________________ सव्वण्णु 588 - अभिधानराजेन्द्रः - भाग 7 सव्वण्णु त / यदप्यभ्यधायि। अथ युगपत्सर्वपदार्थवेदकं तज्ज्ञानमभ्युपगम्यते / तदा परस्परविरुद्धानां शीतोष्णादीनामेकज्ञाने प्रतिभासासंभवात; सभवेऽपीत्यादि। तदप्ययुक्तम् / यतः परस्परविरुद्धानां किमेकदाsसंभवः, किंवा संभवेऽप्येकज्ञानेऽप्रतिभासन भवता प्रतिपादयितुमभिप्रेतम / तत्र यद्याद्यः पक्षः स न युक्तः / जलाऽनलादीनां छायाऽ5तपादीनां चैकदा विरुद्धानामपि संभवात्। अथै-कत्र विरुद्धानामसंभवः तदाऽसंभवादेव नैकत्र ज्ञाने तेषां प्रतिभासो; न पुनर्विरुद्धत्वात् / विरुद्धानामपि तेषामेकज्ञाने प्रतिभाससंवेदनात् / एतेन विरुद्धार्थग्राहकस्य च तज्ज्ञानस्य न प्रतिनियतार्थग्राहकत्वं स्यादित्याद्यपि निरस्तम्। छायाऽऽतपादिविरुद्धार्थग्राहिणोऽपि ज्ञानस्य प्रतिनियतार्थग्राहकत्वसंवेदनात्। यचोक्तम्-यदि युगपत्सर्व-पदार्थग्राहकं तज्ज्ञानं तदैकक्षण एव सर्वपदार्थवेदनात् द्वितीयादिक्षणे किशिज्ज्ञ एव स स्यादित्यादि / तदप्यत्यन्तासबद्धम् / यतो यदि द्वितीयक्षणे पदार्थाना तज्ज्ञानस्य चा-भावः स्यात्, तदा स्यादप्येतत्, नचैतत्संभवति तथाऽभ्युपगमे द्वितीयक्षणे सर्वपदार्थाभावात्सकल-संसारोच्छेदः स्यात। यदप्यभ्यधायि / अनाद्यनन्तपदार्थसंवेदने तत्संवेदनरयापरिसमाप्तिरित्यादि। तदप्ययुक्तम् अत्यन्ताभ्यस्तशास्त्रार्थज्ञानस्येव युगपदनाद्यनन्तार्थग्राहिणस्तज्ज्ञानस्यापि परिसमाप्तिसंभवात् / अन्यथा भूतभविष्यत्-सूक्ष्मादिपदार्थग्राहिणः प्रेरणाजनितज्ञानस्यापि कथं परिसमाप्तिः। तत्राप्यपरिसमाप्त्यभ्युपगमे, 'चोदना भूतं भवन्त भविष्यन्तम्' इत्यादिवचनस्य नैरर्थक्य स्यादिति / यदपि, परस्थरागादिसंवेदने सरागः स्यादित्यादि। तदप्यसङ्गतम्। नहि परस्थरागादिसंवेदनादागादिमान् भवति / अन्यथा श्रोत्रियद्विजस्यापि स्वप्रज्ञानेन मद्यपानादिसंवेदनान्मद्यपानदोषः स्यात् / अथाप्यरसनेन्द्रियज तज्ज्ञानमिति नायं दोषः, तर्हि सर्वज्ञज्ञानमपि नेन्द्रियजमिति कथमशुचिरसास्वाददोषस्तत्रासज्येत / नच रागादिसंवेदनाद्रागीति लोक व्यवहारः, किन्त्वङ्गनाकामनाद्यभिलाषस्वसंविदितस्याशिष्टव्यवहारकारिणः स्वात्मस्वभावस्योत्पत्तेः / नचासो तत्रेति कथं स रागादिमान्। यदपि, अथ शक्तियुक्तत्वेन सर्वपदार्थवेदनमित्यादि / तदप्यचार / यथोपलब्धिलक्षणप्राप्ते सन्निहितदेशादावनुपलब्धेरपरमत्र नास्तीति इदानीं तनानामियत्ता निश्चयः, तथा सर्वज्ञरयापि स्वशक्तिपरिच्छदात् / अन्यथा घटादीनामपि क्वचित् प्रदेशेऽभावनिश्चयेऽपरप्रकारासंभवात्सकलव्यवहारविलोपः स्यात् अथ यावदुपयो गिप्रधानपदार्थजातमित्याद्यप्ययुक्तम्। सकलपदार्थज्ञत्वप्रतिपादनात्। अत एव''ज्ञा झये कथमज्ञः स्या-दसति प्रतिबन्धरि। सत्येव दाह्ये नह्यनिः, क्वचित् दृष्टो न दाहकः / / 1 / / " इति। अत्र यदुक्तम, किं सर्वज्ञत्वात्, अथ किश्चिज्ज्ञत्वादिति, नोभ-यथापि हेतुः / यदि तावत् सर्वज्ञत्वादिति हेत्वर्थः परिकल्प्यते, तदा प्रतिज्ञार्थकदेशो हेतुरसिद्ध एव / कथं हि तदेव साध्यं तदेव हेतुः। अथ किञ्चिज्ज्ञत्वादिति हेतुः, तदा विरुद्धता स्यात् / कथं हि किञ्चिज्ज्ञत्वं / सर्वज्ञत्वेन विरुद्ध सर्वज्ञत्वं साधयेत् / अथ ज्ञत्वमात्र हेतुः / तदाऽनैकान्तिकः।ज्ञत्वमात्रस्य किञ्चिज्ज्ञत्वेनाप्यविरोधा-दिति। तदपि निरस्तम्। सामान्येन सर्वज्ञत्वादित्यस्य हेतुत्वात्, विशेषेण तज्ज्ञत्वस्य साध्यत्वात्, सामान्यविशेषयोश्च भेदस्य कथञ्चित्प्रतिपादयिष्यमाणत्वात्। सामान्येन सर्वज्ञत्वस्य चानु-मानव्यवहारिणं प्रति साधितत्वात् एतेन सूक्ष्मान्तरितदूरार्थाः कस्यचित् प्रत्यक्षाः प्रमेयत्वादित्यत्र प्रयोगे प्रमेयत्वहे तोर्यद् दूषणमुपन्यस्त पूर्वपक्षवादिना तदपि निरस्तम् / सर्वसूक्ष्मान्तरितपदार्थानां व्याप्तिप्रसाधकेनानुमानप्रमाणेन वा एकेन सामान्यतः प्रमेयत्वस्य प्रसाधितत्वात् / यच्च प्रधानपदार्थपरिज्ञानं न सकल-पदार्थज्ञानमन्तरेण संभवतीति तत् सर्वज्ञ वचनामृतलवास्वादसंभ-वो भवतोऽपि कथञ्चित्संपन्न इति लक्ष्यते। तथाहि तद्वचः"जो एग जाणइ" (आचा० १श्रु० ३अ० 430 122 सू०) इत्यादि। तन्मतानुसारिभिः पूर्वचार्यरप्ययमर्थो न्यगादि-एको भावस्तत्त्वतो येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः / सर्वे भावाः सर्वथा येन दृष्टा, एको भावस्तत्त्वतस्तेन दृष्टः॥१॥ अस्या-यमर्थः-नासर्वविदा कश्चिदेकोऽपि पदार्थस्तत्त्वतो द्रष्टुं शक्यः / एकस्यापि पदार्थस्यानुगतव्यावृनधर्मद्वारेण साक्षात्पारपर्येण वा सर्वपदार्थसंबन्धि-स्वभावत्वात्। तत्रवभावावेदने च तस्यावेदनमेव परमार्थतः ततस्तज्ज्ञानं स्वप्रतिभासमेव वेनीति नार्थी विदितः स्यात्, केवलं तत्राभि मानमात्रमेव लोकस्य / अथ संबन्धिस्वभावता पदार्थस्य स्वरूपमेव न भवति, यत्केवलं प्रत्यक्षप्रतीत सन्निहितमात्रं स एव वस्तुस्वभावः। संवन्धिता तु तत्र परिकल्पि-तैव पदार्थान्तरदर्शन-संभवतया। तथा चोक्तम्"निष्पत्तेरपराधीन-मपि कार्य स्वहेतुना। संबध्यते कल्पनया, किमकार्य कथञ्चन?''||१|| इति। तदेतदयुक्तम् / एवं हि परिकल्प्यमाने स्वरूपमात्रसंवेदना दद्वैत-मेव प्राप्तम् ततः सर्वपदार्थाभावे व्यवहाराभावः। अथ व्यवहारोच्छेदभयात् पदार्थसद्भावोऽभ्युपगम्यते, तर्हि सर्वपदार्थसंबन्धिताऽपि साक्षात् पारंपर्येण च पदार्थस्वभावोऽभ्युपगन्तव्यः / अन्यथा साक्षात्पारंपर्येण वाऽन्यपदार्थजन्यजनकतालक्षणसंबन्धिताऽभ्युपगमे, तद्व्यावृत्त्यनुगतिसंबन्धिताऽनभ्युपगमे च पदार्थस्वरूपस्याप्यभावः तत्पदार्थपरिज्ञाने च तद्विशेषणभूता तत्संबन्धिताऽपिज्ञातैव। अन्यथा तस्य तत्परिज्ञानमेव न स्यात्, तत्परिज्ञाने च सकलपदार्थपरिज्ञानमस्मदादीनामनुमानतः, सर्वज्ञस्य च साक्षात् तज्ज्ञानेन सकलपदार्थज्ञानम्। लोकस्तु प्रत्यक्षेण कथञ्चित् कस्यचित् प्रतिपत्ता। तथाहि-धूमस्याप्यनिजन्यतया प्रतिपत्ती बाष्पादिव्यावृत्तधूमस्वरूपप्रतिपत्तिः, अन्यथा व्यवहाराभावः। तथा नीलादिप्रतिभासस्य बाह्यार्थसंबन्धितयाऽप्रतिपत्तौ बाह्यार्थाप्रति-पत्ती बाह्यार्थाप्रतिपत्तिरेव स्यात् / तस्मात् संबन्धितयैव पदार्थस्वरूपप्रतिपत्तिः। तच संबन्धित्वं प्रमेयमनुमानेन प्रतीयतेऽभ्यासदशायामरमदादिभिः,यत्र क्षयोपशमलक्षणोऽभ्यासस्तत्र तस्य प्रत्यक्षतोऽपि प्रतिपतिरिति कथं न प्रधानभूतपदार्थ वेदने सकलपदार्थवेदनम् / एकवेदनेऽपि सकलवेदनस्य प्रतिपादितत्वात् / विकल्पाभावेऽपि मन्त्राविष्टकुमारि-कादिवचनवन्नित्यसमाहितस्यापि वचनसंभवाद; विकल्पाभावे कथं वचनमित्यादि निरस्तम् / दृश्यते चात्यन्ताभ्यस्ते