________________ सागारिय 611 - अभिधानराजेन्द्रः - भाग 7 सागारिय अत्र सूरिराहभण्णइ निंताण बहिं, बहिया दोसा बहूतरा हुँति / वासासु हरियपाणा, संजमें आयादकंठादी।।४६६।। भण्यते-अत्रोत्तरं दीयते-ऋतुबद्धे काले निर्गच्छतां तत्र यदि बहिबहुतरा दोषा अशिवायुपद्रवलक्षणा भवन्ति / वर्षाकाले निर्गच्छता संयमविराधना, आत्मविराधना / स तत्र यत् हरितकायोपमर्दन द्वीन्द्रियादिप्राणाक्रमाणं वा सा संयमे संयमस्य विराधना / कण्टकादिभिरात्मविराधना / तदेव छिन्ने काले तिष्ठता विधिरुक्तः / अथ कालच्छेदो न कृतः अथ च वर्षाकालो वर्तते, अथवा- ऋतुबद्धे काले बहिरशिवादि आगाढं कारणं तदा अन्यस्यां वसतो गन्तव्यं, न पुनः शय्यातरं प्रति किमपि वक्तव्यम्। अथान्या शुद्धा वसतिर्न प्राप्यते तदा विशोधिकोटिदुषितायां स्थातव्यम्, तरया अप्यलाभे अविशोधिकोटिदूषितायामपि स्थातव्यमिति।। सम्प्रति सागारिकावक्रयिकयोश्शय्यातरत्वचिन्तां कुर्वन्नाहसो चेव होइ, इतरो तेसिं वागंतु मोत्तु जइ दिन्नो। अह पुण सव्वं दिन्नं, तो देंतो वक्कयी इतरो॥५००।। उच्यते--शालगृहस्य वा अपद्वारिकाया वा अर्द्धत्रिभागो वा विक्रयेण दत्तशेष संयतानां दत्तम्, यथा-अत्र यूयं तिष्ठथेति, तत्र च साधव सर्वेऽपि, मान्ति स एव स्वामी शय्यातरो भवति / अथ पुनः तेन पूर्वस्वामिना सर्वमपिशालादि भाटकेन प्रदत्तं तदा निर्गच्छतः साधून दृष्ट्वा यदि वक्रयी ब्रूते मा निरच्छत यूयभहं युष्माकमवकाशं दास्यामि तर्हि सोऽवकाश ददानो वक्रयी इतर:-शय्यातरः। अह पुण एगपदेसे, भणेज अच्छह तहिन मायंति। वक्कति उबेति इत्थं, अच्छह नो खित्तभंडेणं // 501 / / अथ तं पूर्वस्वामी भणेत्, यथा-यूयमस्मिन्नेके प्रदेशे तिष्ठथ तत्र च साधो न मान्ति, नतोऽमातः साधून दृष्ट्वा तत्र वक्रयिकोऽनुकम्पया बूत-अत्र तिष्ठत यूय न किमपि नःअस्माक भाण्डेन क्षिप्तेन प्रयोजनम्। तहियं दो वितराऊ, अहवा गेण्हेज्ज णागयं कोइ। दुलह अञ्चग्यतरं, णाउ तहिं संकमइ तस्स / / 502 / / तत्रानन्तराक्ते प्रकारे द्वावपि शय्यातरौ / अथवा--कोऽपि चिन्तयति यदा भाण्डमेष्यति तदा बहवः क्रयिका भविष्यन्ति, ततोऽत्यर्धतरा महार्घशाला भविष्यति। यदि बहुकेनाऽपि अल्पेन दुःखेन लप्स्यते ततो दुर्लभामत्यर्घतरां च शाला ज्ञात्वा अनागते साधूना-मनागमनकाले एवं भाटकप्रदानेन गृह्णाति / एतच साधुभिरागतैतिम्, यथा- शाला भाटकेनामुकस्यायत्ता जाता। ततस्तं गत्वायाचन्त, सोऽपि ब्रूयातजाव नागच्छते भंडं, ताद अच्छह साहवो। एवं वक्कइतो साहू, भणंतो होइ सारितो / / 503|| यावनागरछति भाण्ड तावत्साधवो यूयं तिष्ठथ, एवं वक्रयिकशय्यातरी भवति। देसं दाऊण गतो, गलमाणं जइ छएज्ज वकाइतो। अण्णो अणुकंपाए, ताहे सागारितो सो सिं // 504 / / पूर्वस्वामी शालादेर्देशमेकं दत्त्वा क्वाप्यन्यत्र गतः, वर्षाकाले च स देशो गलति / ततस्तं गलन्तं प्रदेश वक्रयिकोऽन्यो वाऽनुकम्पया छादयति तदा स तेषां साधूना सागारिकः-शय्यातरः। एतदेव सविस्तर भावयतिमुत्तूणं साधूणं, गहियत्थो वा गहिउ पउसियम्मि। हेट्ठा उवरिम्मि ठिते, मीसम्मि पडालिववहारो॥५०५|| साधूनामवकाशं मुक्त्वा तेन पूर्वस्वामिना शय्यातरेण वक्रयोभाटक गृहीतः, गृहीत्वा च प्रोषितः / तस्मिन् प्रोषिते अधस्ताद्वक्रयिकस्य भाण्डमुपरिमाले साधवः, अथवा अधस्तात् शालायां स्थिताः साधवः उपरिमाले वक्रयिकस्य दत्तम् एतन्मिश्रमुच्यते / एवं मिश्रे रुपे मिश्रे स्थिताना यदा अधस्तात् शालायां साधव उपरिमाले बक्रयिकरथ भाण्ड तदा पडाली गलति, भाण्डस्योपरीति न काचित्साधूनां क्षतिः / अथ वक्रयिकस्य भाण्डमधस्तात् शालायाम्, उपरिमाले तिष्ठन्ति साधवः पडाली च गलति तदा वक्रयिकश्चिन्तयति उपरिमाले पडाली गलति तत्र साधूनां कष्टम, मम तु भाण्डमधस्तात् शालायां ततो न विनश्यतीति एवं चिन्तयित्वा पडाली न छादयति / तत्र यहान्योऽपि कश्चित् न छादयति तदा व्यवहारः कर्त्तव्यः। व्यवहारेण छादयितव्या इति। एतदेवाह-. हेट्ठाकयं वक्कइएण भंडं, तस्सोवरि वावि वसंति साहू। मंडं न मे उल्लइ मालबद्धे, नोतंछयंतम्मि भवे विवातो॥५०६|| अधस्तात् शालायां कृतं वक्रयिकेण भाण्ड, तस्य भाण्डस्यापरिमाले वसन्ति साधवः, ततो न मे भाण्डमस्मिन्मालबद्धे आर्यततेनेति गम्यते इति विचिन्त्य न तां पडाली छादयतीति भवेद्विवादोव्यवहारो जायते। कथमित्याहवक्कइयछएयव्वे, ववहारकयम्मिवक्कइंति। अकयम्मिय साहीणं, रेति तरंदाइयं वावि।।५०७।। यदि पूर्व वक्रयकाले एवं वागन्तिको व्यवहारः कृतः यः वक्रयिके छादवितव्यमिति तदा वक्रयिक साधवोऽनुकूलेन प्रतिकूलेन वा वचसा ब्रुवते, यथा-त्वया छादयितव्या पडालीति / अथ न कृतस्त-थारूपा वागन्तिकव्यवहारस्तत्राह-- अकृते यथोक्तरूपे वागन्तिक व्यवहार स्वाधीनं शय्यातर ब्रुवत, यथा-छादयतपडालीमिति। अथ स शय्यात्र: क्रापि प्रोषितो भवेत् तदा तस्य शय्यातरस्य दावाद वा गोत्रिणं बुवते.. मजयंते (अछज्जते) च दाऊणं, सयं सेजायरे घरं। अणुसट्ठाई अणिच्छंतं, ववहारेण छायए।।५०८।। अथ शय्यातर: माद्यति न छादयति तदा अन्यः कशिदयखंत, ततो ये न सा पडाली छादिता सोऽपि शय्यातरा भवति / अथान्यः कश्चित् छादयिता न विद्यते तदा शय्यातरः स्वयं गृहं दत्त्वा प्रमादेन नाच्छादयतीति अनुशिष्टिरनुशासनं क्रिय--