुद्धता तथाभावरूपा प्राग्विकारभावेनानेकधर्मता, इति वचनप्रामाण्याच इत्येवम्, अनेकधर्मकं वस्तु / एते च सर्व एव वस्तुनोऽनेकविज्ञानाद्युपाधिभेदभिन्नाः स्वभावहेतुभेदा इति गमकाः, तथाहि-अनेकविज्ञानजनकत्वंतत्स्वभावः, सच कथञ्चित् तद्भिन्नयाइनेकधर्मकतया व्याप्तः, अन्यथा ततस्ततोऽन्यत्वाद्यभावः / एवं षेष्वपि हेतुषु भावनीयमिति। इह च ज्ञानावरणाद्याच्छादितश्छद्मस्थः प्रमाता, बोध