________________ सामण्णविसेस 654 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस संवदेनात, इति कल्पनान्तरबाधिका युक्तिः / अत एवाह- काल - सौक्ष्म्यविधमतः कारणात्, तथाऽप्रतीतेः-एक दैकज्ञानसंवेदनत्वेनाऽप्रतीतेः विभ्रमाद् युगपत्प्रवृत्तेरित्यर्थः। किञ्च-कुतोऽयममीषामत्यन्तभेदे युगपत्सर्वानुभव इत्यवगमः? न तेभ्य एव, प्रत्यर्थनियतत्वात् इतरेतरानवगमात्, अवगमे स्वरूपहानिप्रसङ्गात्, ज्ञानान्तरालम्बनत्वापत्तेः, तस्यापि चायोगात्, युगपद्भावात्, प्रतिबन्धविरहात्, इतरेतरालम्बनत्वानुपपत्तेः, युक्तिभिरयोगात्, स्वभावभेदप्रसङ्गात्, तथा च तदयोगादिति / न चान्यतः, एकस्य तदालम्बनत्वाभावात्, तेषां भिन्नजातीयत्वात्। अत एवैकाकरणादतदुत्पन्नात् तत्परिच्छित्यसिद्धेः, तदाकारत्वायोगात्, योगेऽपि मेचकरूपतापत्तेः, तत्सारूप्याभावात्, तेषामसङ्कीर्णत्वात्, एवमप्यवगमेऽतिप्रसङ्गात्, तत एव सर्वार्थावगमापत्तेः, तथाऽनुभवाभावात, इत्यनवगताभिधानमेतद् / यदुत- 'युगपत्सर्वानुभवः' इति / चित्रज्ञानवत्परामर्शा विकल्पात् तदवगम इति चेत् / न / अस्याप्ययोगात् / तथानुभवसिद्धत्वात् कथमयोग इति चेत् स्वकृतान्तप्रकोपात् / कथमात्र तत्प्रकोप इति चेत् / यथोक्तं प्राक् / परामर्शविकल्पोऽन्य एवेति चेत् / न / ततस्तदवगम इति यत्किञ्चिदेतत् / क्रमानुभवोऽपि कथं गम्यते? इति चेत्। अन्ययिन्यात्मनि सुखेनैव, तस्यैव तथा-भावात्, चित्रस्वभावत्वात्, बोधान्वयोगपपत्तेः, तदावरणविगमात्, क्रमानुभवाविरोधात्, तथामनोवृत्तेः। इति न युगपत्सर्वथा सविकल्पाविकल्पज्ञानभावः। दूषणान्तरमाह-किश्वेत्यादिना। किशायमपरो दोपः- कुतोऽयममीप घण्णां विज्ञानानाम्, अन्यन्तभेदे सति, युगपत्सर्वानुभव इत्येवंभूतः, अवगमः-परिच्छेदः, न तेभ्य एव षड्भ्यो विज्ञानेभ्यः / कुत इत्याहप्रत्यर्थनियतत्वात् तेषाम, तथाहि- रूपादिविषयत्वेन नियतानि तानि / यदि नामैवं ततः किमित्याह-- इतरेतरानवगमात् / न रूपज्ञाने रसादिज्ञानमवगम्यते,नापि तैस्तत्, इतीतरेतरानवगमः / इत्थं चैतदङ्गीकर्तव्यमित्याह-अवगमे स्वरूपहानिप्रसङ्गात् / यदेव रूपज्ञानं रसादिज्ञानान्यवति तदेव सदालम्बनत्वात् तदाकारतया रूपानता परित्यज्यान्यथा (दिवगमः,एवं रसादिज्ञानेष्वपि याजनीयम्, गर्भ स्वरूपहानिप्रसङ्गः / एतदेवाह-ज्ञानान्तरालम्बनत्वापत्तेः न ह्येतदालादनं तदवगमयतीति भावः / यदि नामैवं ततः किमित्याह - तस्यापि चायागात तस्यापि च ज्ञानान्तरालम्बनत्वस्य, अयोगात् / अयोगश्च युगपद्भावात रूपरसादिज्ञानानां युगपदावे दोषमाह- प्रतिबन्धविरहात् तादात्म्यतदुत्पत्त्ययागन / दोपान्तरमाह- इतरेतरालम्बनत्यानुपपत्त: रुपज्ञानस्य रसान्तरालम्बनल्यानुभपतेः, रसादिज्ञानस्य च रुपज्ञानान्तरालम्बनत्वानुपपतः / अनुपपत्तिश्च युक्तिभिरयोगात्। युक्तमयोगश स्वभावभदप्रसङ्गात्। रूपज्ञान हि रसादिज्ञानान्तरालम्बनमालम्च्य च।। न चैतदुभयं स्वभावाभेदे इति स्वभावभेदः / यदि नामैवं ततः किमित्याहतथा--च तदयोगादिति। स्वभावभेदे च रूपादिविज्ञानायोगात्. ततस्तद्व्यतिरिक्तेतरविकल्पद्वारेण इति 'न तेभ्य एवाऽमीषा युगपत्सर्वानुभव' इत्यवगमः, इत्येतत् स्थितम्। अन्यतो भविष्यतीत्याशङ्कापनोदायाहन चान्यत इत्यादि। न चान्यतोऽमीषा युगपत्सर्वानुभव इत्यवगमः / कुत इत्याह- एकस्यत्यादि / एकस्यान्यस्य, तदालम्बनत्वाभावात् अधिकृतषविज्ञानालम्बनत्वाभावात्। अभावश्च तेषां भिन्नजातीयत्वात् षण्णा विज्ञानानाम् / यदि नामैवं ततः किमित्याह-अतएवैककारणात्। न हि भिन्नजातीया रूपादय एकं पृथग्जनज्ञान कुर्वन्ति / न चैतदुत्पन्न तत्परिच्छेदकमित्येत-दाह-अतदुत्पन्नादित्यादि / तेभ्यः / षड्भ्यो विज्ञानेभ्यः, उत्पन्नं तदुत्पन्नं, न तदुत्पन्नमतदुत्पन्नं तस्मात, एकरमादिति प्रक्रमः / तत्परिचिछत्यसिद्धेः षड्ज्ञानपरिच्छित्यासिद्धेः, असिद्धिश्व तदाकारत्वायोगात् / उपचयमाह-योगेऽपि कथञ्चित्, तदाकारत्वस्य मेचकरूपतापत्तेरधिकृतग्राहकज्ञानस्य। यदि नामैवं ततः किमित्याहतत्सारूप्याभावात्। तै यज्ञानैः षड्भिः सारूप्याभावत् मेचकरूपस्य ग्राहकज्ञानस्य / अभावश्च तेषामसंकीर्णत्वात् ज्ञेयज्ञानानाम् / न च सारूप्याभावे तदवगमो न्याय्य इत्येतदाह- एवमपीत्यादि एवमपि सारुप्याभावेऽपि, ज्ञानज्ञेययोरवगमेऽभ्यु--पगम्यमाने, अतिप्रसङ्गात् / अतिप्रसङ्गश्च,तत एव सर्वार्थावगमानुभवाच्च, इत्येवम्, अनवगताभिधानमतत् पूर्वपक्षवचनं,यदुत 'युगपत्सर्वानुभवः' उक्तदत्तद्योगपद्याज्ञानादिति। चित्रज्ञानवदित्यादि। चित्रज्ञानवदिति निदर्शनम्,यथा चित्रज्ञाने सामर्थ्याच्चित्रावगमः,तथा परामर्शविकल्पात्-षड़ज्ञानगतात्, तदवगम, प्रक्रमादमीषां युगपत्सर्वानुभवावगम इति चेत् / एतदाशडक्याह-नाऽस्याऽप्ययोगात् चित्रज्ञानस्य। तथेत्यादि। तथा चित्रज्ञानत्वेनानुभवसिद्धत्वात् कारणात्,कथमयोग इति चेत् चित्रज्ञानस्य ! एतदाशक्याह- स्वेत्यादि / स्वकृतान्तप्रकोपात्-- स्वसिद्धान्तविरोधादयोगः / कथमत्र तथानुभवसिद्धौ,तत्प्रकोप इति चेत् / एतदाशक्याह- यथोक्तं प्राक्-पूर्वम् 'एकस्यानेकालम्बनत्वाभावात्, इत्यादिना परामर्शविकल्पोऽनन्तरप्रस्तुतः, अन्य एव तथाविधानुभवनिमित्तोन षड्ज्ञानगत इति चेत् / एतदाशक्यह-न तत, परामर्शविकल्पादन्यस्मात् तदवगमः प्रक्रमादमी युगपत्सर्वानुभवावगमः, इत्येवं, यत्किश्चिदेतदनन्तरोदितम् : सयंमेवासारमित्यर्थः / क्रमानुभवोऽपि रूपाकिज्ञानगत इति प्रक्रमः, कथ गम्यल इति चेत. तत्क्रमग्राह्यान्यद विज्ञानान्तरं न विद्यत एवेत्य-भिप्रायः / एतदाशड्क्याह- अन्वयिन्यात्मनि सुखेनैव गम्यते, एतदेवाह-तस्यैव प्रक्रमाद्रूपादिज्ञानानुभवितुरात्मनः, तथा-भावाद्- रसादिज्ञानरूपेण भावात तत्तथाभावश्च चित्रस्वभावात ; अनुवृत्तिव्यावृत्तिस्वभावत्वादित्यर्थः / एतच्च बोधान्वयोपपत्तेः,न व्यावृत्तिमन्तरेणान्वय इत्युपपत्तिः / युत्ययन्तरमाह-तदावरणविगमात्-क्रमानुभवज्ञानावरणधिगमात्। न चायमसिद्ध इत्याह- क्रमानुभवाविरोधात् कारणसाकल्यने