________________ सामण्णविसेस 653 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस तिक्रान्तिमात्रत्वेनात्यन्तसूक्ष्मत्वात्, तदनुभवस्य तत्त्वेनैवावग्दिर्शिनाऽनुपलक्षणात्, तथाऽप्रतीतेः इति पूर्ववर्णज्ञानेनो-- तरवर्णज्ञानस्य मिश्रणाभावात्, उभयोः प्रदीर्घस्थूरोपयोगरू-- पत्वात; तथा आलम्बनजातिभेदात्, तत्तत्स्वाभाव्यात्, तथाक्षयोपशमयोगात्, दृढानुभवसिद्धेः, अविगानेन तथा-वेदनात् कोटिसङ्ग स्याप्रयोजकत्वात्, तदीर्यतरस्करणात्, इत्थमपि तथापादनेऽतिप्रसङ्गात्, नीलपीतज्ञानयोरपि तद्भावेन क्वचिन्मिश्रणप्रसङ्गात् / इति कथं सकारादाविवाविच्छिन्नमेकधर्माभूतायतवर्णाकारं दर्शनं भवेत्? सकारादौ तु कालादिभेदेऽपि प्रभूततरधर्मप्रत्त्यासत्तेर्भवति, तथानुभवादिति। एतेनाऽलातचक्रादिदर्शनं प्रत्युक्तम्, प्रत्यवयवं प्रदीर्घस्थूरोपयोगादिविपर्ययात्, अन्यथा तत्रापि तथादर्शनानुपपत्तेः। अत्रोच्यते-यत्किञ्चिदेतत्, असारमित्यर्थः। कुत इत्याह-वर्णयोः-सराऽऽदिलक्षणयोः, सावयवत्वेन हेतुना, उक्तदोषानुपपत्तेः / एतदेव प्रकटयति- सरादय इत्यादिना / सरादयो हि वर्णाः सावयवत्वेन जातिभेदतः, अनेकलक्षणलब्धवृत्तयो वर्तन्ते / कुत इत्याह -तथोपलब्धितः अनेकक्षणवृत्तित्वेनोपलब्धेः, उपलब्धिश्च तत्तत्स्वभावत्वात तयोरुपलब्धवर्णयो स्तत्स्वभावत्वात अनेकक्षणवृशिनोपलब्धिस्वभावात् / इत्थं चैतदडीकर्तव्यमित्याह- अन्यथा तदनुपपत्तेः एवमनभ्युपगमे, वर्णापलब्ध्ययोगादित्यर्थः / यत एवम्, अतो न क्षणिकज्ञानग्राह्याः / कुत इत्याह-तस्य क्षणस्य, परमाणुमात्रव्यति-क्रान्तिमात्रत्वेन परमाणुव्यतिकान्तिकाल एकः क्षणो मत इति न्यायेनाऽत्यन्तसूक्ष्मत्वात्। तदनुभवस्यक्षणानुभवस्य तत्त्वेनैवक्षणानुभवत्वेनैव, अवाग्दर्शिना प्रभात्रा, अनुपलक्षणा, अनुपलक्षणं च तथा तत्त्वेनैवाऽप्रतीतः / इत्येवं पूर्ववर्णज्ञानेनसकारादिज्ञानेन, उत्तरवर्णज्ञानस्यरेफादिज्ञानस्य, मिश्रणाऽभावात् कारणात, कथं सकारादाविवाविच्छिन्नमेकघनीभूतायतवर्णाकार दर्शन भवेदिति योगः / मिश्रणाभावश्च उभयोनियोः सकारादिगोचरयाः, प्रदीर्घम्थूरोपयोगरूपत्वात् तथालम्बनजातिभेदात्, भिन्नजातीयौ सकाररेफाविति कृत्वा, तथा तत्तत्स्वाभाव्यात् तयोर्वर्णापयोगयोस्तत्स्वाभाव्याद-मिश्रण स्वाभाव्यात्। एतच्च तथाक्षयोपशमयोगात् तेन मिश्रणाभावशानजनकवत्प्रकारेण, क्षयोपशमयोगात्। एतद्योगश्व दृढानुभवसिद्धेः, इयमप्यविगानेन तथावेदनाद् दृढानुभवरूपेण वेदनात्। कोटिसङ्गर वर्णज्ञानसंबन्धिनः, प्रयोजकत्वात् / प्रभूततराऽसङ्गेन तद्वीर्यतिरस्करणात तयोवर्ण ज्ञानयोर्वीर्य प्रदीर्घस्थूरोपयोगलक्षणं सामर्थ्य तेन तिरस्करणात कोटिसङ्गस्य / इत्थमप्येवमपि कोटिसङ्ग स्य तद्वीर्यतिरस्करणेऽपि , तदापादने प्रक्रमाद् मिश्रणापादने अतिप्रसड़ात। एनमवाह- नीलपीतज्ञानयोरपि तद्भावेनकोटिसङ्गभावेन क्वचिच्चित्रपट्यादी, मिश्रणप्रसङ्गात नचैतदेवम्, इत्येवं, कथं सकारादाविव सजातीयव्यक्तिरूपम् अविच्छिन्नमेकदैव एकघनीभूतायतवर्णाकारं दर्शन भवेत नैव भवति, निमित्ताभावात्। सकारादौ तु सजातीये तथैकावयवित्वेन कालादिभेदेऽपि, आदिशब्दादजातिग्रहः / प्रभूततरधर्मप्रत्यासत्तेर तथैकारम्भकत्वेन भवत्येकघनीभूतायतवर्णाकारदर्शनम् / कुत इत्याह - तथानुभवात् / एकधनीभूतायतवर्णाकारदर्शनत्वेनाऽनुभवादिति / एतेनानन्तरोदितेन, अलातचक्रदर्शनं प्रत्युक्तम्। कथमित्याहप्रत्यवयवम अवयवमवयवं प्रति अलातचक्रसंबन्धिनं, प्रदीर्घस्थूरोपयोगादिविपर्ययात् अप्रदीर्धसूक्ष्मोपयोगभावात् एवं चतत्र भवति तन्मिश्रणमित्यर्थः। अन्यथैवमनभ्युपगमे, तत्राप्यलातचक्रे, तथा दर्शनानुपपत्तः प्रत्यवयवं प्रदीर्घस्थूरोपयोग-भावेन तन्मिश्रणाभावेनेति भावः / न चैवं सर्वक्रमोपलम्भनिबन्धनं सविकल्पाविकल्पयोः, अविकल्पे क्षणिकत्वेन जात्यादिभेदेऽपीहादेस्तदितरवैकल्यादिति / या च युगपगोचरीभूतविषयेन्द्रियवतोऽविच्छे देन सर्वो पलब्धिरुक्ता, साऽसिद्धा, द्रव्येन्द्रियविषययोगेऽप्य वग्दिर्शिनः प्रतिबन्धकसामर्थ्येन तावतां विज्ञानानामेकदाऽनुदयात्, तथाऽननुभूतेः, प्रतीत्यभावात्, युक्त्यनुपपत्तेः, उपादानायोगात्, एकोपादानतोऽने कासिद्धेः, भिन्नोपादानत्वे तदत्यन्तभेदेनानुसन्धानायोगात्, अस्य चानुभवसिद्धत्वात् / एवं च क्रमपक्षेऽप्यक्रमस्यैव दर्शनादित्ययुक्तम्, तथाननुभवात्, एकदैक ज्ञानसंवेदनात्, कालसौक्ष्म्यविभ्रमतस्तथाऽप्रतीते। प्रकृतयोजनायाह- न चैवं यथाधिकृतवर्णयोः, सर्वनिरवशेष सावयवत्वादि, क्रमोपलम्भनिबन्धनम् / कयो रित्याह- सविकल्पाविकल्पयोः प्रस्तुतविज्ञानयोः। कुत इत्याह-अविकल्पे क्षणिकत्वेन अवग्रहस्य क्षणिकत्वात् / जात्यादिभेदेऽपीहादेः, सविकल्पत्वेन आदिशब्दात्-प्रतिभासग्रहः, तदितरवैकल्यात् प्रदीर्धस्थूरोपयोगरूपवैकल्यादिति / या चेत्यादि / या च युगपद्रोचरीभूतविषयेन्द्रियवतः प्रगातुः, अविच्छेदेन सर्वोपलब्धिरुक्ता पूर्वपक्षग्रन्थे, साऽसिद्धा। कुत इत्याह- द्रव्येन्द्रियविषययोगेऽपि निर्वृत्त्युपकरणरसादिसंबन्धेऽपि, अगिदर्शिनः प्रमातुः, प्रतिबन्धकसामर्थेन हेतुना कर्मसामर्थ्यन, तावतां विज्ञानानां षण्णाम्, एकदैकस्मिन् काले, अनुदयात्- अनुत्पादात्, अनुदयश्च तथाननुभूतेः एकदाभावनाननुभूतेः / अननुभूतिश्च प्रतीत्यभावात्। प्रतीत्यभावश्च युक्त्यनुपपत्तेः / युक्त्यनुपपत्तिश्व उपादानायोगात / उपादानायोगश्च एकोपादानतोऽनेकासिद्धेः स्वतः परतश्च / भिन्नापादानत्वे तेषां षण्णामत्यन्तभेदेन सन्तानान्तरवदनुसन्धानायोगात 'भया रूप दृष्ट, शब्दः श्रुतः' इत्यनुसंधानायोगात् / अस्य चानुसन्धानस्यानुभवसिद्धत्वात् / यदि नामैवं ततः किमित्याह-एवं च 'क्रमपक्षेऽप्यक्रमस्यैवदर्शनात्' इत्ययुक्तं पूर्वपक्षोक्तम्। कुत इत्याहतथाननुभवात्। अक्रमदर्शननाऽननुभवात। अननुभवश्व एकदैकज्ञान