________________ सवण्णु 585 - अभिधानराजेन्द्रः - भाग 7 सव्वण्णु किशिज्ज्ञत्वं प्रकृष्टमत्यल्पविज्ञानेषु कृम्यादिषु / नच तेषु वचनप्रवृत्तेरुत्कर्ष उपलभ्यते / अथ प्रसज्यप्रतिषेधवृत्त्या सर्वज्ञत्वाभावाऽसर्वज्ञत्वं तत्कार्य तु वचनम्, तदा ज्ञानरहिते मृतशरीरे तस्योपलम्भः स्यात्; नच कदाचनापि तत्तत्रोपलभ्यते। ज्ञानातिशयवत्सु च सकलशारखव्याख्यातृषु वचनस्यातिशयभावो दृश्यते इति ज्ञानप्रकर्षतरतमाद्यनुविधानदर्शनात् तत्कार्यता तस्य, धूमरयेवाग्न्यादिसामग्रीगतसुरभिगन्धाधनुविधायिनो यथोक्तप्रत्यक्षानुपलम्भाभ्यां व्यवस्थाप्यते / अत एव कारणगतधर्मानु विधानमेव कार्यस्य तत्कार्यताक्गमनिमित्तं, न पुनरन्वयव्यतिरेकानुविधामात्रम्। / तदुक्तम्"कार्य धूमो हुतभुजः, कार्ये धर्मानुवृत्तितः।" इति। यच यत्कार्यत्वेन निश्चित तत् तदभावे न कदाचिदपि भवति, अन्यथा तद्धतुकमेव तम्स स्यादिति सकृदपि ततो न भवेद् भवति च; यद्यत्र निश्चिताविसवावं वचनं, तत् तदविसंवादिज्ञानविशेषादित्यात्मन्येवासकृनिश्चितमिति नान्यतस्तस्य भावः।। तेन ''यद्यस्यैव गुणदोषा-नियमेनानुवर्तते। तन्नान्तरीयकं तत्रया-दलो ज्ञानोद्भव वचः / / 1 / / अथ यदि नामाविसंवादिज्ञानधर्मानुकरणतोऽविसंवादि वचनमेकं तत्प्रभवं यथोक्तप्रत्यक्षानुपलम्भतोऽवगतं, तदन्यतो न भवति तथाप्यन्यवचनस्य तद्धर्मानुकरणतो नतत्कार्यत्वसिद्धिरिति तस्यान्यतोऽपि भावसंभवात्कुतो व्यभिचारः / न / ईदृगभूतं वचनमीदृक्षज्ञानतः सर्वत्र भवतीति सकृत्प्रवृत्तप्रत्यक्षतोऽवगमात् / ननु सकलव्यक्त्यनुगततिर्यक्सामान्यानभ्युपगमे यावन्ति तथाभूतव-चांसि तानि सर्वाणि प्रत्यक्षीकरणीयानि तथाभूतज्ञानकार्यतया / अन्यथैकस्यापि वचस्तव्याप्ततयाऽप्रत्यक्षीकरणे तेनेव व्यभिचारी हेतुः स्यात् / नचैतावप्रत्यक्षीकरणसमर्थ प्रत्यक्षम्। तस्य सन्निहितविषयत्वात्। नचान्येषां स्वलक्षणानामनुमानात साध्यधर्मेण व्याप्तिग्रहणम्। अनवस्थाप्रसड़ात् / तदयुक्तम्। यतः प्रत्यक्ष तथाभूतज्ञानसन्निधान एव तथाभूतवचनभेदात् प्रतिपद्यैष्वतथाभूतवचनव्यावृत्तं रूपमतथाभूतज्ञानव्यावृत्तज्ञानजन्यमित्यवधारयति यथाऽत्र; तथाऽन्यत्रापि देशकालादी तथाभूतज्ञानजन्यमवेत्यप्य-वधारयति / अन्यथात्रापि तथाभूतज्ञानजन्यतया न प्रत्यक्षणावधार्येत / एवं हि तथाभूताऽतथाभूतज्ञानजन्यतया तथाभूतपचनस्य प्रतीतिः स्यात, न तथाभूतज्ञानजन्यतयैव / प्रतीयते च तथाभूतज्ञानजन्यतया तथाभूतं वचनम्, तस्मादन्यत्रान्यदा च तथाभूतज्ञानादेव तथाभूतवचनमिति कुतो व्यभिचारः / यश्च तद्रूपमन्यतो व्यावृत्तमवधारयितुं शक्नोति तस्यैव तदनुमानम् ; यथा वाष्पादिविलक्षणधूमावधारणेऽग्न्यनुमानम्। किंच तिर्थक-सामान्यवादिनोऽपि गोपालघटिकादौ धूमसामान्यस्याग्निमन्तरेणापि दर्शनात व्यभिचाराशयाऽग्निनिय तधूमसामान्यावधारणेनैव तदनुमानम् / अग्निनियतधूम सामान्यावधारणं चानि-संवद्धधूमव्यक्त्यवधारणपुरस्सरमेव / नच सर्वदेशादावगिसंबद्धधूमव्यक्तिविशिष्टस्य धूमसामान्यस्य केनचित्प्रमाणेनावधारण संभवति / नच महानसादावग्निनियतधूमव्यक्तिविशिष्ट धूमसामान्य प्रतिपन्नमन्यत्रानुयायि व्यक्तेरनन्वयात् / यच धूमसामान्यमनुयायि, तन्नाग्न्यव्यभिचारि / तस्मात् सामान्यव्याप्तिग्रहणवादिनामपि कथं विशिष्टधूमसामान्यं सर्वत्राग्निना व्याप्त प्रतिपन्नमिति तुल्यं चोद्यम / अथ विशिष्टधूमस्यान्यत्राग्रिजन्यत्वे न किञ्चि-बाधकमस्ति तदेवेदमिति च प्रतीतेः तत्सामान्य प्रतीतमिष्यते। अस्माकमपि तदेवेदं धचनमिति प्रत्ययस्योत्पत्तेस्तत्प्रतिपन्नमिति सदृशपरिणामलक्षणसामान्यवादिनो जैनस्य, भवतो वा को विशेषोऽत्र वस्तुनीति, यत्किञ्चिदेतत् / तेनाग्निगमकत्वेन धूमस्य यो न्यायः सोऽत्रापि समान इति विशिष्टज्ञानगमकत्वं विशिष्टशब्दस्याभ्युपगन्तव्यम्। अथ ज्ञानविशेषग्रहणे प्रवृत्तं सविकल्पकं, निर्विकल्पकं वा ततो भिन्नमभिन्न वा ज्ञानं न वचनविशेषे प्रवर्तते / तस्य तदानीमनुत्पनत्वेनासत्वात् / तदप्रवृत्तेन च ज्ञानविशेषस्वरूपमेव तेन गृह्यते, न तदपेक्षया तस्य कारणत्वम्। वचनविशेषग्राहकेणापितत्स्वरूपमेव गृह्यते, न पूर्व प्रति कार्यत्वम् कारणस्यातीतत्वेनाग्रहणात् / नाप्युभयग्राहिणा भिन्नकालत्वेन तयोरेकज्ञाने प्रतिभासनायोगा-त्। अत एव स्मरणमपि न तयोः कार्यकारणभावावेदकम्। अनुभवा-नुसारेण तस्य प्रवृत्त्युपपत्तेः अनुभवस्य चात्र वस्तुन्नि निषिद्धत्वा-त्। असदेतत् / यतः कार्यस्य न तावदसावनुत्पन्नस्यैव कार्यत्वं धर्मः / असत्त्वात् तदानीम्। नाप्युत्पन्न - स्यात्यन्तभिन्नं, तत्तद्धर्मत्वादेव / तथा कारणस्यापि कारणत्वं कार्यनिष्पत्त्यनिष्पत्त्यवस्थाया न भिन्नमेव। नापितयोः कार्यकारणभावः संबन्धोऽन्योऽस्ति, भिन्नकालत्वादेव संबन्धस्य च द्विष्ठत्वाभ्युपगमात्। ततरतत्स्वरूपग्राहिणा प्रत्यक्षेण तदभिन्नस्वभाव-धर्मरूपं कारणत्वं कार्य चं च गृहाते एव क्षयोपशमवशाता यत्रतुस नास्तितत्र कार्यदर्शनादपि नतन्निश्चीयते, यता नाकार्यकारणयोः कार्यकारण-भावः संभवति। नापि तेनाभिन्ना उत्तरकालं तयोः कार्यकारणता कर्तु शक्या विरोधात् / नापि भिन्ना तयोः स्वरूपेणाकार्यकारणताप्रसङ्गात्। नापि स्वरूपेण कार्यकारणयोरर्थान्तरभूतकार्यकारणभावस्वरूपसंबन्धपरिकल्पनेन प्रयोजनम्। तव्यतिरेकेणापि स्वरूपेणैव कार्यकारणरूपत्वात्। नच भिन्नपदार्थग्राहि प्रत्यक्षद्वयं, द्वितीयाग्रहणे तदपेक्ष कार्यत्वं कारणत्वं वा ग्रहीतुमशक्तमिति वक्तु युक्तम् / क्षयोपशमवतां धूममात्रदर्शनेऽपि वह्निजन्यतावगमस्य भावात्। अन्यथा बाष्पादिवलक्षण्येन तस्यानवधारणात्, ततोऽनलावगमाभावेन सर्वव्यवहारोच्छेदप्रसङ्गात् / कारणाभिमतपदार्थग्रहणपरिणामापरित्यागवता, कार्यस्वरूपग्राहिणा च प्रत्यक्षेण कार्यकारणभावावगमे न कश्चिद्दोषः / न च कारणस्वभावावभास प्रत्यक्षं न कार्यस्वरूपावभासयुक्तम, प्रतिभासभेदेन भेदोपपत्तेरिति प्रेरणीयम् / चित्रप्रतिभासिज्ञानस्य नीलप्रतिभासापरित्यागप्रवृत्तपीतादिप्रतिभारयेकत्यवत्प्रकृतज्ञान-स्यापि तदविरोधात ।नच चित्रज्ञानरयाप्येकत्वमसिद्धमितिवक्तुंयुक्तम्।तथाऽभ्यु