________________ सागारियपिंड 621 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड कालेन च। द्वितीये कारापणे त एव चत्वारो गुरवस्तपागुरुकाः, तृतीय अनुमोदनालक्षणस्थाने त एव चतुर्गुरुकाः कालगुरवो भवन्ति। किंचअम्हच्चयं छूढमिणं किमट्ठा, तं केण उत्ते कहिते जतीहिं। ते चेव तोयादिपवत्तणेया, असिट्ठतेणेव असंखडादी॥३२६।। अस्मदीयं तदिद द्रव्यं किमर्थ केनान्यत्र प्रक्षिप्तम्, इत्थं संखडिकारिभिः साक्षेपमुक्तो रक्षपालो ब्रवीति- यतिभिरिदमेकत्र मीलितम्, एवं कथिते सति त एव स्पर्शादय उदकस्पर्शनभण्डनादयो दोषाः। अथ ते भद्रकास्ततः साधुहस्तेन पवित्रीभूतमिदमिति मत्वा प्रवर्तनं कुर्युः / अथासौ रक्षपालो न कथयति ततोऽशब्द-अकथिते तेनैव रक्षपालेन समं संखड कुयुः / आदिशब्दाद्वधो वा बन्धं वा ते तस्य कुर्वन्ति / यत एते दोषाः ततो नासंसृष्ट कर्त्तव्यं कारयितव्यं क्रियमाणमनुमोदयितव्यं चंति। निसृष्टमसंसृष्टमपि गृहीत्वा समुद्दिश्य च व्रजन्ति, तदभावे अन्त-- वोटकाभ्यन्तरे वर्तमानमुभयमपि प्राघूर्णकाः साधवो गृह्णन्ति / प्रथम संसृष्टं तदप्राप्ती च असंसृष्टमपीत्यर्थः / कुत इत्याह-तथैवंविधे प्राघूर्णकानां ग्रहणे प्रसङ्गादयो दोषाः भद्रकमान्तकृताः पुनर्गहणाभावान्न सन्ति / तन्निश्रया भूयः सखडीकारापणम आदिशब्दात-निष्काशनादिपरिग्रहः / अथ 'संसट्टाणुन्नायं' इत्यादिपदानां भावार्थ गाथात्रयेणाहजो उ महाजणपिंडे-ण मेलितो बाहि सागारियपिंडो। तस्स तहिं अपभुत्ता, ण होति दिटे वि अवियत्तं / / 323|| जं पुण तेसिं चिय भा-यणेसु अविमिस्सियं भवे दव्वं / तं दिस्समाणगहियं, करेन्ज अप्पत्तियं पहुणो // 324|| जं पुण तेण अदिढे, दुघाय गहणं तु होति संसहे। तहियं ताणि कहेजा, ण याविण य आयरो तत्थ / / 325|| यस्तु सागारिकपिण्डो महाजनपिण्डेन सह वाटका बहि मीलितः स साधूना कल्पते / कुत इत्याह- तस्य सागारिकस्य तत्राप्रभुत्वात्, महाजनस्यैव च प्रभुत्वात् / दृष्टऽपि सागारिकस्य नाप्रीतिक भवति / यत्पुनद्रव्यं तेषामेव शय्यातरमानुषाणां भाजनेष्विति मिश्रितमसंसृष्टं भवति तत् दृश्यमानं गृही संस्थापयेदिति भावः। यदा-साधुभिरिद पवित्रीकृतमिति नत्वा भद्रकास्तस्यान्नादेः स्वगृहे स्थापन कुयुः / अथ ते प्रान्ताः ततो घातं या बन्ध वा कुपिताः सन्तः संयतानां कुर्युः / एते तावत स्वयंकरणे दोषा अभिहिताः। अथ स्वयं संसृष्ट कर्तुमरामर्थाः अन्यैः कारयन्ति, यो वा कोऽप्यन्यत्प्रक्षिपति तमनुमोदयन्ति तत इमे दोषाःकारावणमन्नेहिं, अणुमोदणउग्गमादिणो दोसा। दुविहे वतिक्कमम्मि, पायच्छित्तं भवे तिविहं // 326 / / अन्यैः कारापणे कुर्वत वा अनुमोदने ऊष्मादयो दोषा भवन्ति, ऊप्मा नाम-तेनात्युष्णद्रव्येण तस्य रागिणो हस्तादौ परितापः। आदिशब्दाद्यदि द्रव्यमसो तत्र प्रक्षिपति स तेन सहासंखडं कुर्यात्, तस्मात् मदीयं स्पृशत्येवमादला दोषाः / अव च द्विविध व्यतिक्रमे लौकिकलोकोत्तरिकमर्यादातिक्रमरूपे प्रायश्चित्तं त्रिविधं भवति। तथैकं स्वयं करणे, द्वितीयं कारापणे, तृतीयमनुमताविति। इदमेवोत्तरार्द्ध व्याचष्टे-- लोउत्तरं च मेरं, अतिचरई लोइयं च मेलेत्ता। अहवा सयं परेहि य, दुविहा उ वतिक्कमो होति॥३२७|| पढमिल्लुगम्मि ठाणे, दोहि वि गुरुगातवेण कालेणं / वितियम्मि य तव गुरुगा, कालगुरू होंति ततियम्मि।।३२८|| | सागारिकचोलकमितरेषां चोलकैः समं मीलयन लोकोत्तरिकी भर्यादाम "न कल्पते सागारिकपिण्डोऽसंसृष्टः कर्तुमिति भगवदा - लक्षणां'' लौकिकी च न मीलनीया अरमा कं चोल्लका इत्येवंरूपां मर्यादामतिचरति-अतिक्रामतीत्यर्थः / अथवा-स्वयंकरण परश्व क्रियमाणस्य रवादनमित्येवं द्विविधो व्यतिक्रमो भवति तत्र प्रथमस्थाने स्वयंकरणलक्षणे चत्वारो गुरुकाः, द्वाभ्यामपि गुरुकाः, तद्यथा-तपसा अथ द्वितीयपदमाहअद्धाणणिग्गयादी, पविसंता वावि अहव ओमम्मि। अणुमोदणकारावण, पभुणिक्खंतस्स वा करणं // 330 / / अध्वना निर्गता: आदिशब्दाद- अशिवादिनिर्गताः, अध्वनि वा प्रविशन्तः, अथवा--अवमौदर्ये वर्तमानाः संसृष्ट पिण्ड कुर्वतः अनुमोदनं ततः कारापणमपि प्रतिसेवन्ते / यो वा प्रभुर्बलवान् राजगणसम्मतो वा निष्क्रान्तः- प्रतिपन्नदीक्षितस्ततः स्वयमपि करणं भवतीति संग्रहगाथासमासार्थः / अथ विस्तरार्थोऽभिधीयते-साधवो विप्रकृष्टादध्वनो निर्गतास्तं वा प्रविशन्तोऽवमौदर्य वा अन्यत्र पर्याप्तमलभमानास्तत्सागारिकसत्कं द्रव्यं स्निग्धं शरीरोपष्टम्भकं मत्वा प्रथमं तावदन्यं संसृष्ट कुर्वन्तमनुमादयन्ति। अथान्यः संसृष्ट कुर्वन्न प्राप्यतेततः कारयेयुरपि। कथमित्याहपुराण सागं च महत्तरं वा, अन्नं व गाहेति तहिं च वोहुँ। सागारिओ वा वि विगोवितो जो, सपिंडमण्णेसु तु संदधाति॥३३१|| पुराण-पश्चात्कृत , तदप्राप्तौ प्रतिपन्नाणुव्रतं श्रावक, तदभावे यस्तत्र महत्तरस्तमन्यं वा प्रमाणभूतं तत्रान्यपिण्डेषु सागारिकपिण्ड प्रक्षेप्नु ग्राहयन्ति-प्रज्ञापयन्तीत्यर्थः / यो वा सागारिक्रो विकोविदोविशेषेण साधुसमाचारीकुशलस्स स्वकीय पिण्डमन्येषु संदधातिमिश्रयतीत्यादि। संमिस्सियं वाऽवि अमिस्सियं वा, गिण्हति गीता इतरे विमिस्सं। कारेंतदिटुं च अगोवितेसु, दि8 व तप्पच्चयकारि गीता / / 332 / / यदि सर्वेऽपि गीतार्थाः ततः सन्मिश्रितंसागारिकपिण्डंगृह्णन्ति नाससृष्टम्। अथवा-ससृष्टन प्राप्यते विकोविदाश्च गीतास्तत्रन सन्तिततोऽदृष्ट-यथा