________________ सागारियपिंड 626 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड तु निर्दिष्टा प्रसाद्यापि न ततोऽन्यत्र नीयते सा अंशिका, तत्रैव तिष्ठन्ती अनिगूढा भवति / एवंविधा न कल्पते प्रतिग्रहीतुमिति। अथ क्षेत्रद्वारंव्याचष्टसीताइजन्नो पहुगादिमा वा, जे कप्पणिज्जा जतिणो भवंति। सालीफलादीण व विक्कयम्मि, पडेज तेल्लं लवणं गुलो वा // 362 / / सागारिकस्यान्ये पञ्च साधारणे क्षेत्रे सीताया-हलपद्धतिदेवताया यज्ञः-पूजा भवेद, तत्र शाल्यादिद्रव्यं यदुपस्कृतं पृथुकादयो वा ये तत्र क्षेत्रे ते यतीनां कल्पनीया भवन्ति / यद्वा-तत्र शालीनांकल्माषादीना फलादीनां-चिर्भटादीनाम्, आदिशब्दात्-गोधूमादिप्रभृतीनां धान्यानां विक्रीयमाणानां विक्रये तैलं वा लवणं गुडो वा पतेत् एषा सर्वाऽपि क्षेत्रविषया सागारिका। अथांशिकायन्त्रद्वारमाहजंते रसो गुलो वा, तेल्लं चक्कम्मि तेसुवा जंतु। विकिजंते पडितं,पवत्तणंते य पगयं वा॥३६३।। यन्त्रमपि सागारिकस्यान्यैः सह साधारणं स्यात्. तच द्विधा इक्षुयन्त्रं तैलयन्नं च। तत्र च इक्षुयन्त्र कोल्ले कास्यरसौ गुडो वा भवेत्, तिलयन्त्रं वक्रमुच्यते, तत्र तैलं तिलातसीसर्षपादीनां भवेत्। तैस्तदा रसदेषु विक्रीयमाणेषु यत्तन्दुलघृतवस्खादिकमापतति। अथवा-यन्त्रस्य प्रवर्त्तते प्रथमप्रारम्भे अन्ते वा-परिसमाप्तौ यत्ते संभूय प्रकृत-प्रकरणं कुर्वन्ति एषा यन्त्रविषया अंशिका।। अथ भोज्यक्षीरद्वारे व्याख्यानयति - गणगोहिमादिभोज्जा, भोत्तुव्वरितं च तत्थ जं किंचि। भातुगमादीण पओ, अविभत्तं जंच गोवेणं // 36 // गणो-मल्लादिगणरूपः गोष्ठी-महत्तरादिपुरुषपञ्चकपरिगृहीता यज्ञःयागः आदिशब्दाद्- अन्यस्यापि महाजनस्य साधारणानि यानि भोज्यानि संखड्यः, यद्वा-किंचित् मोदकप्रभृतिक तत्र भुक्तोद्वरितद्रव्यम् एषा भोज्यविषया सागारिकाऽशिका / तथा सागारिकसंबन्धिना भ्रातृव्यादीनां पयो- दुग्धं यावदद्यापि सागारिकेण सहाविभक्तम्, यद्वादुग्ध-वृत्त्यच्छिन्नं सागारिकदुग्धमध्यादद्यापि गोपेनाविभक्तम् / एषा क्षीरविषया सागारिकांशिका। मालाकारद्वारमाहपुप्फपणिएण आरा-मिगाण पडियेण जाव उ विरिक्कं / पक्खेवगादिसँमुहं, अवियत्तादी य पुव्वुत्ता॥३६५।। पुष्पाणां पणितेन-विक्रयेण यदारामिकाणां मालिकानां धृतादिक पतित तदारामस्वामिना सागारिकेण यावदद्यापि न विरिक्त भवेदेषा अपि सागारिकांशिका / अथवा-क्षेत्रादिमालाकारान्तरेषु द्वारेषु यदि सागारिकस्य संमुख पश्यतस्तदीयायामंशिकागामविभक्तायां साधको भवतादिक गृहन्ति, तदा भद्रककृताः प्रक्षेपकादयः, प्रान्तकृताः पुनरप्रीतिकादयः पूर्वोक्ता दोषा मन्तव्याः। मालाकारद्वारं प्रकारान्तरेणाऽऽह... अहवा वि मालकार-स्स अंसियं अविणयंति भोज्जेसुं। सो य सॉगारो तेसिं, तं पिण इच्छति अविभत्तं // 366 / / अथवा-मालाकारस्य पुष्पावचयमादिभिर्यनिष्ठामंशिकां भोज्येषु शालिदाल्यादिषु यावत्तस्याभाव्यं तावन्मात्रमगारिणः प्रागेवापनयति, सच मालाकाररतेषां साधूनां सागारिकोऽतो यावदसौ मालाकारांशिका अविभक्ता तावत्तामपि ग्रहीतुं नेच्छन्ति। द्वितीयपदमाहगेलनमाईसुय कारणेसु, मादिप्पसंगो ण य सव्वे गीता। गिण्हंति पुंजा अवरेडियातो, तस्सऽण्णतो वा वि विरेडियाओ॥३६७।। ग्लानत्वावमौदर्यादिषु कारणेषु संस्तरणाभावे मा प्रथमत एव शय्यातरपिण्डग्रहणे अतिप्रसङ्गो भवेदिति कृत्वा न चैते सर्वेऽपि गीतार्था अतः प्रथममविरक्तादन्यैः समं साधारणान्पुञ्जान् ततोऽन्यस्मादपि विरक्तात्तस्य सागारिकस्य सत्कान् पुञ्जान् गृह्णन्ति। बृ० 2 उ० (चैत्यवक्तव्यता पूया' शब्दे पञ्चमभागे गता।) शय्यातरपिण्डस्तीर्थकृभिः प्रतिक्रुष्ट इति शय्यातर . पिण्डद्वारमाह-- तित्थंगरपडिकुट्ठो, आणाअण्णात उग्गाण सुज्झे। अविमुत्ति अलाघविता, दुल्लभसेज्जा विउच्छेदो॥३०१।। आद्यन्तवर्जमध्यमविदेहजैश्व तीर्थकरैराधाकर्म कथंचित्कर्तुमनुज्ञातम्, पुनः शय्यातरपिण्डस्तु स्तैरपि प्रतिकुष्ट इति कृत्वा वर्जनीयोऽयम् ‘आण' त्ति तं गृह्णता तीर्थकृतामाज्ञा कृता न भवति 'अण्णाये' ति यत्र स्थितस्तत्रैव भिक्षां गृह्णता आज्ञा तेषां सेविता न स्यात्,'उग्गमा न सुज्झे' त्ति-आसन्नादिभावतः पुनःपुनस्तत्रैव भैक्षपानकादिनिमित्तं प्रविशत उद्गमदोषा न शुद्धयेयुः स्वाध्यायश्रमणादिना च प्रीतः शय्यातरः क्षीरादिस्निग्धद्रव्यं ददाति / तच्च गृह्णतोऽविमुक्तिगाद्धाभावो न कृतः स्यात्, शय्यातरतत्पुत्रभातृबन्धुतादिभ्यो बृह्यकरण स्निग्धाहारं च गृह्णतः उपकरणशरीरयोलाघवं न स्यात्, तत्रैव वाऽऽहारादि गृह्णतः शय्यातरवैमनस्यादिकरणात् शय्या दुर्लभा स्यात्, सर्वथा तद्वयवच्छेदो वा स्यात्, ततस्तत्पिण्डो वर्जनीयः। अथ द्वितीयपदमाहदुविहे गेलणम्मि, निमंतणे दव्वदुल्लभे असिवे। ओमोदरियपओसे, भए य गहणं अणुण्णातं // 302 / / द्विविधे-अगाढानागाढम्लानत्वे शय्यातरपिण्डोऽपि ग्राह्यः। तत्रागाढे, क्षिप्रमेव, अनागाढे पश्चकपरिहाण्या मासलधुके प्राप्ते सति निमन्त्रणे शय्यातरनिर्बन्धे सकृत् गृहीत्वा पुनः पुनः प्रसङ्गो निवारणीयः। दुर्लभे च क्षीरादिद्रव्ये अन्यत्रालभ्यमाने, तथा अशिवे अवमोदयें राजप्रद्वेधे तस्करादिभये च शय्यातरपिण्डस्य ग्रहणमनुज्ञातम। अत्र दुर्लभद्रव्यग्रहणविधिमाहतिक्खुत्तो सक्खेत्ते, चउद्दिसिं जोयणम्मि कडजोगी।