________________ सव्वण्णु 560 - अभिधानराजेन्द्रः - भाग 7 सवण्णु तथा भतज्ञानपूर्वकत्वं वबनविशेषस्य सिद्धम् / अनुगानादिज्ञानादपि स्वविषयाविसंवादिवचनविशेषरय संभवात् / नच तथाभूतज्ञानवान् सर्वज्ञो भवद्भिरभ्युपगम्यत इत्येतद्हृदि कृत्वाऽऽह सूरि:- "कुसमयविसासणं'' इति / सम्यक् प्रमाणान्तराविसंवादित्वेनेयन्तेपरिच्छिद्यन्ते इति समयाः, नष्ट मुष्टिचिन्तालाभालाभसुखासुखजीवितमरणग्रहोपरागमन्त्रौषधशक्त्यादयः पदार्थाः, तेषां विविधमन्यपदार्थकारणत्वेन कार्यत्वेन चानेकप्रकार शासनं प्रतिपादकम्; यतः शारानं कु:पृथ्वी तस्या इव। अयमभिज्ञायः-ज्ञत्वप्रमेयत्वादेरनेकप्रकारस्य प्रतिपादितन्यायेन सर्वज्ञसत्त्वप्रतिपादकस्य हेतोः सद्भावेऽपि तत्कृतत्वेन शासनप्रामाण्यप्रतिपादनार्थ सर्वज्ञोऽभ्युपगम्यते, तस्य चान्यतो हेतोः प्रतिपादनेऽपि तदागमप्रणेतृत्वं हेत्वन्तरात्पुनः प्रतिपादनीयं स्यादिति हेत्वन्तरमुत्सृज्य प्रतिपादनगौरवपरिहारार्थ वचनविशेष-लक्षण एव हेतुस्तत्सद्भावावेदक उपन्यसनीयः। स चानेन गाथासूत्रावयवेन सूचितः / अत एव संस्कृत्य हेतुः कर्त्तव्यः। तथाहि-यो यद्विषयाविसंवाद्यलिङ्गानुपदेशानन्वयव्यतिरकपूर्वको वचन विशेषः, स तत्साक्षात्कारिज्ञानविशेषप्रभवः। यथाऽरमदादिप्रवर्तितः पृथ्वी काठिन्यादिविषयस्तथाभूतो वचनविशेषः। नष्टमुष्टिविशेषादिविषयाविसंवाद्यलिङ्गानुपदेशानन्वयव्यतिरेकपूर्वकवचनविशेषश्चायं शासनलक्षणोऽर्थ इति। न चात्राविसंवादित्वं वचनविशेषत्वलक्षणस्य हेतोविशेषणमसिड्म / नाष्टमुष्ट्यादीनां वचनविशेषप्रतिपादितानां प्रमाणान्तरसस्तथैवोपलब्धे-- रविसंवादसिद्धेः। योऽपि क्वचितचनविशेषस्य तत्र विसंवादो भवता परिकल्प्यते, सोऽपि तदर्थस्य सम्यगपरिज्ञानात् सामग्रीवैकल्यान्न पुनर्वचनविशेषस्यासत्यार्थत्वात्। नच सामग्रीवैकल्यादेकनासत्यार्थत्वे सर्वत्र तथात्वं परिकल्पयितुं युक्तम्। अन्यथा प्रत्यक्षस्यापि द्विचन्द्रादिविषयस्य सामग्रीवकल्येनोपजायमानस्यासत्यत्वसंभवात् समग्रराामग्रीप्रभवस्याप्यसत्यत्वं स्यात् / अथाविकलसाभग्रीप्रभवं प्रत्यक्ष विकलसामग्रीप्रभवात्तस्माद्विलक्षणमिति नायं दोषः। तदत्रापि समानम् / तथाहि-सम्यगज्ञाततदर्थाद्वचनाद्यन्नष्टमुष्ट्यादिविषयं विसंवादिज्ञानमुत्पद्यते तत्सम्यगवगततदर्थवचनोद्भवाद्विलक्षणमेवा यथा च विशिष्टसामग्रीप्रभवस्य प्रत्यक्षस्य न वचिद् व्यभिचार इति तस्याविरांवादित्वम् तथाऽवगतसम्यगर्थवचनोद्भवस्यापि नष्टमुष्ट्यादिविषयविज्ञानस्येति सिद्धमत्राविसंवादित्वलक्षणं विशेषणं प्रकृतहेतोः। नाप्यलिङ्ग पूर्वकत्वं विशेषणमसिद्धम् / नष्टमुष्ट्यादीनामस्मदादीन्द्रियाविषयत्वेन तल्लिङ्गत्वेनाभिमतस्याप्यर्थस्यास्मदाद्यक्षाविषयत्वान्न तत्प्रतिपत्तिः / प्रतिपत्तौ वाऽस्मदादीनामपि तल्लिङ्गदर्शनाद्वचनविशेषमन्तरेणापि ग्रहोपरागादिप्रतिपत्तिः स्यात्। नहि साध्यव्यापलिग निश्चयेऽग्न्यादिप्रतिपत्तौ वचनविशेषापेक्षा दृष्टा, न भवति चास्मदादीना वचनविशेषमन्तरेण कदाचनापि प्रतिनिय-तदिक्प्रमाणफलाद्यविनाभूतग्रहोपरागादिप्रतिपत्तिरिति तथाभूत-वचनप्रणेतुरतीन्द्रियार्थविषयं ज्ञानमलिङ्गमभ्युपगन्तव्यमित्यलिङ्गपूर्वकत्वमपि विशेषणं प्रकृतहेता सिद्धम्। नाप्ययमुपदेशपरम्पयाऽतीन्द्रियार्थदर्शनाभावेऽपि प्रमाणभूतः प्रबन्धेनानुवर्तत इत्यनुपदेशपूर्वकत्वविशेषणासिद्धिरिति वक्तुं युक्तम्। उपदेशपरम्पराप्रभवत्वे नष्टमुष्ट्यादिप्रतिपादकवचनविशेषस्य वक्तुरज्ञानदुष्टाभिप्रायवचनाकौशलदोषैः श्रोतुर्वा मन्दबुद्धित्वविपर्थस्तबुद्धित्वगृहीतविस्मरणः प्रतिपुराधं हीयमानस्यानादी काले भूलतश्चिरोच्छेद एव रयात। तथाहि- इदानीमपि केचित् ज्योतिःशास्त्रादिकमज्ञानदोषादन्यथोपदिशन्त उपलभ्यन्ते, अन्ये सम्यगवगछन्तोऽऽपिदुष्टाभिप्रायतया, अन्ये वचनदोषादव्यक्तमन्यथा चेति।तथा श्रोतारोऽपि केचिन्मन्दबुद्धित्वदोषादुक्तमपि यथा वन्नावधारयन्ति, अन्ये विपर्यस्तबुझ्यः राम्रागुपदिष्टमप्यन्यथाऽवधारयन्ति, केचित् पुनः सम्यक्परिज्ञातभपि विस्मरन्तीत्येवमादिभिः कारणैः प्रतिपुरुष हीयमानस्य, एतावन्तंकालं यावदागमनमेव न स्याचिरोच्छिन्नत्वे नागच्छति च। तस्मादन्तराऽन्तरा विच्छिन्नः सूक्ष्मादिपदार्थसाक्षात्कारिज्ञानवता केनचिदभिव्यक्त इयन्त कालं याक्दागच्छतील्यभ्युपगमनीयमिति नानुपदेशपूर्वकत्वविशेषणासिद्धिः। नाप्यन्वयतिरेकाभ्यां नष्टमुष्ट्यादिकं ज्ञात्वा तद्विषयवचनविशेषप्रवर्तनं कस्यचित् संभवति, येनानन्वयव्यतिरेकपूर्वकत्वविशेषणासिद्धिः स्यात्। यतो नान्वयव्यतिरेकाभ्यां ग्रहोपरागौषधशक्त्यादयो ज्ञातुं शक्यन्ते / प्रावृट्समये शिलीन्ध्रोज्दवत् ग्रहोपरागादीनां दिक्प्रमाणफलकालादिषु नियमाभावात्। द्रव्यशक्तिपरिज्ञानाभ्युपगमेऽन्वयव्यतिरेकाभ्यां यावन्ति जगति द्रव्याणि तान्येकत्र मीलयित्वा एकस्य रसकल्कादिभेदेन, कर्षादिमात्राभेदन, बालमध्यमाद्यवस्थाभेदेन, मूलपत्राद्यवयवभेदेन, प्रक्षेपोद्धाराभ्यानेकोऽपि योगो युगसहरप्रेणापि न ज्ञातुं पार्यते, किमुतानेक इति कुतस्ताभ्यामौषधशक्त्यवगमः / तेन नानन्वयव्यतिरेकपूर्वकत्वविशेषणस्यासिद्धिः / नापि नष्टमुट्यादिविषयवचन-विशेषस्यापौरुषेयत्वात् विशिष्टज्ञानपूर्वकत्वस्यासिद्धरसिद्धः प्रकृतो हेतुः / अपौरुषेयस्य वचनस्य पूवमेव निषिद्धत्वात् / नाप्य-साक्षात्कारिज्ञानपूर्वकत्वेऽपि प्रकृतवचनविशेषस्य संभवादनैकान्तिकः / सविशेषणस्य हेतोर्विपक्षे सत्त्वस्य प्रतिषिद्धत्वात्। अत एव न विरुद्धः। विपक्ष एव वर्तमानो विरुद्धः। नचास्य पूर्वोक्त-प्रकारेणावगतस्वसाध्यप्रतिबन्धस्य विपक्षे वृत्तिसंभवः। अथ भवतु ग्रहोपरागाभिधायकवचनस्य तत्पूर्वकत्वसिद्धिः, अतो हेतोः। तत्र तस्य संवादात् / धर्मादिपदार्थसाक्षात्कारिज्ञानपूर्वकत्वसिद्धिस्तु कथम्? तत्र तस्य संवादाभावात्। न। तत्रापि तस्य संवादात् / तथाहि-ज्योतिः शारत्रादेहोपरागादिक विशिष्टवर्णप्रमाणदिग्वि-भागादिविशिष्ट प्रतिपद्यमानः प्रतिनियतानां प्रतिनियतदेशवर्त्तिनां प्राणिना प्रतिनियतकाले प्रतिनियतकर्मफलसंसूचकत्वेन प्रतिपद्यते। उक्तं चतत्र "नक्षत्रग्रहपञ्जर-महर्निशं लोककर्मविक्षिप्तम्। भ्रमति शुभाशुभमखिलं, प्रकाशयत् पूर्वजन्मकृतम् / / 1 / / " अतो ज्योतिः शारखं ग्रहो परागाऽऽदिक मिव धधर्मावपि