________________ सवण्णु 586 - अभिधानराजेन्द्रः - भाग 7 सव्वण्णु पगमे नीलप्रतिभासस्यापि प्रतिपरमाणुभिन्नप्रतिभासत्वेन भिन्नत्वात. एकपरमाण्यवभासस्य चाऽसंवेदनात्प्रतिभासमावस्याप्यभाव-प्रसङ्गात्सर्वव्यवहाराभावः स्यात्। अतः प्रत्यक्षमेव यथोक्तप्रकारेण सर्वोप- 1 संहारेण प्रतिबन्धग्राहकमनुमानवादिनाऽभ्युपगन्तव्यम् / अन्यथा प्रसिद्धानुमानस्याप्यभावः स्यात् / अथेयतो व्यापारान् प्रत्यक्ष कर्तुमसमर्थम, तस्य सन्निहितविषयबलोत्पत्त्या तन्मात्रग्राहकत्वातातर्हि प्रत्यक्षेण प्रतिबन्धग्रहणाभावेऽनुमानेन तद्ग्रहणेऽनवस्थेतरेतराश्रयदोषसद्भावादनुमानाप्रवृत्तिप्रसगतो व्यवहारोच्छेदभयादवश्यमनुमानप्रवृत्तिनिबन्धनाविनाभावनिश्वायकमपरमस्पष्टसर्वपदार्थविषयमूहाख्य प्रमाणान्तरमभ्युपगन्तव्यम्। अन्यथा सर्वमुभयात्मकं वस्त्विति कुतोऽनुमानप्रवृत्तिमर्मीमांसकस्या ततोऽसर्वज्ञत्वरागादिमत्त्वसाधने वक्तृत्वलक्षणस्य हेतोः प्रतिबन्धस्य, तत्साधकप्रमाणस्य च प्रसिद्धानुमान इवाभावान्न प्रसङ्ग साधनानुमानप्रवृत्तितः सर्वज्ञाभावसिद्धिः ! विपर्ययेण वचनविशेषस्य व्याप्तत्वदर्शनाद्विपर्ययसिद्धिरेव ततो युक्ता। यच सर्वज्ञज्ञानं किंचक्षुरादिजनितमित्यादि पक्षचतुष्टयमुत्थाप्य चक्षुरादिजन्यत्वेन चक्षुरादीनां प्रतिनियतरूपादिविषयत्वेन धर्मादिग्राहकत्वायोगरतज्ज्ञानस्य दूषणमभ्यधायि / तदप्यसङ्गतम् धर्मादिग्राहकत्वाविरोधस्य चक्षुरादिज्ञाने प्राक् प्रतिपादितत्वात् / अभ्यासपक्षे तु यत् दुषणमभ्यधायिन सकलपदार्थविषय उपदेश संभवति, नापि समस्तविषयोऽभ्यास इति। तदपिन सम्राक। "उत्पादव्ययध्रौव्ययुक्तं सत्" (त० अ० ५सू० 26) इति सकलपदार्थविषयस्योपदेशस्य सामान्यतः संभवात् / नचास्याप्रामाण्यम्, अनुमानादिप्रमाणसंवादतः प्रामाण्यसिद्धेः / अनुमानादिप्रवर्तनद्वारेण चैतदर्थाभ्यासे कथं न सकलविषयाभ्याससंभवः / यदपि, नथ समस्तपदार्थविषयमनुपदेशज्ञानंसंभवतीत्युक्तम् / तदप्यचारु। सर्वमनेकान्तात्मक सत्त्वादित्यनुमाननिबन्धनव्याप्तिप्रसाधक प्रमाणस्य सकलपदार्थविषयस्य संभवात / अन्यथाऽनुमानाभावस्य प्रतिपादितत्वात्। नच तज्ज्ञानवत एव सर्वज्ञत्वाद व्यर्थोऽन्यासः। सामान्यविषयत्वेनास्पष्टरूपस्यैवास्य ज्ञानस्य भावात। अभ्यासजस्य च सकलतद्गतविशेषविषयत्वेन स्पष्टत्वान्न तदभ्यासो विफलः / यदपि तदभ्यासप्रवर्तकं चक्षुरादिजनितं यद्यतीन्द्रियविषयमित्याद्यवादि तदपि प्रतिक्षिप्तम् / अतीन्द्रियार्थग्राहकत्वस्यान्येन्द्रियविषयग्राहकत्वस्य च प्राक्प्रतिपादनाव्यवहारोच्छेदाभावस्य चदर्शितत्वात्। अतीन्द्रियेऽपि च कालादौ विशेषणभूते चक्षुरादेः प्रवृत्तिप्रतिपादनाचेतरेतराश्रयत्वदोषस्याप्यनवकाशः पूर्वपक्षप्रतिपादितस्य / शब्दज्ञानजनितज्ञानपक्षे तु इतरेतराश्रयदोषप्रसङ्गापादनमप्ययुक्तम् कारणपक्षे तदसंभवात् / अन्यसर्वज्ञप्रणीतागमप्रभवत्वेन ज्ञानस्य कथमितरेतराश्रयत्वम्। तदागमप्रणेतुरष्यन्यसर्वज्ञप्रणीतागमपूर्वकत्येऽनवस्था स्यात् / सा चेष्यत एव, अनादित्वादागमसर्वज्ञपरम्परायाः / यदप्यवादि। शब्दजनितं ज्ञानमस्पष्टाभ, तज्ज्ञानवतः कथं सकलज्ञत्वमिति। तदप्यसङ्गतम्। नहि शब्दजनितेन ज्ञानेनाभ्यासानासादितवेशद्येन सकलज्ञोऽभ्युपगम्यते, येनायं दोषः रयात, किन्त्वभ्यासासादित- | सकलविशेषसाक्षात्कारित्वलक्षणनर्मल्यवता / अत एक प्रेरणाजनितं ज्ञानमरगदादीनामप्यतीतानागतसूक्ष्मादिपदार्थविषयमरतीति सर्वज्ञत्वं स्यादिति यदुक्तम, तदपि निरस्तम् / अभ्यासजस्य स्पष्टविज्ञानस्य सकलपदार्थविषयस्यास्मदादीनामभावात्, लिङ्गजनितत्वेऽपि तज्ज्ञानस्यातीन्द्रियधर्मादि पदार्थसंबन्धानवगमात्। लिङ्गस्यानवगतरराध्यसंबन्धस्य च तस्य, धर्मादिसाध्यानुमापकत्वासंभवादित्यादि, यत्, तदप्यसङ्गतम् / अवगतधर्माद्यतीन्द्रियसाध्य संबद्धस्य हेतोः प्रसिद्धत्वात् / तथाहि-स्वविषयग्रहणक्षमस्य ज्ञानस्य तदग्राहकत्व विशिष्टद्रव्यसंबन्धपूर्वकम्, पीतहत्पूरपुरुषज्ञानस्येव। सर्वमनेकान्तात्मकमिति सकलसामान्यविषयस्य च ज्ञानस्य तद्गताशेषविशेषग्राहकत्वं च सुप्रसिद्धमिति भवति पौद्गलिकातीन्द्रियधर्मादिसिद्धिरतो हेतोः / यदप्युक्तम् / अनुमानज्ञानेन सकलज्ञत्वाभ्युमगमेऽस्मदादीनामपि तत्स्यात्, भावनाबलात्तद्वैशधे तु कामादिविप्लुतविशदज्ञानवत इवासर्वज्ञत्वं तज्ज्ञानस्य तद्वदुपप्लुतत्वप्राप्तेरिति / तदप्यचारु / यतो भावनाबलाज्ज्ञानं वैशद्यमनुभवतीत्येतायन्मात्रेण दृष्टान्तस्योपानत्वात् न सकलदृष्टान्तधर्माणां राध्यधर्मिण्यासज्जनं युक्तम् / तथाऽभ्युपगमे सकलानुमानोच्छेदप्रसक्तेः। नचानुमानगृहीतस्यार्थस्य भावनावलाद्वेशद्य, तत्प्रतिभासिन्यभ्यासजे ज्ञानेऽनुभवतो वैपरीत्यसंभवः, येन तदवभासिनो ज्ञानस्य कामाद्युपप्लुतज्ञानस्येवोपप्लुतत्वं स्यात् / यदप्यभ्यधायि। रनोनीहाराद्यावरणापाये वृक्षादिदर्शनवद्रागाधावरणाभावे सर्वज्ञज्ञान वैशद्यभाग भविष्यति, नच रागादीन्गमावारकत्व सिद्धमित्यादि / तदप्यसङ्गतम् / कुड्यादीनामप्यन्वयव्यतिरेकाभ्यामावारकत्वासिद्धेः / तथाहि-सत्यस्वप्रप्रतिभासस्थार्थग्रहणे, न कुड्यादीनामावारकत्वम् / निश्छिद्रापवरकमध्यस्थितेनापि भाव्यतीन्द्रियार्थस्यान्तरावरणाभावे प्रमाणान्तरसंवादिन उपलम्भात्। कुड्यादीनां त्वावरणत्वे तदर्शनमसंभाव्येव स्यात्। तथा प्रतिभासेनादृष्टार्थेऽपि कुड्यादीनां नावारकत्वम् / यच्च प्रातिभं ज्ञानं जागदवस्थाया, शब्दलिङ्गाक्षव्यापाराभावेऽपि श्चो भ्राता मे आगन्ता इत्याद्याकारमुत्यद्यमानमुपलभ्यते तत्र कुड्यादीनां कथमावारकत्व, कथं वा विज्ञानस्य नातीन्द्रियविशषभूतश्चस्तनकालाद्यवभासकत्वम्,अनिन्द्रियजस्य च ज्ञानस्य बाह्यसूक्ष्मादिपदार्थसाक्षात्कारित्वं न सिद्धम्। येन सर्वज्ञज्ञानस्यानक्षजत्वे बाह्यातीन्द्रिया-दिसकलपदार्थसाक्षात्करणं स्पष्टत्वं चन स्यादित्यादि प्रेर्येत / अत एव सकलपदार्थग्रहणस्वभावस्य ज्ञानस्य इद्रियादिजन्यत्वकृत एव प्रतिनियतरूपादिग्राहकत्वनियमोऽवसीयते। प्रतिभादौ तदजन्ये तस्याभावात् सकलज्ञज्ञानं धातीन्द्रियमिति कर्थ 'येऽपि सातिशया दृष्टाः' इत्यादिः तथा 'यत्राप्यतिशयो दृष्टः' (श्लोक वा० स० २,श्लो 114) इत्यादि च दूषणं तत्र क्रमते / नहि शब्दज्ञानस्याशेष-ज्ञेयज्ञानस्वभावस्य कश्चित्प्रतिनियता रूपादिकः स्वार्थः संभवति इत्यसकृदावेदितम्। अथ रागादीनामावारकत्वेऽपि क थमात्यन्तिक :, कथ वाऽभ्य- स्यमानमप्यविशदं ज्ञानं, लवनोदकतापादिवत्प्रकृष्ट - प्रकर्षावस्था वेशद्यं चाऽवापोतीति / नैतत्प्रेयम् / यदि रागादी