________________ सहाव 604 - अभिधानराजेन्द्रः - भाग 7 सहाववाई एवंलक्षणो यः स्वभाववादस्तस्यापत्तिः प्रसङ्ग स्तत्स्वभावात्कार्यात्पत्त्यभ्युपगमे चेद्यदि ब्रूषे आचार्य ! अवस्वभाववादापत्तौ को दोष? उच्यताम्-भण्यताम् / तदन्यवादाभावः- कालादिशेषकारणापलापः चेत- यदि ब्रूषे आचार्य ! न-नैव, तत्-परोक्तम् / कुत इत्याहतदन्यानपोहनात्-तस्मात्तत्स्वाभाव्याद्येऽन्ये कालादयस्तेषामनपोहनाद- अनिराकरणात, तेषामपि कारणत्वेनाभ्युपगमात। एतदेव भावयन्नाहकालादिसचिवश्वाय-मिष्ट एव महात्मभिः। सर्वत्र व्यापकत्वेन, न च युक्त्या न युज्यते / / 76|| कालादिसचिवश्व-कालादिसहायः पुनः अयम्-स्वभाव इष्ट एवसंमत | एव महात्मभिः-सिद्धसेनमल्लवादिप्रभृतिभिरस्मत्स्वयूथ्यः। / कथमित्याह-सर्वत्र कार्ये व्यापकत्वेन कास्न्यवृत्त्यो सम्मतिप्रभृतिशास्त्रेषु न चेष्टमात्रमेवेद कि तु युक्तियुक्तमपीत्याह- नवनैव युक्त्याउपपत्त्या न युज्यते किन्तु पुज्यत एव। तथाहितथात्मपरिणामात्तु, कर्मबन्धस्ततोपि च / तथा दुःखादि कालेन, तत्स्वभावादृते कथम् // 8 // तथात्मपरिणामात्तु-- तत्प्रकारात्मपरिणतेरेव कर्मवन्धः कर्मोपादानं संपद्यते ततोऽपि ध-कर्मबन्धाच तथा दुःखादि-तत्प्रकारसुखदुः खलक्षणं कार्यमुज्जृम्भते। कालेनग्रीष्मवर्षादिरूपेण तत्स्वभावा-दृते-तत्स्वभाव विना कथम्- केन प्रकारेण? नैवेत्यर्थः। तत्स्वाभाव्ये तुसतिरवपरिणामादेवोपात्तकर्मतथाविधकालबलेन सुखदुःखभागात्मा भवतीति। एवं च तत्स्वाभाव्याधीने सति सर्वस्मिन् कार्येवृथाकालादिवादश्चे-न्नतीजस्य भावतः। अकिंचित्करमेतच्चे-न्न स्वभावोपयोगतः / / 1 / / वृथा-विफलः कालादिवादस्तत्स्वाभाव्यविलक्षणकारणाभ्युपगमः चेद्-यदि ब्रूषे.न-नव एतद्यदुक्त परेण / कुत इत्याह- तद्रीजस्यकालादिबीजस्य तच्छक्तिरूपस्य भावतः सत्त्वात् तत्स्वाभाव्याधीनतायामपि कार्याणाम् अकिंचित्करम्- कार्याकारि / एतत्कार्यादि-- बीजं चेत्- यधुच्यते परेण न--नैद / एतत्कुत इत्याह- स्वभावोपयोगतः- स्वभावे सर्वभावाना कार्येषु स्वत एव प्रवर्त्तमाने उपयोगतः कालादिबीजाना सहकारित्वन व्यापारान्मृद इव घटपरिणता वक्रचीवरादीनामति। एतदेव भावयतिसामग्यः कार्यहेतुत्वं, तदन्याभावतोऽपि हि। तदभावादिति ज्ञेयं, कालादीनां नियोगतः // 12 सामाया:- समग्रसयोगलक्षणायाः कार्थहेतुत्व सामान्येन घटादिसाध्यनिमित्तत्वम् / तदन्याभावतोऽपि हि तस्य परिणामिकारणस्य यान्यन्यानि सहकारिकारणानि तेषामभावतोऽभावात् कि पुनः परिणामिहेतोरभाव इत्यपि हि शब्दार्थ / तदभावात्-कार्याभावात् इतिअस्मात्कारणात् ज्ञेयम्-अवगन्तव्यम्. प्रस्तुतमपि कार्य कालादीनां सहकारिणां नियोगतो-व्यापारात् तत्स्वाभाव्ये सत्यपि न पुनरन्यथेति / प्रस्तुतमेवाश्रित्याहएतचान्यत्र महता, प्रपञ्चेन निरूपितम्। नेह प्रतन्यतेऽत्यन्तं, लेश्तस्तूक्तमेव हि // 83|| एतच्च-एतत्पुनः सामग्या:--कालादिकायाःकार्यहेतुत्वम् / अन्यत्रशास्त्रवार्तादिसमुचयादिषु महता-वृहता प्रपञ्चेन निरूपित-चर्चित यतः ततो न नैवेह शास्त्र प्रतन्यते-विस्तार्यते अत्यन्तमतीवालेशतस्तुसंक्षेपेण पुनरुक्तमेव हि-दर्शितमेव हि / यो० बिं०। सहावफुल-त्रि०(स्वभावफुल्ल) स्वभावसिद्धे विकसिते, दश०१ अ०। सहाववाइ-पुं०(स्वभाववादिन्) अस्त स्वभावः करणत्वेनाशषस्य जगतः स्वभावः, स्वभाव इति कृत्वा; तेन हि जीवााजीवभव्यत्वमूर्त-त्वादीनां स्वरूपानुविधानात् इत्येवं स्वभावकारणिकवादिषु. सूत्र०१ श्रु०११ अ०१ स्था०। (पुण्यपापे अनभ्युपगच्छतः स्वभाववादिना मतं 'तज्जीवतच्छरीरवाइ(ण)' शब्दे 4 भागे 2172 पृष्ठे विस्तरतो गतम्।) इह सर्वे भावाः स्वभाववशादुपजायन्ते, तथाहि- मृदः कुम्भो भवति न पटादिः, तन्तुभ्योऽपि पट उपजायते न कुम्भादिः, एतच्च प्रतिनियतभवन न तथा स्वभावतामन्तरेण घटाकोटीसण्टङ्कमाटीकते, तस्मात् सकलमिदं स्वभावकृतमवसेयम्। अपिच-आस्तामन्यत् कार्यजातम् इह मुद्रपक्लिरपि न स्वभावमन्तरेण भवितुमर्हति, तथाहि-स्थालीधनकालादिसामग्रीसम्भवेऽपि न काङ्कटुकमुगाना पक्तिरुपलभ्यते, तस्माद्-- यद यद्भावे भवति यदभावे च न भवति तत्तदन्वय-व्यतिरेकानुविधायि तत्कृतमिति स्वभावकृता मुगपक्तिरप्येष्टध्या / ततः सकलमेवेद वस्तुजातं स्वभावहेतुकमवसेयमिति। नं०। यदाहुः स्वभाववादिनःइह सर्वे भावाः स्वभाववशादुपजायन्ते इति, तदपि प्रतिक्षिप्तमवगन्तव्यम्, उक्तरूपाणां प्रायस्तत्रापि समानत्वात्. तथाहि- स्वभावों भावरूपो वा स्यादभावरूपोवा? भावरूपोऽप्येकरूपोऽनेकरूपो वेत्यादि सर्व तदवस्थमेवात्रापि दूषणजालमुपढौकते / अपि च यः स्वो भावः स्वभावः, आत्मीयो भाव इत्यर्थः, स च कार्यगतोवा हेतु-भवेत् कारणगतो वा? न तावत्कार्यगतो, यतः कार्ये परिनिष्पन्ने सति स कार्यगतः स्वभावो भविष्यति, नानिष्पन्ने, निष्पन्ने च कार्ये कथं स तस्य हेतुः? यो हि यस्यालब्धलाभसम्पादनाय प्रभवतिस तस्य हेतुः कार्य चपरिनिष्पन्नतया लब्धात्मलाभम्, अन्यथा तस्यैव स्वभावस्याभाव-प्रसङ्गात्. ततः कथं स कार्यस्य हेतुर्भवति? कारणगतस्तु स्वभावः कार्यस्य हेतुरस्माकमपि सम्भतः, स च प्रतिकारणं विभिन्नस्तेन मृदः कुम्भो भवति न पादिः, मृदः पटादिकरणस्वभावाभावात् तन्तुभ्योऽपि पट एव भवति नघटादिः, तन्तूनां घटादिकरण स्वभावाभावात्। ततो यदुच्यते-- 'मृगः कुम्भ भव-- १--'कान' शब्दोद्रष्टव्यः।