________________ सागारिय 610 - अभिधानराजेन्द्रः - भाग 7 सागारिय वसतेरन्यस्या अभावे बहिरपि निर्गच्छतामशिवादिक कारणं ततो न व्रजन्ति; किंतु-तत्रैव वक्रयशालादौ तिष्ठन्ति। तत्र यतनामाहएएहि कारणेहिं,ठायंताणं इमो विही तत्थ। छिंदंति तत्थ कालं, उदुबद्धे वासवासे वा / / 488|| एतैः- अनन्तरोदितरन्यवसत्यलाभे बहिरशिवादिलक्षण रतत्र वक्रयशालादौ तिष्ठतामयं वक्ष्यमाणो विधिः / तमेवाहतत्र कालं छिन्दति ऋतुबद्धे वर्षावासे वा। इयमत्र भावना ऋतुबद्धे शय्यातरं प्रति भण्यते-- यदि संपूर्ण मास ददासि, वर्षाकाले भण्यते- यदि चतुरो मासान ददासि तर्हि तिष्टामोऽथ न ददासि तर्हि न तिष्ठामः। एतदेवाहमासचउमासियं वा, न वि निच्छोढव्वॉ अम्ह नियमेणं। एवं छिन्नठियाणं, वक्कइतो आगतो हुन्जा // 486 / / ऋतुबद्धे काले मासं, वर्षाकाले चतुर्मासं नियमन वयं न निष्काशयितव्याः / एवं छिन्नकाले शय्यातरेण तथैव प्रतिपन्ने तिष्ठन्ति / तेषां च तथा तिष्ठता वक्रयिक:-क्रयेण ग्राही आगतो भवति। दिन्नो व सूनएणं, अहवा लोभा सयं पि देवाहि। अणुलोमिज्जइताहे, अर्देति अणुलोमें वक्कइतं / / 460|| शय्यातरो वरसतिंदत्वा प्रवसितः, पश्चात्पुत्रस्य समीपेक्क्रयी समागतः। स ब्रूते यत्र संयतास्तिष्ठन्ति तांभाटकेन प्रयच्छ, सा वसतिर्दत्ता सूनकेनपुत्रेण। अथवा-शय्यातरः प्रभूतभाटकलोमेन स्वयमपि वैकयिणो दद्यात, दत्त्वा च निष्काशयेत्। तत्र यद्यन्या वसतिलभ्यते तर्हि न तत्र स्थातव्यम्। अन्यत्र स धर्मकथया अनु-लोम्यते-अनुकुलः क्रियते / अथ स धर्मकथयाऽनुलोमो न भवति, तर्हि यस्तस्याऽर्हतो गरीयान् पितामहमातामहप्रभृतिकस्तेनानुलो-मीक्रियते। अथैवमपि स न ददाति स्थातुं तर्हि तस्मिन्नददति वैक्र-यिकमुक्तप्रकारेणानुलोमयेत्। तम्मिवि अति ताहे, छिन्नमछिन्ने वयंति उडुबद्धे। वासासुय ववहारो, उदुबद्ध कारणे जाते।।४६१|| तस्मिन्नप्यवक्रयिणि पूर्वप्रकारेणानुलोम्यमानेऽप्यददति ऋतुबद्धे काले छिन्नेवा परिपूर्णे अपरिपूर्ण वा अवधौ निगच्छन्ति / वर्षाकाले यद्यन्यः कोऽपि साधूनामनुकम्पको न विद्यते यो वसतिं प्रयच्छति तर्हि गत्वा राजकुले व्यवहारः कर्त्तव्यः, न केवलं वर्षासु किं तु ऋतुबद्धेऽपि कारणे जात सति कर्तव्यः। कारणजातमेव पृच्छतिकिं पुण कारणजातं, असिवोमादी उ बाहि होजाहि। एएहि कारणेहिं, अणुलोमऽणुसद्विपुव्वं तु / / 462 / / किं पुनः कारणजातं यद्वशात् ऋतुबद्धेऽपि काले व्यवहार आश्रीयते ? अशिवौमौदयांदिकमादिशब्दात्-म्लेच्छपरचक्रादिभयपरिग्रहः, बहिः कारणजातं भवेत / तत एतैः कारणैः ऋतुबद्धेऽपि काले पूर्वमनुशिट्याऽप्यनुलोमनं क्रियते।। कथं क्रियते इत्याह-- सगिं जपंति रायाणो, सगिं जपंति धम्मिया। सगिं जंपति देवा वि, तुं पिताव सगिं वद / / 463 / / सजल्पन्ति राजानः, सकृजल्पन्ति धार्मिकाः, सकृजल्पन्ति देवा अपि, त्वमपि तावत्सकृद्वद / ततः स्वयमुक्त्वा कथमकस्मादस्मान् निष्काशयसि। अणुलोमिए समाणे, तं वा अन्नं व जइ उ देजाहि। अण्णो वऽणुकंपाए, देजाही वक्कयं तस्स / / 4641 एवमुक्तप्रकारेणानुलोमिते सति तामन्यां वा यदि वसतिं दद्यात्। यदि वा-अन्योऽनुकम्पया तस्य वक्रय-भाटकं दद्यात्। अन्नं व देज वसहिं, सुद्धमसुद्धं च तत्थ ठायंति। असती फरुसा विजइ न णिमो दाऊण को तंसि / / 465|| अन्यां वा वसतिमन्योऽनुकम्पया दद्यात् किं विशिष्टामित्याह-शुद्धामशुद्धा वा शुद्धां विशुद्ध्य विशुद्धिकोटिरहिताम् शुद्धां विशुद्ध्य विशुद्धिकोटिदुषितां वा तत्र तिष्ठन्ति अथ स तामन्यां वा वसतिं न ददाति, नापि कोऽप्यन्यो भाटकं शुद्धामशुद्धा वसतिम, तदा असति एकस्याप्युक्तरूपस्य प्रकारस्थाभावे स परुष्यते परुषीक्रियते / कथमित्याह- त्वं छिन्नकाला वसतिं दत्त्वा संप्रत्यसंपूर्ण एव काले अस्मान्निष्काशयसि न निर्गच्छामः कस्त्वं वसतिं दत्त्वा सांप्रतमसि? "दत्त्वा दानमनीश्वर' इति वचनात्। अथ किञ्चिद्वक्तव्यं तर्हि राजकुले गच्छामः एवं परुषितो यदि तिष्ठति ततः सुन्दरम् / अथ न तिष्ठति तदा राजकुले गन्तव्यम्। तथा चाहरायकुले ववहारे, चाउम्मासं तु दाउ निच्छुभति। पच्छाकडो य तहियं, दाऊणमणीसरो होति / / 466 / / राजकुले गत्त्वा व्यवहारः क्रियते / कथमित्याह- चातुर्मासं दत्त्वा एषोऽस्मान्निष्काशयति / तत्र राजपुरुषैः "दत्त्वा दानमनीश्वरो भवति" इति न्यायमनुसरद्धिः पश्चात्कृतः। पच्छाकडो भणेज्जा, अच्छउ भंडइ इहं निवायम्मि। अह यं करेसि अण्णं. तुभं अहवा वि तेसिं तु ||497|| स उक्तप्रकारेण राजकुले पश्चात्कृतः सन् ब्रूयात्-इह यत्र यूयं तिष्ठथ तत्र निवाते भाण्डक्रयाणक तिष्ठतु; अन्यथा कोषिष्यति, युष्माकं पुनरन्या वसतिं करोमि। अथवा-तेषां क्रयाणकानां योग्यमन्यत् स्थानं करोमि। असती अण्णाते जं, ताहें उवेहा न पचणीयत्तं / ठायंति जत्थ जंपति, चोए कम्मादि तहि दोसा / / 468|| एवमुक्ते यदाऽन्या वसतिः प्राप्यते तदा तत्र गन्तव्यम्। अथान्या वसतिनास्ति तदा अन्यस्या वसतेरभावे उपेक्षा कर्त्तव्या। किमुक्तं भवति-- तदन्यां वसति क्रीत्वा ददाति अविशोधिकोटिकृतां वा तदा तत्रापि स्थातव्य; न पुनस्तत्रैवा स्माभिः स्थातव्यमित्याग्रहपरतया तस्य प्रत्यनीकत्वमुत्पादनीयम्। स हि प्रत्यनीकीकृतः सन् साधु-नामन्यवसतिदायकस्य वा प्रतिकूलमाचरेत्। अत्र चोदको जल्पति-यत्र तिष्ठन्ति साधवस्तत्र कर्मादयः --आधाकदियो दोषाः, आदि-शब्दान्मिश्रक्रीतादिदोषपरिग्रहः।