________________ सामण्णविसेस 655 - अभिधानराजेन्द्रः -- भाग 7 सामण्णविसेस त्यर्थः / अटिरोधश्च तथामनोवृत्तः युगपज्ज्ञानानुपपत्तित्वेन मनोवृत्तः कारणात / प्रक्रान्तोपसंहारमाह- इति न युगपदित्यादिना / इत्यवान युगपत्सविकल्पाविकल्पज्ञानभावः। परमाप्तवचनविरुद्धश्चायम्, "अस्थानमेतम्, यद् द्वे चित्ते युगपदुत्पद्येयाताम्" इति वचनप्रामाण्यात् / अन्यार्थमेतदिति चेत् / कोऽस्यार्थ इति वाच्यम् / भिन्नजातीयेनेति चेत् / न / अधिकृतज्ञानयोरपि तत्त्वात्। भिन्नालम्बनेनेति चेत् / न। तयोरपि त्वन्मते भावात् / कथं पुनर्भाव इति चेत्। रसादिगतचित्तस्यापि रूपदर्शनाभ्युपगमादिति / न चाविकल्पकेनेति, पञ्चानां प्ररूपणात् / न चात एव न दे, छलमात्रत्वात्। न चेहैव न्याय्यो भरः, अस्थानप्रयासत्वात् / न च नास्थानप्रयासः, द्वयोरुपलक्षणत्वात्, अन्यथा यत्र पञ्च न तत्र द्वे इत्यतिकौशलमाप्तस्य, त्र्यादीनामपि प्रतिषेधापत्तेः। उपचयमाह-- परमाप्तवचनविरुद्धश्चायं परमाप्तो-भगवान् वृद्धस्तद्वचनविरुद्धश्च, अयं युगपत्सविकल्पाविकल्पज्ञानभावः। एतदे वाहअस्थानमित्यादिना। अस्थानमिति-एतन्न न्यायस्थानं यद् द्वे चित्ते द्वे ज्ञाने, युगपदेकदा, उत्पद्येयाताम्, इत्येवं वचनप्रामाण्यात् कारणात परमातवचनावरुद्ध इति / अन्यार्थमेतत् परमाप्तवचनमिति चेत् / एतदाशक्य ह-कोऽस्य परमाप्तवचनस्यार्थ इति वाच्यम्। भिन्नजातीये न द्वे चित्ते युगपदुत्पद्ये यातामिति चेत् / एतदाशक्याह- न, अधिकृतज्ञान्योरपिसविकल्पाविकल्पयोः, तत्त्वात्-भिन्नजातीयत्वात / भिन्नालम्बने न द्वे चित्ते युगपदुत्पद्येयातामिति चेत्। एतदाशङ्बयाह-न / तयोरपि भिन्नालम्बनयोरपि, त्वन्मतेत्वत्पक्षे, भावात् / कथं पुनर्भावा भिन्नालम्बनयोर्मत्पक्षे, इति चेत् / एतदाशड्क्याहरसादिगतचि तस्यापि प्रमातुः, रूपदर्शनाभ्युपगमात् / अभ्युपगमञ्च "अतीता-द्यर्थगतविकल्पेनापि रूपादिग्रहणसिद्धेः' इति वचनात्। न चा विकल्पकेनेति द्वे चित्ते युगपदुत्पद्येयातामिति। कुत इत्याह-पञ्चानां प्ररूपणात्। स हि वंशादिवादयितुः रूपं पश्यतीत्यादिना ग्रन्थेन, नचात एव--पञ्चप्ररूप्णादेव, न द्वे! कुत इत्याह-छलमात्रत्वात् / यत्र पञ्च तत्र द्वे अपि भवत इते कृत्वा / न चेहैव प्रक्रमाच्छलादी, न्याय्यो भरस्तथाविधाऽऽस्थारूपः। कुत इत्याह- अस्थानप्रयासत्वात् / न च नास्थानप्रयास एषः, फिन्त्वस्थानप्रयास एव।कुत इत्याह-द्वयोरुपलक्षणत्वात पञ्चादीनाम् / इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा उपलक्षणत्वानभ्युपगमे,यत्र पश्चन तत्र द्वे इत्यतिकौशलमानस्य, इत्युपहासवचनम् / अत एव आह-त्र्यादीनामपि प्रतिषेधापत्तः कारणात्। स्यादेतत्, अलमनेन वाग्जालेन, सविकल्पेनोत्पद्यते इति वचनार्थात् / न, अत्र प्रमाणाभावात्, तद्विवक्षाया अत्यक्षत्वात् बाधकवचनाभावात्, भावेऽपि तदर्थनिश्चयायोगात विनेयानुगुण्यतोऽन्यथापि तद्वचनप्रवृत्तेः / साऽऽभिप्रायिक्येवेति चेत्, कस्तस्याभिप्राय इति के एतद्वेद? यो युक्तिबाधितो न स स इति चेत्। कः पुनरसौ भवतोऽभिप्रेतः? विकल्पद्यायुगपद्भाव इति चेत् / का खल्वन्यथा युक्तिबाधा? इति कथनीयम् / तथानुभव एवेति चेत्। सोऽविकल्पकद्रयेऽपितुल्य एवेत्युक्तम्। न च विकल्पयोरसदंशानुवेधतश्चित्ततैव युक्ता / न च तत्स्वसंविदो वस्तुत्वेनायमनपराधः, तत्तद्व्यतिरिक्तेतरविकल्पदोषापत्तेः अन्यथा तदयोगात् / इति यत्किञ्चिदेतत् / अतः सामान्येनैवोभयचित्त-प्रतिषेधोपपत्तेः, आप्तवचनप्रामाण्यात, तथानुभवभावतः सिद्धमिन्द्रियगारानुसार्येव विज्ञानमाविष्टाभिलापम् 'अहिरहिः' इत्येवमादि। स्यादेतदलमनेन वाग्जालेनान्तरोदितेन, सविकल्पेन उत्पद्यते द्वे चित्ते युगपदिति वचनार्थात, कारणात् अलमनेन / एतदाशङ्कयाह- न अत्र वचनार्थे , प्रमाणाभावात् / अभावश्च तद्विक्षाया अत्यक्षत्वात्अतीत्याक्षमिन्द्रिय वर्तत इत्येत्यक्षातगावस्तरमात्परोक्षत्वादित्यर्थः / अत्यक्षापि वचनान्तरावसेया भविष्यतीत्याह-बाधकवचनाभावात्। अविकल्पयोगपद्याभिधायि बाधकं वचनम्, अत्र न च तदस्तीति गर्भः / उपचयमाह- भावेऽपीत्यादिना। भावऽपि बाधकवचनस्य 'पञ्च बाह्यविज्ञानानि भिक्षवः ! युगपदुत्पद्यन्ते' इत्यादेः। किमित्याह- तदर्थनिश्चयायोगात् / अविकल्पज्ञानानां युगपद्भावस्तदर्थस्तन्निश्चया-योगात्, अयोगश्व विनयानुगुण्यतः-शिष्यानुगुण्येन, अन्यथापि श्रीत शब्दार्थ विहायाऽपि, तद्वचनप्रवृत्तेः-- आप्तवचनप्रवृत्तेः, ब्राह्मणमृतजायाऽभृतवचनवत् / सेत्यादि। सा तद्वचनप्रवृत्तिः, आभिप्रायिक्येव अभिप्रायेण निर्वृत्ता आभिप्रायिकी अभिप्रायस्तथार्थदर्शनमिति चेत् / एतदाशड्क्याह कस्तरय आप्तस्याऽभिप्रायः अर्थयाथात्म्यमधिकृत्य किमविकल्पयोगपद्यमेव,उत विकल्पयोगपद्यमिति? क एतद्वेद-क एतजानाति? न ह्यसौ पृथगजनप्रज्ञाविषय इत्यर्थः / य इत्यादि / योऽभिप्रायो युक्तिबाधितो-युक्तिविरहितः, न स स इति-नासौ तदभिप्रायः, अर्थयाथात्म्यमधिकृत्येति प्रक्रमः, इति चेत्। एतदाशङ्कयाह-कः पुनरसौ अभिप्रायः, भवतोऽभिप्रेत? विकल्पेत्यादि / विकल्पद्वयायुगपद्भावोऽभिप्रायः 'अस्थानमेतत्' इत्यादिसूत्र इति चेत् / एतदाशङ्कयाह- का खल्वन्यथा विकल्पद्वययुगपद्भावे, युक्तिबाधा? इत्येतत् कथानीयम् / तथा विकल्पद्वययोगपद्येन, अनुभव एव युक्तिबाधेति चेत्। एतदाशङ्क्याह-सोऽविकल्पद्वयेऽपि योगपचुनाऽननुभवः तुल्य एवेत्युक्तं प्राक। किंच-कुतोऽयममीषामत्यन्तभेदे युगपत् सर्वानुभव इत्यवगमः? इत्यादिना सूत्रेण / उपचयमाह-न चेत्यादिना। न च विकल्पयोरसदंशानुवधतः कारणात्, अविद्यमानप्रतिभासित्वाभ्युपगमेन, चित्ततैव युक्ता यदसत्प्रतिभासि तदसदेवेति भावनीयम् / पराभिप्रायमाह-न वेत्यादिना / न च तत् स्वसविदो विकल्पस्य स्वसंविदः, वस्तुत्वेन हेतुना, अयमसदंशानुवेधतश्चित्तताऽयोगलक्षणः, अनपराधोऽदोषो न च। कुत इत्याह- तदप्यतिरिचते-तरविकल्पदोषापत्तेः तस्याः स्वसचि