________________ सव्वण्णु 587 - अभिधानराजेन्द्रः - भाग 7 सव्वण्णु नामावारकत्वादिस्वरूपंन ज्ञायेत नित्यत्वमाकस्मिकत्वं वा तेषां स्यात, तद्धेतूना वा स्वरूपापरिज्ञानं नित्यत्वं वा संभाव्येत, तद्विप-क्षस्य वा स्वरूपतोऽज्ञानम् अनभ्यासश्च स्यात्। तदेतन्न स्यादपि, यावता रागादीना ज्ञानावरणहेतृत्वेनावरणस्वरूपत्वं सिद्धम् नच तेषां नित्यत्वम्। तत्सद्भावे सर्वज्ञज्ञानस्य प्रतिपादयिष्यमाणप्रमाणनिश्चितस्याभावप्रसङ्गात् / नाप्याकस्मिकत्वम्. अत एव / न चैषामुत्पादको हेतुविगतः / मिथ्याज्ञानरय तजनकत्वेन सिद्धत्वात् / नच तस्यापि नित्यत्वम् / अन्यथाऽविकलकारणस्य मिथ्याज्ञानस्य भावे प्रबन्धप्रवृतरागादिदोषसद्धात् तदावृतत्वन सर्वविद्विज्ञानस्य भावः स्यादिति एव स दोषः / आकस्मिक त्वेऽपि मिथ्याज्ञानस्य हेतुव्यतिरेकणापि प्रवृतेरत - कार्यभूतरागादीनामपि प्रवृत्तिरिति पुनरपि सर्वज्ञज्ञानाभावोऽहेतुकस्य व मिथ्याज्ञानस्य देशकालपुरुषप्रतिनियमाऽभावोऽपि स्यादिति ने चेतनाचेतनवि-भागः नच तत्प्रतिपक्षभूतस्योपायस्यापरिज्ञानम् / मिथ्यात्वधिप-क्षस्वेन सम्यग्ज्ञानस्य निश्चितत्वात् / तदुत्कर्ष मिथ्याज्ञानस्यात्य-न्तिकः क्षयः / तथाहि-यदुत्कर्षतारतम्याद यस्यापचयतारतम्यं तस्य विपक्षप्रकर्षावस्थागमने भवत्यात्यन्तिकः क्षयः, यथाषण - स्पर्शस्य तथाभूतस्य प्रकर्षगमने शीतस्पर्शस्य तथाविधस्येव स-म्यग्ज्ञानोपचयतारतम्यानुविधायी च मिथ्याज्ञानापचयतरतमादिभाव इति तदुत्कर्षे ऽस्यात्यन्तिक क्षयसद्भावात् तत्कार्यभूतरागाानुत्पत्तेरावरणाभावः सिद्धः / रागादिविपक्षभूतवैराग्याभ्यासाद्वा रागादीनां निर्मूलतः क्षय इति कथं नावरणाभावः / नच लसनो दकतापादिवदभ्यस्यमानस्यापि सम्यगज्ञानवैराग्या-दर्न' पर प्रकर्षप्राप्तिरिति कुतस्तद्विषये मिथ्याज्ञानाभावाद्रागादेरात्यन्तिको नुत्पत्तिलक्षणः क्षयलक्षणो वाऽभाव इति वक्तुं युक्त-म् / यतो लड्डनं हि पूर्वप्रयत्नसाध्यं यदि व्यवस्थितमेव स्यात् तदोत्तरप्रयत्नस्यापरापरलङ्ग नातिशयोत्पत्ती व्यापारात्, भवेलड्डनस्याप्यनपेक्षितपूर्वातिशयसद्भावप्रयत्नान्तरस्य प्रकर्षावाप्तिः। न चैवम्। अपरापरलङ्ग नातिशयप्रयत्नम्य पूर्वपूर्वातिशयोत्पादन एवोपक्षीणशक्तित्वात्। अथैतत्स्यात्, यदि तत्रापि पूर्वप्रयत्नो-त्पादितोऽतिशयो न व्यवस्थितः स्यात्, तत्किमिति प्रथममेव यावल्लङ्घयितव्यं तावन्न लङ्घयति तल्लङ्घनाभ्यासापेक्षणात् पूर्वप्रय-नाहितातिशयसद्भावेऽपिन लड्नुनप्रकर्षप्राप्तिरिति यथा तस्य व्यवस्थितोत्कर्षता तथा ज्ञानस्यापि भविष्यति / नायतः श्लेष्मादिना प्राक्शरीरस्य जाड्याधावल्लवयितव्य न तावद्-व्यायामानपनीतश्लेष्माऽनासादितपटुभावः कायो लड्यते। अ-भ्यासासादितश्लेष्मक्षयपटुभावस्तु यावल्लङ्क यितव्यं तावलड्डयतीत्यभ्यासस्तत्र सप्रयोजनः / ज्ञानस्य तु योऽभ्याससमासादितोऽतिशयः सोऽतिशयान्तरोत्पत्तौ पुनः प्राक्तनाभ्यासापेक्षो न भवतीत्युत्तरोत्तराभ्यासानामपरापरातिशयोत्पादने व्यापारात्. न व्यवस्थितोत्कर्षतेति भवति ज्ञानस्य परप्रकर्षकाष्ठा / उदकतापे तु अतिशयन क्रियमाणे तदाश्रयस्यैव क्षयात् नातिताप्यमानमप्युदकसग्निरूपतामासादयति। विज्ञानस्य त्वाश्रयोऽत्यभ्यस्य-मानेऽपि तस्मिन् न क्षयमुफ्यातीति कथं तस्य व्यवस्थितोत्क-पता / नच विज्ञानमपि प्राक्तनाभ्यासादासादितातिशयं पूर्वमेव विनष्टम, अपराभ्यासादन्यदतिशयवदुत्पन्नमिति कथं पूर्वाभ्यास-समासादितोऽतिशयो नाभ्यासान्तरापेक्षः; येन व्यवस्थितोत्कर्षता तस्यापि न स्यादितिवक्तुंयुक्तम् / तत्र पूर्वाभ्यासजनितस-स्कारस्योत्तरत्रानुवृत्तः / अन्यथा शास्त्रपरावर्त्तनादिवैयर्थ्यप्रसङ्गा-त्। नापि यदुपचयतारतम्यानुविधायी यदपचयतरतमभावस्तस्य तद्विपक्षप्रकर्षगमनादात्यन्तिकः क्षय इत्यत्र प्रयोगे श्लेष्मणा व्यभिचार उद्भावयितुं शक्यः किल / निम्बाद्यौषधोपचारयोगात्प्रकर्षतारतम्यानुभववतस्तरतमभावापचीयमानस्यापि श्लेष्मणो नात्यन्तिकक्षय इति / यतस्तत्र निम्बाद्यौषधोपयोगस्यैवनोत्कर्षनिष्ठा आपादयितुं शक्या। तदुपयोगेऽपि श्लेष्मपुष्टिकारणानामपि तदेवा-सेवनात्। अन्यथौषधोपयोगाधारस्येव विनाशः स्यात् / चिकित्सा-शाखस्य च धातुदोषसाम्यापादनाभिप्रायेणैव प्रवृत्तेः, तत्प्रति-पादितौषधोपयोगस्योद्रिक्तधातुदोषसाम्यविधाने एव व्यापारो, नपुनस्तस्य निर्मूलने / अन्यथा दोषान्तरस्यात्यन्तक्षये मरणा-वाप्तेरिति न श्लेष्मणा तथाभूतेनानैकान्तिको हेतुः। नच सम्यग्ज्ञान-सात्मीभावेऽपि पुनर्मिथ्याज्ञानस्यापि संभवो भविष्यति तदुत्कर्ष इव सम्यग्ज्ञानस्येति वक्तुं युक्तम् / यतो मिथ्याज्ञाने, रागादी वा दोषदर्शनात्, तद्विपक्षे च सम्यग्ज्ञानवैराग्यलक्षणे गुणदर्शनात्तत्र पुनरभ्यासप्रवृत्तिसंभवात प्रकृष्टऽपि मिथ्याज्ञानरागादावुत्पद्येते एव सम्यग्ज्ञानवैराग्ये / नैवं तयोः प्रकर्षावस्थायां दोषदर्शनं, तत्र तद्विपर्यये वा गुणदर्शनं, येन पुनस्तत् सात्मीभावेऽपि मिथ्याज्ञान-रागादेरुत्पत्तिः संभाव्यते / नचानक्षजस्य ज्ञानस्य सर्ववित्संबन्धिनः कथं प्रत्यक्षशब्दवाच्यतेति वक्तुं युक्तम्। यतोऽक्षजत्वं प्रत्यक्षस्य शब्दव्युत्पत्तिनिमित्तमेव, न पुनः शब्दप्रवृत्तिनिमित्तम् / तन्निमित्तं हि तदेकाश्रितमर्थसाक्षात्कारित्वम् / अन्यद्धि शब्दस्य व्युत्पत्ती निमित्तम्, अन्यत्र प्रवृत्तौ / यथा गोशब्दस्य गमनं व्युत्पत्ती, गोपिण्डाश्रितगोत्वं प्रवृत्तौ निमित्तम्। अन्यथा यदियदेव व्युत्पत्ति-निमित्तं तदेव प्रवृत्तावपि, तदा गच्छन्त्यामेव गवि गोशब्दप्रवृत्तिः स्यात्, न स्थितायाम्। महिष्यादौ च गमनपरिणामवति गोशब्दः प्रवर्तेत / तथाऽत्रापि प्रवृत्ति निमित्तसद्भावात्प्रत्यक्षव्यपदेशः संभवत्येवा यद्वायदेव व्युत्पत्तिनिमित्तं तदेव प्रवृत्तावप्यस्तु, तथापि तच्छब्दवाच्यतायास्तत्र नाभावः। तथाहि-अश्नुते सर्वपदार्थान ज्ञानात्मना व्याप्रोतीति व्युत्पत्तिशब्दसमाश्रयणादक्ष आत्मा, तमाश्रितमुत्पाद्यत्वेन तं प्रति गतमिति प्रत्यक्षमिति व्युत्पत्तेः, अभ्युपगमवादेन चाभ्यासवशात्प्राप्तप्रकर्षण ज्ञानेन सर्वज्ञ इति प्रतिपादितम् / नत्वस्माकमयमभ्युपगमः, किन्तु ज्ञानाद्यावारकघातिकर्मचतुष्टयक्षयोद्भूताशेषज्ञेयव्याप्य - निन्द्रियशब्दलिङ्गसाक्षात्कारिज्ञानवतः सर्वज्ञत्वमभ्युपगम्यते / यच्चोक्तम् - यद्यतीतानागतवर्तमानाशेषपदार्थसाक्षात्कारिज्ञानेन सर्वज्ञस्तदा क्रमेणातीतानागतपदार्थवेदने पदार्थानामानन्त्यात् न ज्ञानपरिसमाप्तिरिति। तदयुक्तम्। तथाऽनभ्युपगमात्। शास्त्रार्थे क्रमेणानुभूतेऽप्यत्यन्ताभ्यासान्न क्रमेण संवेदनमनुभूयते; तद्वदत्रापि स्या