________________ सामण्णविसेस 647 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस विष्टाभिलापम् 'अहिरहिः' इति योजकं दर्शकं च धारावाहि तथा व्यवहारबीजं प्रतिप्राण्यनुभवसिद्धमेव / न चेहान्यदेवदर्शनम्, अन्य एव च विकल्पः, विकल्पेनाऽदर्शनात्, दर्शनेन चाविकल्प-- नात्, तयोरसहवृत्तेरुपादानादिभावात् / इत्येकमेवेदमिति॥ न चेत्यादि / न चैतत्- शब्दोऽपि तद्योग्यद्रव्येभ्य इति यदुक्तमेतत, अभ्युपगमम त्रम्, अपि तु सापपत्तिकमित्यभिप्रायः। कुतं इत्याहतावदित्यादि। तावत्संघातजस्यैव रूपालोकमनस्कारचक्षुः शब्दसंधातजस्थैव विकल्पज्ञानस्य' इति प्रक्रमः, तथा तेन निश्चितप्रकारेणाग्रहणस्वभाव वात / एतचैवमर्थग्रहणस्वभावत्वम्, अविगानतः-अविगानेन तथा-नेन प्रकारेणाऽनुभवसिद्धेः, अनुभवसिद्धिश्चैवमेव व्यवहारदर्शनादिति एतदेव निदर्शनेनाह- तथाहीत्यादि। तथाहीत्युपदर्शन; एतद्- वक्ष्माणम्, इन्द्रियद्वारानुसार्येव तद्व्यापाराऽभावेऽभावात्. विज्ञानम्। कि विशिष्टमित्याह-आविष्टाभिलापं प्रविष्टशब्द शब्दसन्मिश्रमित्यर्थः किपिशिष्टमित्याह-अहिरहिः-सर्पः सर्प इत्येवं योजकंशब्दस्य, दर्शक चार्थर येन्द्रियव्यापारेण, धारावाहि तथासन्तान-प्रवृत्तम् / एतदेव विशेष्यते व्यवहारवीजमिति। ततस्तथाविधव्यवहारसिद्धः, प्रतिप्राण्य - नुभवसिद्ध व प्राणिन प्राणिनं प्रतितत्तद्- द्रष्ट्रपेक्षया प्रतिप्राणि, प्रतिग्रामभिवालाभवत्, अनुभवसिद्धमेव नेह कस्यचिद् विगानमिति / न हत्यादि न चेह प्रस्तुते ज्ञाने, अन्यदेव दर्शन निर्विकल्पकम, अन्य एव च विक पो निश्चयात्मकः / कुत इत्याह- विकल्पेनादर्शनात् / कान्तादिविकल्प तथानुभवसिद्धभतत, दर्शनेन चाविकल्पनात्, अनभिप्रेत तृणादिदर्शन एतदपि सिद्धमेव। तथा, तयार्दर्शनविकल्पयाः असहवृत्तेयुपदवृत्तरित्यर्थः / कुत इत्याह- उपादानादिभावात : अवग्रहादिक्रमेणोपादानोपादेयभावादित्यर्थः, इत्येवम्, एकमेवेदमधिकृतं विज्ञानमिति। स्यादेतत, सविकल्पाविकल्पयोर्विज्ञानयोः स्वभावमेदेऽपि प्रतिभासभेदेन युगपवृत्तेर्विमूढः प्रतिपत्ता तमपश्यन्नैक्यं व्यवस्यति, न तु तथा तत्, अन्यत्रानयोर्योगपोऽपि भेददर्शनात, अतीताद्यर्थगतविकल्पेनापीन्द्रियज्ञानतो रूपादिग्रहणसिद्धेः / न च स विकल्पो रूपाद्येव गृह्णातीति शक्यं कल्पयितुम्, तस्यातीताद्यर्थाभिधायकत्वत्यागतो वर्तमानार्थयोजनेन प्रवृत्तिप्राप्तेः। नापि वर्तमानार्थाभिधानसंसर्गी तदाऽपरो विकल्पः समस्ति, द्वयोर्विकल्पयोः सममप्रवृत्तेः, अविगानेन तथानुभवाभावात् / अतोऽत्र प्रत्युत्पन्नविषयग्रहणकाले दृश्यमानार्थनामाऽग्रहः स्पष्ट एव। तन्नामग्रहणसम्भूता च कल्पना, तन्नामग्रहाभावे कल्पनाऽभावः। इति सिद्धमविकल्पक-मिन्द्रियज्ञानम्, अतोऽन्य एव च विकल्प इति न क्वचिदनयोरैक्यम्, न्यायानुपपत्तेः, भिन्नजातीयत्वादिति / इतश्चैतदेवम् / अन्यथा स्वाभिधानविशेषणापेक्षा एवार्था विज्ञानय॑वसीयन्त इति प्राप्तम्।। पराभिप्रायमाह- स्यादेतदित्यादिना / स्यादेतदथैव मन्यसे, सविकल्पाविकल्पपोर्विज्ञानयोः सामान्येन, स्वभावभेदेऽपि स ति, प्रतिभाराभेदेन हतुना युगपद वृत्तेः कारणात, विभूढ प्रतिपत्ता पुरुषः, तमपश्यन्स्वभावभेदम, ऐक्यं व्यवस्यति तयोः सविकल्पाविक ल्पयोः, न तु तथा तत न पुनस्तदैवयमेव / कुत इत्याह. अन्यत्र जातिभेदे, अनयोः सविकल्पाविकल्पयोः, योगपद्येऽपि सति, भेददर्शनात् / एतदेवाह-अतीताद्यर्थगतविकल्पेनापि प्रमात्रा, इन्द्रि ज्ञानतःइन्द्रियज्ञानेन, रूपादिग्रहणसिद्धेः / कस्येत्याह-- अन्यस्याश्रुतत्वात्। तरगव प्रभातुः / न चेत्यादि। न च स विकल्पोऽतीताद्यर्थगतः, रूपाद्येव गृह्णाति 'चारमानिकम्' इति प्रक्रमः इत्येवं, शवयं कल्पयितुम् / कुतो न शक्यमित्याह--तस्येत्यादि। तस्यातीताद्यर्थगतविकल्पस्य, अतीताद्यभिधायकत्वत्यागतोऽतीतादिवाचकशब्दादित्यागतः / वर्तमानार्थयोजननेति। वर्तमानोऽर्थोऽभिधेयो यस्य' अभिधायकस्य' इति प्रक्रमः स वर्तमानार्थस्तद्योजनेन प्रवृत्तिप्राप्तेः कारणात् / नापीत्यादिना / नापि वर्तमानार्थाभिधानेन संसृज्यते तच्छीलश्चेति विग्रहः, तदा तरिमन्नेव काले, अपरो विकल्प: समस्तिविद्यः / कुत इत्याह- द्वयोर्विकल्पयोः समं युगपत, अप्रवृत्तेः कारणात् / अप्रवृत्तिश्चाविगानेनाऽविप्रतिपत्त्या, तथा तेनर समकालभावेनाऽनुभवाभावात् / अत इत्यादि / अतः स्थितमेतत, प्रत्युत्पन्न विषयग्रहणकाले दृश्यमानार्थनामाऽग्रहः स्पष्ट एव / यदि नामयं ततः किमित्याह-तन्नामग्रहणेन संभूता तन्नामग्रहणसंभूता, एवंभूता च कल्पना। ततः किमित्याह-- तन्नामग्रहाभावे कल्पनाभाव इति कृत्या, सिद्भमविकल्पकमिन्द्रियज्ञानम् / अत इन्द्रियज्ञानात, अन्य एव च विकल्प इत्यवं, न क्वचित सजातीयादी, अनयोर्दर्शनविकल्पयोः एषयग-एकभावः, न्यायानुपपत्तेः, इयं चोक्त्वा सर्वगर्भ त्वाह-भिन्नजातीयत्वात् / सामान्यनेव दर्शनविकल्पयोरिति 'इतश्चैतदेवमङ्गीकर्तव्यम्' इति शेषः / अन्यथैवमनभ्युपगमे, स्वाभिधानविशेषणापेक्षा एवार्था विज्ञानैर्व्यवसीयन्त इति प्राप्त, व्यवसीयन्ते, प्रतीयन्त इत्यर्थः / कीदृशा इयाह-- स्वाभिधानेन्यादि। स्वाभिधानमेव विशेषण व्यवच्छेदकत्वात् तरिमन्नपेक्षा यपामर्थानाभिति विग्रहः। अस्त्येवमपि को दोष इति चेत्। निवृत्तेदानीमिन्द्रियज्ञानवार्ता, अभिधानविशेषस्मृतेरयोगात्, सति ह्यर्थदर्शनेऽर्थसन्निधौ दृष्ट शब्दे ततः स्मृतिः स्यात्, अग्निधूमवत् / न चायमशब्दमर्थ पश्यति, अपश्यन् न शब्दविशेषमनुस्मरति, अननुस्मरन्न योजयति, अयोजयन्न प्रत्येति, इत्यायातमान्ध्यमशेषस्य जगतः। अभिपतन्नेवार्थः प्रबोधयत्यान्तरं संस्कार, तेन स्मृतिः, नार्थदर्शनादिति चेत् / न / तत्संबन्धस्यास्वाभाविकत्वात्, समयादर्शनऽभावात्, पुरुषेच्छातोऽर्थानां स्वभावापरावृत्तेन समयकालोत्पत्तिः, स्वभावस्य परावृत्तौ च तस्य तादात्म्यात्, अन्यस्यासमयदर्शिनोऽपि स्यात्, न हि प्रतिपुरुषमर्थान