________________ सव्वण्णु 561 - अभिधानराजेन्द्रः - भाग 7 सव्वण्णु प्रमाणान्तरसंवादतोऽवगमयति / तेन ग्रहोपरागादिवचनविशेषस्य धर्माऽधर्मसाक्षा कारिज्ञानपूर्वकत्वमपि सिद्धम, तत्सिद्धी सकलपदार्थसाक्षात् कारिज्ञानपूर्वकत्वमपि सिद्धिमासादयति ।नहि | धर्माधर्मयोः सुखदुःखकारणत्वसाक्षात्करणं सहकारिकारणाशेषपदार्थतदाधारभूतसमस्तप्राणिगणसाक्षात्करणमन्तरेण संभ-वति। सर्वपदार्थाना परस्परप्रतिबन्धादेकपदार्थसर्वधर्मप्रतिपत्तिश्च सकलपदार्थप्रतिपतिनान्तरीयका प्राक् प्रतिपादिता / अतो भवति सकलपदार्थसाक्षात्कारिज्ञानपूर्वकत्वसिद्धिरतो हेतोर्वचनविशेष-स्य / तत्सिद्धी च त प्रणेतुः सूक्ष्मान्तरितदूरानन्तार्थसाक्षात्कार्यतीन्द्रिय-। ज्ञानसम्पत्समन्वितस्य कथं न सिद्धिः। नाप्येतद्वक्तव्यम्। साध्योक्तिदावृत्तिवचनयोरनभिधानातन्यूनतानामाऽत्र साधनदोषः। प्रतिज्ञावचनेन प्रयोजनाभावात् / अथ विषयनिर्देशार्थ प्रतिज्ञावचनम् / ननु स एव किमर्थः। साधर्म्यवत्प्रयोगादिप्रतिप-त्यर्थः। तथाहि-असति साध्यनिर्देशे या वधनविशेषः स साक्षात्का-रिज्ञानपूर्वक इत्युक्ते किमयं साधर्म्यवान् प्रयोगः, उत वैधयेवा-निति न ज्ञायेत / उभयं ह्यत्राशक्येत वचनविशेषत्वन साक्षात्कारिज्ञानपूर्वकत्वे साध्ये साधर्म्यवान, असाक्षात्कारिज्ञानपूर्वकत्वेन वचनाविशेषत्वे साध्ये वैधय॑वानिति हेतुविरुद्धानेकान्तिकप्रती-तिश्च न स्यात् / प्रतिज्ञापूर्वके तु प्रयोगे शब्दविशेषः साक्षात्कारि-ज्ञानपूर्वकः शब्दविशेषत्वादिति हेतुभावः प्रतीयते / असाक्षात्का-रिज्ञानपूर्वको वचनविशेषत्वादिति विरुद्धता / चक्षुरादिकरणज-नितज्ञानपूर्वको वचनविशेषत्वादित्यनैकान्तिकत्वम्। हेतो व वरूप्यं न गम्येत / तस्य साध्यापेक्षया व्यवस्थितः। सति प्रतिज्ञानिर्देशेऽ-धयये समुदायोपचारात् साध्यधर्मी इति पक्ष इति तत्र प्रवृत्तस्य वचनविशेषत्वस्य पक्षधर्मत्वम्: साध्यधर्मसामान्येन च समानोऽर्थः सपक्ष इति तत्र वर्तमानस्य सपक्षे सत्त्वम्, न सपक्षोऽसपक्ष इत्यसपक्षेऽप्यसत्त्वं प्रतीयते तदिदमनलोचिताभिधानम् / तथाहि-यो वचनविशेषः स साक्षात्कारिज्ञानपूर्वक इति एतावमात्रमभि-धाय नैव कश्चिदास्ते, किन्तुहेलोर्धर्मिण्युपसंहारं करोति। तत्र यदि वचनविशेषश्चार्य नष्टपुष्ट्यादिविषयो वचनसंदर्भ इति ब्रूयात, तदा साधर्म्यवत्प्रयोगप्रतीतिः। अथासाक्षात्कारिज्ञानपूर्वकश्चेत्यभिदध्यात्,तदा वैधय॑वत् इति संबन्धवचनपूर्वकात्पक्षधर्मत्ववचनात् प्रयोगद्वयावगतिः, विवक्षितसाध्यावगतिश्च / हेतुविरुद्धानकान्ति-का अपि पक्षधर्मत्ववचनमात्रेण न प्रतीयन्ते तदा तु संबन्धवचन-मपि क्रियते तदा कथमप्रतीतिः / तथाहि-यो वचन विशेषः स साक्षात्कारिज्ञानपूर्वक इत्युक्ते हेतुरवगम्यते विधीयमानेनानूधमानस्य व्याप्तेः / यो वचन विशेषः सोऽसाक्षात्कारिझानपूर्वक इत्युक्त विरुद्धः। विपर्ययव्याप्तेः यो वचनविशेषः स चक्षुरादिजनित-ज्ञानपूर्वक इति अनैन्तिकाध्यवसायः व्यभिचारात्। तथा त्रैरुप्य-मपि हेतोर्गग्यत एव / यतो व्याप्तिप्रदर्शनकाले व्यापको धर्मः साध्य-तया अवगम्यते। यत्र तुव्याप्यो धर्मो विवादास्पदीभूते धर्मिण्युपसंहियते स समुदायैकदेशतया पक्ष इति तत्रोपसंहृतरय व्याप्यधर्म-स्य पक्षधर्मत्वावगतिः। सा च व्याप्तिर्यत्र धर्मिण्युपदयते स साध्यधर्म सामान्येन समानोऽर्थः सपक्षः प्रतीयत इति सपक्षे सत्त्वमप्यवगम्यते / सामर्थ्यात (च) हि व्यापकनिवृत्ती व्याप्यनिवृत्तिर्यत्रा-वसीयते सोऽसपक्ष इति असपक्षेऽप्यसत्त्वमपि निश्चीयते इति नार्थः प्रतिज्ञावचनेन। तदाह धर्मकीर्तिः यदि प्रतीतिरन्यथा न स्यात् सर्व शोभेत, दृष्टा च पक्षधर्मसंबन्धवचनमात्रात् प्रतिज्ञावचनमन्त-रेणापि प्रतीतिरिति कस्तस्योपयोगः। तदा च प्रतिज्ञावचन नैरर्थ-क्यमनुभवति तदा तदादृत्तिवचनस्य निगमनलक्षणस्य सुतरामनुपयोग इति न प्रतिज्ञाद्यवचनमपि प्रस्तुतसाधनस्यन्यूनतादोषः, केवल तत्प्रतिपाद्यस्यार्थस्य स्वसाध्याविनाभूतरय हेतोः स्वसाध्यधर्मिण्युपसंहारमात्रादेव सिद्धत्वात् / अर्थादापन्नस्य स्व-शब्देन पुनरभिधानं निग्रहस्थानमिति प्रतिज्ञादिवचनं वादकथाया क्रियमाणं तद्वक्तुर्निग्रहमापादयति उपनयवचनं तु हेतोः पक्षधर्म-त्वप्रतिपादनादेवलब्धमिति तस्यापि ततः पृथक प्रतिपादने पुन-रुक्ततालक्षण एव दोष इति न तदनभिधानेऽपि न्यूनं साधनवा-क्यम्, ततः सर्वदोषरहितत्वात्साधनवाक्यस्य भवत्यतः प्रकृत-साध्यसिदिः / स्वसाध्याविनाभूतश्च हेतुः साध्यधर्मिण्युपदर्शयितव्यो वादकथायामित्यभिप्रायवता आचार्येण गाथासूत्रावय-वेन तथा-भूतहेतुप्रदर्शन कृतमिति / तथाहि- समयविशासनम् इत्यनेन गाथासूत्रावयववचनेन स्वसाध्यव्याप्तस्य हेतोः साध्य-धर्मिण्युपसंहारः सूचितः। हेतोश्च स्वसाध्यव्याप्तिः प्रमाणतः सर्वोपसंहारेण प्रदर्शनीया। तच्च प्रमाणं व्याप्तिप्रसाधकं कदाचित् साध्यधर्मिण्येव प्रवृत्तं ता तस्य साधयति, कदाचित् दृष्टान्तधर्मि-णि / यत्र हि सर्वमनेकान्तात्मक सत्त्वादित्यादौ प्रयोगे न दृष्टा-न्तधर्मिसद्भावः, तत्र व्याप्तिप्रसाधकं प्रमाण प्रवर्त्तमान साध्य-धर्मिण्येव सर्वोपसंहारेण हेतोः स्वसाध्यव्याप्ति प्रसाधयति / यत्र तु प्रकृतप्रयोगादौ दृष्टान्तधर्मिणोऽपि सत्त्व तत्र दृष्टान्तधर्मिण्यपि प्रवृत्तं तत्प्रमाणं सर्वोपसंहारेणैव तस्याः प्रसाधकमभ्युपगन्तव्यम् / अन्यथा दृष्टान्तधर्मिणि हेतोः स्वसाध्यव्याप्तावपि साध्यधर्मिणि तस्य तदव्याप्ती न ततस्तत्र तत्प्रतिपत्तिः स्यात् / दृष्टान्तधर्मिण्येव तेन तस्य व्याप्तत्वात,बहियाप्त विद्यमानाया अपि साध्यधर्मिणि साध्यप्रति-पत्तावनुपयोगात् सादृश्यमात्रस्याकिञ्चिकरत्वात् / अन्यथा शुक्लं सुवर्ण सत्त्वाद्रजतवदित्यत्रापि शुक्लत्वप्रतिपत्तिः स्यात्। अथात्र पक्षस्य प्रत्यक्षबाधन, प्रत्यक्षबाधितकर्मनिर्देशान-न्तरप्रयुक्तत्वेन हेतोः कालात्ययापदिष्टत्वं वा दोषः / तदयुक्तम्। बाधाऽविनाभावयोर्विरोधात्। तथाहि-सत्येव साध्यधर्मिणि साध्ये हेतुर्वर्तत इति तस्यतदविनाभावः, तत्प्रतिपादितसाध्य-धर्माभावश्व प्रमाणतो बाधा। साध्यधर्मभावाऽभावयोश्चैकत्र धर्मिण्येकदा विरोध इति नैतदोषादस्य साधनस्य दुष्टत्वम्, किन्तु साध्यधर्मिणि साध्यधर्माविनाभूतत्वेनानिश्चयः / स च बहिव्याप्तिमात्रेण हेतोः साध्यसाधकत्वाभ्युपगमेऽन्यत्रापि समान इति नानुमानात्वचिदपि साध्यनिश्चयः स्यात्। अतो दृष्टान्तधर्मिणि प्रवृत्तेन प्रमाणेन व्याप्त्या हेतोः स्वासाध्याविनाभावो निश्चयः / स च निश्चिताविनाभावो यत्र धर्मिण्युपलभ्यते तत्र