________________ सामण्णविसेस 656 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस दस्तदव्यतिरिक्तेतरविकल्पदोषापत्तेः- असदशव्यतिरिक्ताव्य - तिरिक्तविकल्पदोषप्रसङ्गात-सा हि स्वसंविदसदंशाद वि कल्पानुवेधकाव्यतिरिक्ता वा स्यादव्यतिरिक्ता वा? व्यतिरिक्तत्वे तस्येति सङ्गायोगः / अव्यतिरिक्तत्वे तस्यापि वस्तुता , स्वसंविदो वाऽवस्तुतेत्यादि / अन्यथैवमनभ्युपगमे, तदयोगात्- तत्स्वसंविदोऽयोगात्, तथाहि-यदि सा ततो न व्यतिरिक्ता, नाप्यव्यतिरिक्ता, न विकल्प एवेति कुतस्तरवसवित? इत्यालोचनीयम्। इत्येवं, यत्किचिदसारमेतद यदुत-- 'तत्स्वसंविदो वस्तुत्वेनायमनपराधः' इति / अपान्तरालपूर्वपक्षमधिकृत्योपसंहारमाह-अत इत्यादिना। अलोऽस्मात् कारणात, सामान्यनैवोभयचित्तप्रतिषेधोपपत्तेः / प्रक्रमादधिकृतसूत्रे 'अस्थानमेतत-' इत्यादी सविकल्पाविकल्पोभयचित्तप्रतिषेधापपत्तेः / किमित्याह-आप्तवचनप्रामाण्यात कारणात्। तथा, अनुभवभावत एकचित्तरूपत्वेनानुभवभावतः, सिद्धे-प्रतिष्ठितम्। किमित्याह-इन्द्रियद्वारानुसार्ये व विज्ञानम, ईहादिक्र मेंणाऽऽविष्टाभिलापम 'अहि-रहिः' इत्येवमादि। आदिशब्दात्तदन्यैवंविधपरिग्रह, तदपि सिद्धमित्यर्थः / न चेदं नेन्द्रियनिमित्तं, तद्भावभावित्वानुविधानात्, अन्धादेरनुत्पत्तेः / इन्द्रियादविकल्पजन्म तत इदमिति तदनुत्पत्तिरिति चेत्। ना आद्यविद्युत्संपातादौ तद्भावेऽपि तदभावात् / स मानसाभावतोऽभावो नाक्षव्यापाराभावत इत्यतोऽदोष इति चेत्। नात्र किश्चिदुभयसिद्धं प्रमाणात् / इति यत् किश्चिदेतत् / तथाविधविकल्पानुत्पत्तिरेव प्रमाणमिति चेत् / न / अस्या एव विवादगोचरापन्नत्वात् / अत एवैतन्निर्णीतेरयमदोष इति चेत् / नाचक्षुयापाराभावेऽप्यस्याः समानत्वादिति। इहैवोपचयमभिधातुमाह-नचेत्यादि। न चेद नेन्द्रियनिमित्तं किं तर्हि, इन्द्रियनिमित्तमेव / कु त इत्याह- तद्भावभायित्त्वानु विधानाल इन्द्रियभावभावित्वानुकरणात् / तदेवाह- अन्धादे रनुत्पत्तेः / आदिशब्दाद्- अव्यापृतेन्द्रियग्रहः / इन्द्रियादित्यादि / इन्द्रियात सकाशात्, अविकल्पजन्मा-अविकल्पोत्पादः, ततोऽविकल्पात, इद विज्ञानमाविष्टाभिलापम्, इत्येवं तदनुत्पत्तिरन्धादेर्विवक्षितविज्ञानानुत्पत्तिरिति चेत्। एतदाशङ्कयाह-आधविद्युत्संपातादी। आदिशब्दात्तदन्याभुतदर्शनग्रहः / तद्भावेऽपि-इन्द्रियादविकल्पजन्मभावेऽपि तदभावात--आविष्टाभिलापविज्ञानाभावात्। स मानसाभावतः स्वविष - यानन्तरविषयसहकारीन्द्रियज्ञानजनितमान साभावेन, अभावः. आविष्टाभिलापविज्ञानाभावः / नाक्षव्यापारामावतानेन्द्रियव्यापाराभावेन, इत्यतोऽरमात् कारणात्,अदाषः आद्यविद्युत्संपातादी तद्भावेऽपि तदभावात्' इत्ययमनपराध इति चेत् / एतदाशङ्कयाह - नात्र 'समानसाभावतः' इत्यादौ, किशिदुभयसिद्ध वादिप्रतिवादिप्रतिष्ठितम, प्रमाणमक्षव्यापारापोहेन मानसनिबन्धनत्वव्यवस्थापकम, इत्येवं, यत्किशिदेतदसारमित्यर्थः / तथाविवेत्यादि। तथाविधविकल्पानुपानि रेवाविष्टाभिलापविज्ञानानुत्पत्तिरेवे-त्यर्थः / प्रमाणमक्षव्यापाराभा-वेन मानसनिबन्धनत्वव्यवस्थापकमिति चेत्। एतदाशङ्कयाह... न अस्या एव तथाविधविकल्पानुत्पत्तेरेव, विवादगोचरापन्नत्वात् विप्रतिपत्तिविषयत्वादिति योऽर्थः / अत एवेत्यादि। अत एव तथा-विधविकल्पानुत्पत्तेरेय सकाशात्, एतन्निीतेः 'स मानसाभावतोऽभावो नाक्षव्यापाराभादतः' इत्येतन्निश्चयात् कारणात्, अयमनन्तरोदितः'न, अस्या एव विवादगोचरापन्नत्वात्' इत्यदोषोऽनपराध इति चेत् / एतदाशङ्कयाह- न, चक्षुर्व्यापाराभावेऽप्यस्याः, अत एव तन्निर्णीतेः, समानत्वात्--तुल्यत्वादिति / तथाहि-अत एव तथाविधविकल्पानुपपत्तेरेव सकाशात्, एतन्निर्णीतः सोऽक्षव्यापाराभावतोऽभावो नमानसाभावत इत्येतन्निश्चयात् कारणात्, इत्यपि वक्तुं शक्यत्वात् तुल्यत्वमिति भावनीयम्। किञ्च-इदमपि मानसं तद्विषयमात्रग्राहकत्वेन न तदिन्नशक्तिकमिति / किञ्चानेन, निरंशैकस्वभावत्वाच्च वस्तुनोऽनुभवोऽपि न पटीयानपटीयांश्च युज्यते अत्यन्ताऽसत उत्पादेन सर्वथा हेत्वनन्वयतोऽभ्यासवासने च; अन्यथाऽसंपूर्णवस्तुग्रहणमपि स्यात्, तथा च न निरंशैकस्वभावमेवैतत् / न चान्यथाऽपटीयस्त्वादि, अनुभवस्य तन्मात्रग्रहणत्वात, तदतिरिक्तरूपान्तराभावात, अन्येनोपकाराद्ययोगादिति / एवमभ्यासवासनोपगमाद् नात्यन्तासत एवोत्पादः, सत्यस्मिस्तयोर्याङ्मात्रत्वात्, तदात्वातिरेकेणाऽऽकालं तदभावात्, पूर्वस्मादत्यन्तभिन्नत्वात् तथापि तदभ्यासादावतिप्रसङ्गात्। इतीन्द्रियजमेवैतत्, अभ्युच्चयमाह- किश्वेत्यादिना / किशा-इदमपि मानसं स्वविषयानन्तरेत्यादिलक्षणवत्, तद्विषयमात्रग्राहकत्वेन प्रक्रमादक्षज्ञानविषयमात्रग्राहकत्वेन हेतुना, स्वलक्षणमात्रग्राहकत्वे-नेत्यर्थः, न तद्भिन्नशक्तिकं नाक्षज्ञानभिन्नशक्तिकमिति। किशा-नेन परिकल्पितेन, तथाविधविकल्पोत्पत्तौ समानमेतदक्षज्ञानेनेति भावः / पक्षन्तरपरिजिहीर्षयाह-निरंशैकस्वभावत्वाच्च कारणात, वस्तुनः अनुभवोऽपिप्रक्रमात्तदनुभवः, न पटीयानपटीयांश्च युज्यते, निरंशैक्स्वभावाद् वस्तुनस्तथाविधैकस्वभावस्यैवास्य भावात; तदेतद्भेदोऽपि न तथाविधविकल्पोत्पत्त्यनुत्पत्तिनिमित्तमिति प्रकृतयोजना / तथा, अत्यन्तासत उत्पादन हेतुना, अनुभवस्य सर्वथा हेत्वनन्वयतः कारणान, तत्तथाभावाभावेनाऽभ्यासवासने च 'अनुभवस्य न युज्यते' इति वर्नत, पौनः पुन्यकरणमभ्यासः, पूर्वानुभूतसंस्कारानुवेधश्च वास्ना, नैते अत्यन्तासत उत्पादे भवत इति भावनीयम् / इत्थं चैतदङ्ग कर्तव्यमित्याह- अन्यथा एवमनभ्युपगमे, असंपूर्णवस्तुग्रहणमपि स्यात् अनुभवापटीयस्त्वादिभावेन / यदि नामैव ततः किमित्याह-तथा च न निरंशैकस्वभावमेवैतद वस्तु, किन्तु--साशानेकन्वभावनिति / न चान्योक्तं प्रकारं विहाय, अपटीयस्त्वादि, आदिशब्दालाटीयत्वगहः.