________________ सागारियपिंड 615 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड सर्वेषामपि तेषा तीर्थकृतां तत्परिहारिणां शय्यातरपिण्डप्रतिषेधकारिणामाज्ञा तत्पिण्ड गृह्णता न कृता भवति। तथा यवैव गृहे स्थितस्तत्रव भिक्षां गृह्ण तो न युज्यते-नघटते, न शुद्ध्यतीत्यर्थः / अज्ञातस्य तस्य यदुक्तं भैक्षग्रहणं तदज्ञातमिति व्युत्पत्तेः। अथ शुद्धिद्वारमाह-. बाहुल्ला गच्छस्स उ, पढमालियपाणगादिकज्जेसु। सज्झाय करण आ-ट्टियाकरण उग्गमेगतरे // 237 / / गच्छस्य यद वाहुल्य--साधूनां प्राचुर्य तस्माद्धेतोः प्रथमालिका-- पानकोषधादिकार्येषु पुनः पुनः प्रविशन्तस्तथा स्वाध्यायश्रवणेन करणेन च यथोक्तक्रियाकलापानुष्ठानेन आवर्तिता आवर्जिता उद्गमदोषाणामेकतरान कुयुः / (बृ०) अथ दुर्लभशय्याद्वारमाहभिक्खापयरणगहणं, दोगचं अण्ण आगमेण देमो उ। पयरण णत्थि ण कप्पति, असाहु तुच्छे य पण्णवणा / / 271 / / यस्यापि श्रेष्टिनो गृहे पञ्चशतिको गच्छो वर्षासुस्थितः / स च शय्यातरो गृहमनुष्याणामादिशति-यदि साधवो गृहात्तुच्छर्भाजनैर्निर्गच्छन्ति ततो महदमडल स्यात्, अतो दिने दिनेऽमीषां प्रथममेव भिक्षा दातत्या, ततस्ते साधवः सर्वेऽपि तस्मिन् गृहे प्रतिदिनं प्रथमतः प्रतरणभिक्षा गृह्णन्ति, ततश्च शय्यातरस्य कालान्तरेण दौर्गत्यदरिद्रता। अन्येषां च साधूनां तत्र गमनं श्रेष्टिनम् वदन्ति-याचते। स प्राह-विद्यत वसतिः पर न प्रयच्छामः / साधुभिरक्तः-किं कारणं न प्रयच्छति, स प्राह . प्रतरण प्रथमदातव्यभिक्षारूपं नास्ति। साधवो ब्रवते-न कल्पते अस्माकमचरण ग्रहीतुम / स प्रतिबुवते- असाधु-अमङ्गलमिदं यन्मम गृहात्तुच्छे जननिर्गच्छन्ति। ततस्तस्य साधुभिः प्रज्ञापना कृता आयुष्मन्निदमेव भवतः परममजलं यदेवं साधूनां वसतिरुपयुज्यते अनया हि दत्तया भवता सर्वमपि भक्तपानादिक दत्तमेव भवति / इत्थं प्रज्ञापितः स तेषां वसति प्रदत्तवान, एवं दुर्लभा शय्या भवति। अथ व्यवच्छेदद्वारमाहथल देउलिया ठाणं, सति कालं दह्र दट्ठु तहि गमणं / निग्गएँ बसही भंजेण", अण्णे उभामगा उद्धा / / 272 / / कस्यापि ग्रामस्य मध्ये स्थलम्, तत्र ग्रामे मिलित्वा देवकुलिका कारिता, तत्र साधवः सन्ति / ते च तत्रोचतरे देवकुले स्थितास्तत्काल भिक्षायां देवकुलं दृष्ट्वा दृष्ट्वा तत्र तेषु कुलेषु भिक्षार्थ गच्छन्ति तत्रैकमपि कुलं ते तां भिक्षां गृह्णन्ति समुद्धरन्ति, एवं च निर्विन्नाः सर्वेऽपि गृहस्थाः / ततो निर्गतेषु साधुषु वसतेर्देवकुलिकायास्तैर्भञ्जन क्रियते, माम् अन्येऽप्यागतास्तापयिष्यन्तीति। इतश्चान्यस्मिन्नीदृशे स्थलग्रामे अनेके साधवो देवकुलिकाया स्थिताः, ते च भगवन्तो निःस्पृहा वहिमि चोदभ्रामकभिक्षाचर्यां गच्छन्ति स्वाध्यायपराश्च तिष्ठन्ति। ततस्ते गृहस्था आवृत्ताः संभूय तान् साधून्निमन्त्रयन्ति / साधवो ब्रुवते-बालवृद्धादीनां कार्थ ग्रहीष्यामः, एवं घृतादिदुर्लभद्रव्यमपि सुलभं भवति। नच शय्याया ध्यवच्छदो जायते / गत दोषा वा के तस्येति द्वारम्। अथ कारणजाते कस्मिन् कल्पते इति द्वारगाथामाह दुविहे गेलणम्मी, निमंतणे दव्वदुल्लमे असिवे / ओमोयरियपओसे, भवे य गहणं अणुन्नायं / / 273 / / द्विविध- आगाढे अनागाढ च 1 ग्लानत्वे. तथा निमन्त्रणे 2 दुर्लभद्रव्ये 3 अशिव 4 अवमोदर्थे 5 प्रदेषे वा राजद्विष्ट 6 भये वा बोधिकस्तेनादिसमुत्थे 7 एवं सप्तसु कारणेषु शय्यातरपिण्डस्य ग्रहणमनुज्ञातम्। एष नियुक्तिगाथार्थः। साम्प्रतमेनामेव विवृणोतितिपरिरयमणागाढे, आगाढ़े खिप्पमेवगहणं तु। कजम्मि बंदिया जे,छिणंतिणय बिंति उ अकप्पं / / 274|| त्रिपरिरयं-- त्रीन वारान परिभ्रमणं तदनागाद अग्लानत्वे कर्त्तव्यं, यदि तथापि ग्लानप्रायोग्य न लभ्यते ततः परमेकपरिहाण्या मासलघुप्राप्ताः शय्यातरपिण्ड गृह्णन्ति। आगाढे तु ग्लानत्वे क्षिप्रमेव ग्रहण कार्यम्। तथा शय्यातरेण भवतपानमस्मद्गृहे गृहीत एवं वन्दितानिमन्त्रिताः सन्तो भणन्ति कार्ये समुत्पन्ने ग्रहीष्यामः नचब्रुवते युष्मदीयं भक्तपानमस्माकं न कल्पते। जंवा असहीणं तं,भणंतितं देहि तेण णे कर्ज। णिब्बंधे चेव सयं,घेत्तूण पसंगै वारेति॥२७५|| यद्वा यदद्रव्यं तस्य गृहे अस्वाधीनं नास्तीत्यर्थः, तद्भणन्ति; याचन्त इत्यर्थः / यथा अमुकं द्रव्यं प्रयच्छत तेनास्माकं गुरुतरं कार्यम् / अथ शय्यातरा निर्बन्धमतीवाग्रहं करोति ततः सकृद् एकवारं गृहीत्वा भूयः प्रसङ्ग निवारयन्ति। दुल्लभदव्वं च सिया, संभारघयादि घेप्पती तं तु। ओमसिवे पणगादिसु, जतिऊणमसंथरे गहणं / / 276 / / दुर्लभद्रव्यं वा संभारघृतादिक शय्यातरगृहे स्यात्, संभारो बहुद्रव्यसंयोगर-तत्प्रधान घृतं संभारघृतम् / आदिशब्दात् -शतपाकतैलादि, तच्च ग्लानादिनिमित्तं शय्यातरगृहे गृह्णन्ति अवमौदर्याऽशिवयोरसंस्तरण पञ्चकहान्या यतित्वा मासलघुप्राप्ताः शय्यातरकुले ग्रहणं कुर्वन्ति / उवसमणहूँ पदुट्टे, सत्थो जा लब्भते व ताणं व। अच्छंता पच्छण्णं, गेण्हति भये विएमेव / / 277 / / प्रद्विष्टस्य राज्ञ उपशमनार्थ तिष्ठन्तो, यद्वा- राज्ञा निर्विषया आज्ञप्ताः सन्तो यावतत्र सार्थो न लभ्यते तावत्प्रच्छन्नं तिष्ठन्तः शय्यातरकुले भक्तपानं गृहन्ति; मा पर्यटतो राजा वा राजकीया वा ईक्षेरन्निति कृत्वा, भयं बोधिकस्तेनादिप्रभवंतत्र बहिमिषु भिक्षां गन्तुं न शक्यते, स्वग्रामे च न लभ्यते। अत एवमेव शय्यातरकुले गृह्णन्ति। अथ कया यतनया ग्रहीतव्यम् इति द्वारमाहतिक्खुत्तो सक्खेत्ते, चउद्दिसिं मग्गिऊण कडयोगी। दव्वस्स य दुलभया, सागारियसेवणा दव्ये / / 278|| स्वक्षेत्रे सकोशयोजनाभ्यन्तरे स्वग्रामपरग्रामयोस्विकृत्वस्त्रीन् वारान् चतसृष्वपि दिक्षु 'पुट्ट ति' भैक्ष दुर्लभद्रव्यं वा मार्गयित्वा यदिन प्राप्नोति ततः कृतयोगी गीतार्थो द्रव्वस्य शुद्धमक्तपानादेः दुर्भलतां मत्वा सागारिकद्रव्यस्य सेवनाशय्यातरविषयो विधिः /