________________ सागारियपिंड 614 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड श्चत्वार इत्यष्ठविधास्तथा अशनादीनि वस्त्रादीनिशूय्यादीनि चेति त्रीणि चतुष्कानिद्वादश भवन्ति। तद्यथा-अशन १पान 2 खादिम 3 स्वादिम 4. वस्त्रं 5 पात्रं 6 कम्बल 7 पादप्रोञ्छनं व शूची६ पिप्पलको 10 नखच्छेदनक 11 कर्णशोधनक 12 चेति। तणडगलखारमल्लग-सेज्जासंथारपीढलेवादी। सिज्जातरपिंडो सो, ण होति सेहो य सो अहिओ // 256 / / तृणडगलक्षारमलकशय्यासस्तारकपीठलेपादिशब्दात-तत्प्रमुखा-- दिक च एव शय्यातरपिण्डो न भवति / यदि शय्यातरस्य पुत्रादिः क्षा वस्त्रपात्रसहितः प्रबजितुमुपतिष्ठते तदा सागारिकपिण्डो न भवति। अपरः प्राह- यदा निर्गन्तुकामैः पात्राद्युपकरणमुद्गाहितं तदा अशय्यातरः। अन्यो बूते यदा वसतेनिर्गता भवन्ति तदा, परो भणति यदासागारिकरयावग्रहा निर्गताः, एको ब्रूते-सूर्यागमे निर्गताना प्रथम-पौरुष्या गतायाम, अपरो ब्रूते-तृतीयस्याम्, तदन्यः प्राह यावदिवसं दिवससकाश्चतसः पौरुष्यस्तावतः कालादूर्ध्वमशय्यातरः। एते सर्वेऽप्यनादेशाः। सिद्धान्तः पुनरयम्आपुच्छिय उग्गाहिय, वसहीओ निग्गतोग्गहे एगो। पढमादीया दिवसं, वुच्छे वजेज्जऽहोरत्तं // 260 / / 'बुच्छे वज्जेज्ज होरत्त' ति यस्यां वसतौ उषितास्ततो यस्यां वेलायां निर्गताः तत ऊर्ध्वमहोरात्र यावद् गृहे अशनादिक वर्जयेयुः ततः परन्तु कल्पते, आपृच्छादिषु तु सागारिकावग्रहनिर्गताः तेष्वादेशेषु यदि कथमपि गमनविघ्नमुत्पन्नं ततो भूयोऽपि तरयामेव वसतौ स्थितेषु कथमशय्यातरो भवितुमर्हति? ये पुनः प्रथमादिप्रहरविभागेनाशय्यातरमिच्छन्ति तेषां सूर्यास्तमनविनिर्गताना रात्री प्रथमादिपौरुषीविभागेनाशय्यारः प्राप्नोति, लच्च न प्रयुज्यते। कुत इति चेदुच्यतेअग्गहणं जेण णिसि, अणंतरेगंतरे दुहिं च ततो। गहणं तु पोरिसीहिं चोदग एते अणादेसा / / 261 / / येन हेतुना निशि रजन्यामस्माकं भक्तयानादेरग्रहणं, तथा किं-चिदनन्तरमेकान्तरादिभिर्वा पौरुषीभिः शय्यातरपिण्डस्य ग्रहणमिच्छन्ति। हे नादक ! ते एते सर्वेऽप्यनादेशाः / आदेशः पुनरयम्- संध्यायां दिवा निर्गताना रजन्याश्चतुरो यामान शय्यातरस्ततः परं सूर्योद्गमे अशय्यातरः / एवं जघन्यतः उक्तम्। उत्कर्षतः पुनरित्थम्सूरत्थमनगयाणं, दोण्हं रयणीण अट्ट जाम भवे। देवसियमज्झ चउ दिण-णिग्गते बितियम्मि सा बेला / 262 / / सूर्यास्तमनसमये रात्रौ निर्गतानामेषां परं यं चाहोरात्रंशय्यातरो भवति, ततो द्वयो रजन्योरष्टौ यामाः दैवसिकाच, रजनीद्वयमध्यवर्त्तिनश्वत्वारो माः, एवं द्वादशानां यामानामन्ते उत्कर्षतः अशय्यातरो भवति / एष एक आदेशः / द्वितीयः पुनरयम् 'दिणनिग्गए बितियाम्स सा बेल' त्ति सूर्योदये दिवा यदि निर्गतास्तथा द्वितीये दिनेतस्यामेव वेलायां शय्यातरः एवमहोरात्र वर्जितं भवति / गतं शय्यातरः कदेति द्वारम्। अथ शय्यातरः कस्य परिहर्तव्य इति द्वारनिरूपणायाहलिंगत्थस्स उ वज्जो, तं परिहरतो व भुंजतो वा वि। जुत्तस्स अजुत्तस्सव, रसावणो तत्थ दिटुंतो / / 263|| लिङ्ग स्थस्य-साधुलिङ्गधारिणस्तं शय्यातरपिण्डं परिहरतो वा भुजानस्य वा साधुगुणैर्युक्तस्य वा अयुक्तस्य वा शय्यातरी वावर्जनीयः, तत्र रसापणो मद्यहट्टो दृष्टान्तः। यथामहाराष्ट्रदेशे रसापणे मद्य भवतु वा मा वा तथापि तत्परिज्ञानार्थं तत्र ध्वजो मध्ये अरोप्यते तं ध्वज दृष्ट्वा सर्वे भिक्षाचरादयः परिहरन्ति / एवमस्माकमपि साधुगुणैर्युक्तो वा भवतुमा वा परं रजोहरणध्वजो दृश्यते इति कृत्वा लिङ्गस्थस्यापि शय्यातरः परिहियते। अथ के दोषा इति द्वारमाहतित्थंकरपडिकुट्ठो, आणा अन्नायउम्गमें न सुज्झे। अविमुत्ति अलाघवया, दुल्लमसिज्जाएँ वुच्छेओ / / 264 / / तीर्थङ्करैः प्रतिकुष्टो निषिद्धः शय्यातरपिण्डः। अथ तं गृह्णातीति तेषामाज्ञा न कृता भवति 'अन्नाय' त्ति-आज्ञातोऽथ मासं निवासवशात् आज्ञास्वरूपतया नशुद्ध्यति प्रत्यासन्नतया तत्रैव पुनः पुनः भैक्षपानादिनिमित्तं प्रविशत उद्गमोऽपि न शुद्ध्यति / अविमुक्तिनामस्वाध्यायश्रवणादिना आवर्जितः शय्यातरो दुग्धदध्यादिप्रणीतं द्रव्यं ददाति, तद्ग्रहणलोलुपतया तद्गृहं न विमुञ्चति। अलाघवता तु विशिष्टाहारलाभेनोपचितगलकपोलतया शरीरलाघवं प्रचुरवस्त्रादिलाभेनोपकरणलाघवं चन भवेत्, दुर्लभाच शय्या भवति। येन किल शय्या दत्ता तेनाहाराद्यपि देयमिति भयाद्भूयः शय्यामगारिणो न प्रयच्छन्तीति भावः / व्यवच्छेदश्चविनाशः शय्यायाः क्रियते। अथवा-भक्तपानादिप्रतिषेधइह व्यवच्छेदशब्देनोच्यते, एष नियुक्तिगाथासमासार्थः। अथैनामेव प्रतिपदं विवृणोतिपुरपच्छिमवज्जेहिं, अविकम्मं जिणवरेहि लेसेणं / भुत्तं विदेहपच्छिय, ण य सागरियस्स पिंडो उ॥२६५।। पूर्वस्तीर्थकरः ऋषभस्वामी पश्चिमः श्रीमन्महावीरस्तद्वर्जे : अजितादिभिर्मध्यमजिनवरैर्विदेहजैः तीर्थकरैराधाकर्मादिलेशेन सूत्रादेशतो भुक्तं भोक्तुमनुज्ञातमिति भावः / नच-नैव सागारिकस्यानुज्ञातम् / इयमत्र भावना- मध्यमतीर्थकृताच ये साधवस्तेषां यस्यैव योग्यमाधाकर्म कृते तस्यैव न कल्पते, शेषाणां तु कल्पते इति, तैराधाकर्म भोजनमपि कथंचिदनुज्ञात न पुनः शय्यातरपिण्डः 'सेज्जायरपिंडवा, उब्भामे वाय पुरिसजिट्ने या किइकम्मस्स य करणा, चत्तारि अनाहिया कप्या।।१।।" इति तैर्वचनात्। अथाज्ञाद्वारमज्ञातद्वार चाहसव्वेसि तेसि आणा, तप्परिहारी ण गेण्हती ण कया। अण्णायं च ण जुञ्जति, तहिं वि तो गेण्हती तत्थ / / 266 / /