________________ सामण्णविसेस 657 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस अनुभवस्याधिकृतस्य / कुत इत्याह- तन्मात्रग्रहणत्वाद् वस्तुमाग्रहणस्वरूपत्वात्, अनुभवस्य, तदतिरिक्तरूपान्तराभावात् तन्मात्रग्रहणतत्त्वातिरिक्तरूपान्तराभावात् / अभावश्चान्येन वस्तुव्यतिरिवतेनापकाराद्ययोगात् ततश्च वस्तुग्रहणभेदकृतमेवापटीयस्त्वाद्यस्येति सांशाने क स्वभावमेतदिति स्थितम् / एवमभ्यासवासनोपगमात् कारणात् / कि मित्याह- नात्यन्तासत एवोत्पादः / कुत इत्याहसत्यस्मिन् अत्यन्तासत उत्पादे, तयोरभ्यासवासनयोः, वाड्मात्रत्वात्। वाड्मात्रत्वमेवाह- तदात्वातिरेकेण तदाभावातिरेकेण, आकाल - यावदपिकालस्तावदपि, तदभावादत्यन्तासत उत्पद्यमानस्याभावात, अभावश्च पूर्वमादत्यन्तभिन्नत्वात् अत्यन्तासत उत्पद्यमानस्य, तथाप्येवमपि, तदभ्यासादौ तस्यानुभवस्याभ्यासवासनाभावे; अतिप्रसङ्गादनुभवान्तरस्याप्यभ्यासादिशून्यस्य तद्भावप्रसङ्गात्। इतीन्द्रियजमेवैतद् विज्ञानमाविष्टाभिलापम् 'अहिरहिः' इत्येवमादीत्यधिकारोपसंहारः एतच्चानेकधर्मके वस्तुनि ज्ञानावरणाच्छादितस्य प्रमातुस्तथाविधक्षयोपशमभावत उभयोस्तथास्वभावत्वेनावग्र हेहावायधारणरूपं प्रवर्तत इति। अनेकधर्मकत्वं च वस्तुनोऽनेकविज्ञानजनकत्वात्, योग्ययोगिभिर्भेदेनोपलब्धेः, अन्यथा तदभेदप्रसङ्गात्, द्वयोरपि तत्तन्निमित्तत्वात, तद्भावभावित्वानुविधानात् / मरावल्पभावे महद्दर्शनमनिमित्तमिति चेत् / न / अल्पस्यैव तन्निमित्तत्वात्, तदभावेऽभावात्, विप्रकर्षाद्युपप्लवात् , तत्तत्स्वभावत्वात्, अन्यथा तदनुपपत्तेः, ततस्ततोऽन्यत्वाच, स्वभावभेदेन व्यावृत्तेः, अन्यथा तदेकत्वप्रसङ्गात्, तदन्यत्वहेतुत्वेनाविशेषात्, अन्यत्वस्य चाकल्पितत्वात्, कल्पितत्वे तत्वतस्तदभावापत्तेः। एतचेत्यादि। एतच्चाधिकृतज्ञानम्, अनेकधर्मके वस्तुनि घटरूपादौ, ज्ञानावरणाच्छादितस्य प्रमातुर्जीवस्य, तथाविधक्षयोपशमभावतो द्रव्यादिनिमित्तचित्रक्षयोपशमभावात्, उभयोः प्रमातृविषययोः, तथास्वभावत्वेन चित्रग्राह्याग्राहकस्वभावत्वेन हेतुना, अवग्रहेहावायधारणारूपं प्रवर्तत इति ग्रहणकवाक्यसमुदायार्थः। अवयवार्थ तु स्वयमेवाह-ग्रन्थकार:-अनेकधर्मकत्वं च वस्तुन इत्यादिनाग्रन्थेन। अनेकधर्मकत्वं च वस्तुनो घटरूपादेः / कुत इत्याह-अनेकविज्ञानजनकत्वात्-अनेकेषां विज्ञानजनकमनेकविज्ञानजनक तद्भावस्त- | स्मात् / एकेनैव स्वभावेनैवं भविष्यतीत्याह-योग्ययोगिभिः प्रमातृभिः, भेदेनोपलब्धेः संपूर्णाऽसंपूर्णधर्म साक्षात्करणेन दर्शनादित्यर्थः / / अन्यथैवमनभ्युपगमे, तदभेदप्रसङ्गाद्- योग्ययोगिनोरभेदप्रसङ्गात्।। प्रसङ्गश्व द्वयोरपि योग्ययोगिनोः, तत्तन्निमित्तत्वात्-तस्या उपलब्धेस्तनिमित्तत्वात अधिकृतवस्तुनिमित्तत्वात्। तन्निमित्तत्वं च तद्भावभावि- | त्वानुविधानात- अधिकृतवस्तुभावभावित्वानुकरणात् / अतन्त्रमेत- | दर्वागदशामिन्येतदेवाह-मरावित्यादिना। मरौ विषये, अल्पभावेऽल्पस्य छगणादेः सत्तायां, महद्दर्शनं महतो वत्सादेरिव दर्शनम्, अनिमित्तम्, अल्पस्याप्रतिभासनेन निमित्तत्वायोगादिति चेत्। एत-दाशङ्कयाह-न, अल्पस्यैव छगणादेः, तन्निमित्तत्वामहद्दर्शननिमित्तत्वात्। तन्निमित्तत्वं च तदभावेऽभावात्, अल्पाऽभावेऽभावाद्, महद्दर्शनस्य / कथमिदमतत्प्रतिभासीत्याह- विप्रकर्षाद्युपप्लवात् विप्रकर्षादेशविप्रकर्षः, आदिशब्दात्-तथाविधज्ञानावरणक्ष-योपशमपरिग्रहः, ताभ्यामुपप्लवाद् भ्रान्तेः / उपप्लवश्व तत्तत्स्व-भावत्वात् तस्य विप्रकर्षादः तत्स्वभावत्वादुपप्लवजननस्वभावत्वात्। इत्थं चैतदङ्गीकर्तव्यमित्याहअन्यथा तदनुपपत्तेः, अन्यथैवमनभ्युपगमे, तदनुपपत्तेरुपप्लवानुपपत्तेः, न ह्यसावन्यनिमित्तोऽऽनिमित्तो येति भावनीयम् / मूलसाध्य एव हेत्वन्तरमाह-ततस्ततोऽन्यत्वाच्च / ततस्ततः सजातीयेतरादेर्विचित्राद वस्तुनः, अन्यत्वाच्चभिन्नत्वाच कारणात्. अनेकधर्मक वरित्वति / यदि नामैव ततः किमित्याह- स्वभावभेदेन व्यावृत्तेः ततस्ततः / किमित्येतदेवमित्याह-अन्यथा एवमनभ्युपगमे, स्वभावभेदमन्तरेण ततस्ततो व्यावृत्त्यभ्युपगम इत्यर्थः, तदेकत्वप्रसङ्गाद्व्यावर्त्यमानैकत्वप्रसङ्गात्। प्रसङ्गश्च तदन्यत्य-हेतुत्वेनाविशेषात् तस्य वस्तुनो व्यावृत्तिमतः अन्यत्वहेतुत्वेन अविशेषाद् व्यावय॑मानानाम्, तद्धि तेभ्योऽन्यत्, तदन्यत्वस्य च त एव हेतवः, यदेव चैकमपेक्ष्य तदन्यत्वं तदेवापरमपि न चैतत् तदभेदमन्तरेणेति हृदयम्। किमनेन कल्पितेनेत्याशङ्कानिरासायाह-अन्यत्वस्य चाकल्पितत्वात् तस्य व्यावृत्तिमतो व्यावय॑मानेभ्यः / इत्थं चैतदङ्गीकर्तव्यमित्याहकल्पितत्वे तदन्यत्वस्य तेभ्यः, तत्त्वतः-परमार्थतः, तदभावापत्तेस्तस्य व्यावृत्तिमतोऽभावापत्तेः, व्यावय॑मानाऽनन्यत्वेन। स्वहेतुत एव तत्तदन्येभ्योऽन्यत्वकस्वभावं भवतीति चेत् / न / पटान्यत्वैकस्वभावान्यत्वे पटवत् कटादीनां तदावापत्तेः, तथास्वभावादन्यस्वभावत्वात्, अचित्रस्यानेकान्यत्वैकत्वायोगे तचित्रतयै कान्तैकत्वाभावात्, पारम्पर्येणानेकजन्यजनकत्वाच्च, अन्यथा सद्भावासिद्धेः, परम्पराहेतुतोऽपि भावात् तथाविधतावभावित्वोपपत्तेः पुष्कलस्य चानन्तरेणाप्ययोगात् तदा तद्भावाभावादिति / अनन्तरजन्यत्वमेव परम्पराजन्यत्वमिति चेत् / न / परम्पराजनकानामनन्तरजनकत्वायोगात्, तत्स्वभावादिभेदात् तद्भेदेन च तत्तजनकत्वे न तदेव तत्। पराभिप्रायमाह- स्वहेतुत एव तद् वस्तु प्रस्तुतम्, तदन्येभ्यो व्यावर्त्यमानेभ्यः, अन्यत्वकस्वभावम् / अन्यत्वमेवैकः स्वभावो यस्य तत्तथा भवतीति चेत्। एतदाशङ्कयाह- नेत्यादि। नैतदेवम्। कुत इत्याह-पटान्यत्वकस्वभावान्यत्वे पटान्यत्वमेवैकः स्वभाको यस्य वस्तुनोऽधिकृतस्य तत्पटान्यत्वैकस्वभावं तस्मादन्यत्वं पटान्यत्वकस्वभावान्यत्वं तरिमन् पटान्यत्वैकस्वभावान्यत्वे सति पटवदिति निदर्शनम्, कट