________________ सव्वण्णु 584 - अभिधानराजेन्द्रः - भाग 7 सव्वण्णु ऽग्रहणम्, उत अविद्यमानत्वात्, आहोस्वित् अविशेषणत्वात्। तत्र नाद्यः पक्षः। अतीन्द्रियस्याप्यतीतकालादेहणाभ्युपगमात्। नाप्यविद्यमानत्वात भाविधर्मादरिवातीतकालादेरविद्यमानत्वेऽपि प्रतिभासस्य भावात् / अथाविशेषणत्वाद्धर्मादरप्रतिभासः / तदप्यसङ्गतम् / सर्वदा पदार्थजनकत्वेन, द्रव्यगुणकर्मजन्यत्वेन च धर्मादेः सर्वपदार्थविशेषणभावसंभवात् / अतीतातीन्द्रियकालादेरिव तस्यापि विशेष्यग्रहणप्रवृत्तचक्षुरादिना ग्रहणसंभव इति कथं धर्म प्रत्यनिमित्तत्वप्रसङ्गसाधनस्य, तद्विपर्ययस्य वा संभवः / तथा प्रश्नादिमन्त्रादिद्वारेण संस्कृत चक्षुर्यथा कालविप्रकृष्टपदार्थग्राहकमुपलभ्यते, तथा धर्मादरपि यदि ग्राहकं कस्यचित्स्यात. तदा न कश्चिद्दोषः / अपि च-अनालोकान्धकारख्यवहितस्य मूषिकादेर्नक्तचरवृषदंशादेश्वक्षुर्यथा ग्राहकमुपलभ्यते, तथा यद्यतीन्द्रियातीतानागतधर्मादिपदार्थसाक्षात्कारि कस्यचित्तदेव स्यात्, तदाऽत्रापि को दोषः / नच जात्यन्तरस्यान्धकारव्यवहितरूपादिगाहकं चतुर्दृष्ट, न पुनर्मनुष्यधर्मण इति पतिसमाधानभत्राभिधातुंयुक्तम्। मनुष्यधर्मणोऽपि निर्जीविकादेव्यविशेषादिसंस्कृतं चक्षुः समुद्रजलादिव्यवहितपर्वतादिग्रहणे समर्थमुपलभ्यत इति धर्मादरपि देशकाल - स्वभावविप्रकृष्टस्य कस्यचित्पुरुषविशेषस्य पुण्यादिसंरकृतं चक्षुरादि ग्राहक भविष्यतीति न कश्चित् दृष्टस्वभावव्यतिक्रमः / अथ चक्षुरादेः करणस्य प्रतिनियतरूपादिविषयत्वेनान्यकरणविषयग्राहकत्वे स्वार्थातिक्रमो व्यवहारविलोपी स्या-त् / ननु श्रूयत एव चक्षुषा शब्दश्रवण प्राणिविशेषाणाम, 'चक्षुः श्रवसो भुजङ्गा' इति लोकप्रवादात / मिथ्या स प्रवाद इति चेत्। नैतत्। प्रवादबाधकस्याभावात्, कर्णच्छिद्रानुपलब्धेश्व / नच दन्दशूकचक्षुषो जात्यन्तरत्वादित्युत्तरमत्रोपयोगि। अन्यत्रापि प्रकृष्टपुण्य-संभारजनितसर्वविचक्षुषि समानत्वात्। तदेवं धर्मादिसमस्तपदार्थग्राहकत्वेन चक्षुरादिजनित प्रत्यक्षस्य विरोधात्, न प्रत्यक्षत्वसत्संप्रयोगजत्वादेव्याप्यय्यापकभावसिद्धिरिति न प्रसङ्गविपर्ययोः प्रवृत्तिरिति न ततस्तत्प्रत्तिक्षेपः / एतेन 'यदि षभिः प्रमाणैः स्यात सर्वज्ञः १-श्लो० वा०सू०२ श्लो०१११। इत्यादि वार्त्तिककृत्प्रतिपादित प्रसङ्गसाधनाभिप्रायेण युक्तिजालमखिलं निरस्तम्। व्याप्तिप्रतिषेधस्य पूर्वोक्तप्रकारेण विहितत्वात् / यच्च किं प्रमाणान्तरसंवाद्यर्थस्य वक्तृत्वादित्यादि, तधूमादान्यनु-मानेऽपि समानम। तथाहि-अत्रापि वक्तुं शक्यम्, किं साध्यधर्मिसंबन्धी धूमो हेतुत्वेनोपन्यस्त इत्यादि यावत्सिद्धः प्रतिबन्धोऽसर्वज्ञत्ववक्तृत्वयोरग्निधूमयोरिवेति पर्यन्तम्। तदप्ययुक्तम्। यतोऽसर्वज्ञत्ववक्तृत्वयोरिव नाग्निधूमयोः कार्यकारणत्वप्रतिबन्धस्य, तद्ग्राहकप्रमाणस्य वा भावः / नहि वह्निसद्भावे धूमो दृष्टस्तदभावे च न दृष्ट इत्येतावता धूमस्याग्निकार्यत्वमुच्यते, किन्तु / 'कार्य धूर्मो हुतभुजः,कार्ये धर्मानुवृत्तितः।" नचासो दर्शनादर्शनमात्रगम्यः, किन्तु विशिष्टात्त्यक्षानुपलम्भाख्यात्प्रमाणात् / प्रत्यक्षमेव प्रमाण प्रत्यक्षानुपलम्भशब्दाभिधेयम्, तदेव कार्यकारणाभिमतपदार्थविषयं प्रत्यक्षम्, तद्विविक्तान्यवस्तुविष-यमनुपलम्भशब्दाभिधेयम्, कदाचिदनुपलम्भपूर्वक प्रत्यक्ष तद्भावसाधकं, कदाचित्प्रत्यक्षपुर: सरोऽनुपमम्भः / तत्राद्येन येषां कारणाभिमतानां सन्निधानात् प्रागनुपलब्धं सळूमादि, तत्सन्निधानादुपलभ्यते, तस्य तत्कार्यता व्यवस्थाप्यते। तथाहि-एता-वद्धिः प्रकारैधूमोऽग्निजन्यो न स्यात्, यद्यग्रिसन्निधानात्प्रागपि तत्र देशे स्यात्, अन्यतो वाऽऽगच्छेत्तदन्यहेतुको वा भवेत्, तदेतत्सर्वमनुपलम्भपुरस्सरेण प्रत्यक्षेण निरस्तम्। एतेन प्रागनुपलब्धस्य रासभस्य कुम्भकारसन्निधानान्तररमुपलभ्यमानस्य तत्कार्यता स्यादिति निरस्तम् / तथाहि-तत्रापि यदि रासभस्य तत्र प्रागसत्त्वम्, अन्यदेशादनागमनम्, अन्याकारणत्वं च निश्चेतुं शक्येत, तदा स्यादेव कुम्भकारकार्यता; केवलं तदेव निश्चेतुमशक्यम् / एवं तावदनुपलम्भपुरस्सरस्य प्रत्यक्षस्य तत्साधनत्वमुक्तम् / तथा प्रत्यक्षपुरस्सरोऽनुपलम्भोऽपि तत्साधनों येषां सन्निधाने प्रवर्तमान तत्काय दृष्ट, तेषु मध्ये यदैकस्याप्यभावो भवति तदा नोपलभ्यते तत्तस्य कारणमितरत्कार्यम्। नचाग्निकाष्ठादिसन्निधाने भवतो धूमस्यापनीते कुम्भकारादावनुपलम्भोऽस्ति अन्गादौ त्वपनीते भवत्यनुपलम्भः। एवं परस्परसहितौ प्रत्यक्षानुपलम्भावाभिमतेष्वेव कार्यकारणेषु निःसन्दिग्धं कार्यकारणभावं साधयतः। सर्वकालं चाग्निसन्निधाने भवतो धूमस्यानग्निजन्यत्वं कदाचित्सदसतोरजन्यत्वेनाहेतुकत्वेनादृश्यहेतुकत्वेन वा भवेत् / तत्र न तावत्प्रथमः पक्षः / असतो जन्यत्वात् / सदेव च न जन्यते इति त्वदभिप्रायात्, सत एव जन्यमानत्वानुपपत्तेः, कार्यत्वस्य च कादाचित्कत्वेन सिद्धत्वात् / नाप्यहेतुकत्वम् / कादाचित्कत्वेनैवाहेतुत्वे तदयोगात नाप्यदृश्यहेतुकत्वम् धूमस्याग्न्यादिसामा यन्वयव्यतिरेकानुविधानात् / अथापि स्यात्, अदृश्यस्यायं स्वभावो यदग्न्यादिसन्निधान एव धूम कर्पूरोर्णादिदाहकाले सुगन्धादियुक्तं च करोति नान्यदेति, तत्किमग्निमन्तरेण कदाचिद् धूमोत्पत्तिर्दृष्टा, येनैवमुच्यते। नेति चेत्, कथं नाग्निकायों धूमः तद्भावे भावात् / धूमोत्पत्तिकाले च सर्वदा प्रतीयमानोऽग्निः, काकतालीयन्यायेन व्यवस्थित इत्यलौकिकम्। अथ स एवादृश्यस्वभावो यदग्निसन्निधान एव धूम करोति / ननु यद्यग्निना नासावुपक्रियते, किमग्निसन्निधानात्न पूर्वं पश्चात् वा धूमं विदधाति, नचान्यदा करोतीति तस्य तज्जन्यस्वभावसव्यपेक्षस्य धूमजनने तदेव पारंपर्येणाग्निजन्यत्वं धूमस्य। किंच- यथा देशकालादिकमन्तरण धूमस्यानुत्पत्तेस्तदपेक्षा प्रतीयते, तथाऽग्निमन्तरेणापिधूमस्यानुत्पनिदर्शनात्तपेक्षा केन वार्यते, तदपेक्षा च तत्कार्यतैव। यथा चादृश्यभावे एव धूमरय भावाद् तज्जन्यत्वमिष्यते, तथा सर्वदाग्निभावे (व धूमस्य भावदर्शनात्तज्जन्यता किं नेष्यते यावतां च सन्निधाने भाषो दृश्यते तावतां हेतुत्वं सर्वेषां मित्यग्न्यादिसामग्रीजा यत्वाद् धूमस्य कुतोऽग्निव्यभिचारः / न चायं प्रकारोऽसर्वज्ञत्ववक्तृत्वयो: संभवति / असर्वज्ञत्वधर्भानुविधानस्य वचने अदर्शनात् तथाहियदि सर्वज्ञत्वादन्यत्पर्युदासवृत्त्या किञ्चिज्ज्ञत्वम-सर्वज्ञत्वमुच्यते, तदा तद्धर्मानुविधानादर्शनान्न तज्जन्यता वचनस्य / नहि किचिज्ज्ञत्वतरतमभावात् वचनस्य तरतभाव उपलभ्यते / तथाहि