________________ सव्वण्णु 586 - अभिधानराजेन्द्रः - भाग 7 सव्वण्णु विषये व्यवहारिणां विकल्पनमन्तरेणापि वचनप्रवृत्तिरिति कथं ततः सर्वज्ञास्य छानस्थकज्ञानासजनं युक्तम् / यदप्युक्तम्-अतीतादेरसत्त्वात् कथं तज्ज्ञानेन ग्रहणम्, ग्रहणे वाऽसदर्थग्राहित्वात | तज्ज्ञानवान भ्रान्तः स्यादित्यादि / तदप्ययुक्तम् / यतः किमतीतादरतीतादिकालसंबन्धित्वेनासत्त्वम्, उत तज्ज्ञानकालसंबनिधत्वेन / यद्यतीतादिकालसंबन्धित्वेनेति पक्षः / स न युक्तः / वर्तमानकालसबन्धिल्वेन वर्तमानस्येव तत्कालसंबन्धित्वेनातीतादेरपि सत्त्वसंभवात् / अथातीतादेः कालस्याभावात् तत्संबनिधनोऽप्यभावः, तदसत्त्वं च प्रतिपादितं पूर्वपक्षवादिना-ऽनवस्थेतरेतराश्रयादिदोषप्रतिपादनेन / सत्यं प्रतिपादितं नच सम्यक / तथाहिनास्माभिरपरातीतादिकालसंबन्धित्वादस्यातीतादित्वम-'भ्युपगम्यते, येनानवस्था स्यात, नापि पदार्थानामतीतादित्वेन कालस्यातीतादित्वम, येनेतरेतराश्रयदोषः, कि तुस्वरूपत एवातीतादिसमयस्यातीतादित्वम / तथाहि-अनूभूत-वर्तमानत्वसमयोऽतीत इत्युच्यते, अनुभविष्यद्वर्त्तमानत्वश्चानागतः, तत्संबन्धित्वात् पदार्थस्याप्यतीतानागत्वे अविरुद्धे / अथ यथाऽतीतादेः समयस्य स्वरूपेणैवातीतादित्वं तथा पदार्थानामपि तद्भविष्यतीति व्यर्थस्तदभ्युपगमः / एतचाऽत्यन्तासङ्गतम् नोक-पदार्थधर्मस्तदन्यत्राग्यासञ्जयितुयुक्तः। अन्यथा निम्बाद-सिक्तता गुडादावष्यासञ्जनीया स्यात्, नच साऽत्रैव प्रत्यक्षसिद्धेत्यन्यत्रासजने तद्विरोध इत्युत्तरम् / प्रकृतेऽप्यस्योत्तरस्य समानत्वात / भवतु पदार्थधर्म एवातीतादित्वं, तथापि नास्माकमभ्युपगमक्षतिः। विशिष्टपदार्थपरिणामस्यैवातीतादिकालत्वे-नेष्टः, "परिणामवर्तनादि (वर्तना विधि) परापरत्व'' (प्रश मर० प्र० श्लोक 218) इत्याद्यागमात् / तथाहि-स्मरणविषवत्वं पदार्थ-स्यातीतत्वमुच्यते / अनुभवविषयत्व वर्तमानत्वं, स्थिरावस्था-दर्शनलिङ्गबलोत्पद्यमानकालान्तरस्थाय्यय पदार्थ इत्यनुमान-विषयत्वं धर्मोऽनागतकालत्वमिति। तेन यदुच्यते-यदि स्वत एव कालस्यातीतादित्वं, पदार्थस्यापि तत् स्वत एव स्यादिति परेण तत्सिद्धं साधितम् / तदतीतादिकालस्य सत्त्वान्न तत्कालसंब-धित्वे नातीतादे: पदार्थस्याऽसत्त्वम् / वर्तमानकालसबन्धित्वेन त्वतीतादेरसत्त्वप्रतिपादनेऽभिमतमव प्रतिपादितं भवति / नातीतकालसंबन्धित्वसत्त्वमेवैतज्ज्ञानकालसंबन्धित्वमस्माभिरभ्युपगम्यते। नचैतत्कालसंबन्धित्वेनासत्त्वे स्वकालसबन्धित्वेनाप्यतीतादेरसत्त्वं भवति / अन्यथैतत्कालसंबन्धित्वस्याप्यतीतादिकालसंबन्धित्वेनासत्त्वात् सर्वाभावः स्यादिति सकलव्यवहारोच्छेदः / अथापि स्यात्, भवत्वतीतादेः सत्त्व, तथापि सर्वज्ञज्ञाने न तस्य प्रतिभासः, तज्ज्ञानकाले तस्यासन्निहितत्वात्। सन्निधाने वा तज्ज्ञानावभासिन इव वर्तमानकालसंबन्धिनोऽतीता देरपि वर्तमानकालसंबन्धित्वप्राः / नहि वर्तमानस्यापि सन्निहितत्वेन तत्कालज्ञानप्रतिभासित्वं मुक्त्वाऽन्यद्वर्तमानकालसंबन्धित्वम्। एवमतीतादेस्तज्ज्ञानावभासित्वे वर्तमानत्वमेवेति वर्तमानमात्रपदार्थज्ञानवानस्मदादिवन्न सर्वज्ञः स्यात् / किंच-अतीता देस्तज्ज्ञानकालऽसन्निहितत्वेन तज्ज्ञानेऽप्रतिभासः / प्रतिभासे वा स्वज्ञानसंबन्धित्वेन तस्य ग्रहणात् तज्ज्ञानस्य विपरीतख्यातिरूपताप्रसक्तिः / एतदसंबद्धम् / यतो यथाऽस्मदादीनाम-सन्निहितकालोऽप्यर्थः सत्यस्वप्रज्ञाने प्रतिभाति। नचासन्निहितस्य तस्यातीतादिकालसंबन्धिना वर्तमानकालसंबन्धित्वं; नापि स्वकालसंबधित्वेन सत्यस्वप्रज्ञाने तस्य प्रतिभासनात् तदग्राहिणो ज्ञानस्य विपरीतख्यातित्वम्। यत्र हान्यदेशकालोऽर्थोऽन्यदेशकालसंबन्धित्वेन प्रतिभाति सा विपरीतख्यातिः। अत्र त्वतीतादिकालसंबन्ध्यतीतादिकालसंबन्धित्वेनैव प्रतिभातीति न तत्प्रतिभासिनोऽर्थस्य तत्कालसंबन्धित्वेन वर्तमानत्वं; नापि तद्ग्राहिणो विज्ञानस्य विपरीतख्यातित्वम् / तथा सर्वज्ञज्ञानेऽपि यदाऽतीतादिकालोऽर्थोऽतीतादिकालसंबन्धित्वेन प्रतिभाति, तदा कथ तस्यार्थस्य वर्तमानकालसंबन्धित्वम्, कथं वा तज्ज्ञानस्य विपरीतख्यातित्वमिति। यथा वा विशिष्टमन्त्रसंस्कृतचक्षुषामडगुष्ठादिनिरीक्षणेनान्यदेशा अपि चौरादयो गृह्यमाणान तद्दशा भवन्ति, नापि तज्ज्ञान तद्देशादिसंबन्धित्वमनुभवति, तथा सर्वविद्विज्ञानमप्यसन्निहितकालं यद्यर्थमवभासयति, स्वात्मना तत्कालसंबन्धित्वमननुभवदपि, तदा को विरोधः, कथं वा तस्यातीतादेरर्थस्य तज्ज्ञानकालत्वमिति / नच सत्यस्वप्रज्ञानेऽप्यतीताद्यर्थप्रतिभासे समानमेव दूषणमिति न तदृष्टान्तद्वारेण सर्वज्ञज्ञानमतीताद्यर्थना-हक व्यवस्थापयितु युक्तमिति वक्तुं युक्तम् / अवि संवादवतोऽपि ज्ञानस्य विसंवादविषये विप्रतिपत्यभ्युपगमे, स्वसंवेदनमात्रेऽपि विप्रतिपत्तिसद्धावादतिसूक्ष्मेक्षिकया तस्यापि तत्स्वरूपत्वास भवात्सर्वशून्यताप्रसगात, तन्निषेधस्य च प्रतिपादयिष्यमाणत्वादतो न युक्तमुक्तम्, अथ प्रतिपाद्यापेक्षयेत्यादि न भ्रान्तज्ञानवान् सर्वज्ञः कल्पयितुं युक्त इति पर्यन्तम्। यदप्युक्तम् -भवतु वा सर्वज्ञस्तथाप्यसौ तत्कालेऽप्यसर्वज्ञातुं न शक्यते इत्यादि / तदप्यसंगतम्। यतो यथा शकलशास्त्रार्थापरिज्ञानेऽपि व्यवहारिणा सकलशास्त्रज्ञ इति कश्चित्पुरुषो निश्चीयते; तथा सकलपदार्थापरिज्ञानेऽपियदिकेनचित् कश्चित् सर्वज्ञत्वेन निश्चीयते, तदा को विरोधः। युक्तं चैतत्। अन्यथा युष्माभिरपि सकलवेदार्थापरिज्ञाने कथं जैमिनिरन्यो वा वेदार्थज्ञत्वेन निश्चीयते / तदनिश्चये च कथं तद्व्याख्यातार्थानुसरणादग्रिहोत्रादावनुष्ठाने प्रवृत्तिरिति यत्किञ्चिदेतत् 'सर्वज्ञोऽयमिति ह्येतत्' इत्यादि। तदेवं सर्वज्ञसद्भा-वग्राहकस्य प्रमाणस्य ज्ञत्वप्रमेयत्ववचनविशेषत्वादेर्दर्शितत्वात् तदभावप्रसाधकस्य च निरस्तत्वात, ये बाधकप्रमाणगोचरतामा-पन्नास्तेऽसदिति व्यवहर्तव्या इति प्रयोगहेतोरसिद्धत्वात्, ये तु निश्चितासंभवबाधकप्रमाणत्वे सति सदुपलम्भकप्रमाणगोचरास्ते सदिति व्यवहर्त्तव्याः, यथोभयवाद्यप्रतिपत्तिविषया घटादयः, तथाभूतश्च सर्ववित इति भवत्यतः प्रमाणात्सवज्ञव्यवहारप्रवृत्तिरिति / अथापि स्यात् स्वविषयाविसंवादिवचनविशेषरय तद्विषयाविसंवादिज्ञानपूर्वकत्वमात्रमेव भवता प्रसाधितम् / नचैतावतानन्तार्थसाक्षात्कारिज्ञानवान् सर्वज्ञः सिद्धिमासादयति / सकलसूक्ष्मादिपदार्थसार्थसाक्षात्कारि-ज्ञानविशेषपूर्वकत्वे हि वचनविशेषस्य सिद्धे तज्ज्ञानवतः सर्वज्ञत्वसिद्धिः स्यात् / नच