________________ सव्वण्णु 583 - अभिधानराजेन्द्रः - भाग 7 सव्वण्णु किन्तु-विशिष्ट कारणपूर्वकत्वं विशिष्ट शब्दस्य / तय स्वसाध्यव्याप्तहेतु बलात्साध्यधर्मिणि सिद्धिमोसादयद् हे तुपक्षधर्मत्वव - लात्प्रतिनिय सर्वज्ञपूर्वकत्वेनैव सिद्धिमासादयति / नच तत एव इतोरन्यस्यापि सर्वज्ञस्य सिद्धेः,अन्यागमाश्रयणमपि भवतां प्रसज्यते इति दूषणम्। अन्यागमानां दृष्टविषय एव प्रमाणविरुद्धार्थप्रतिपादकत्वेनाप्रामाण्यस्य व्यवस्थापयिष्यमाणत्वात, कथं तत्प्रणेतृणामपि सर्वज्ञत्वसिद्धिः / यच्चान्यदभिहितम्। न कश्चित्सर्वज्ञप्रतिपादकः सम्यग् हेतुः संभवति। तदप्यसङ्गतम्। तत्प्रतिपादकस्य सम्यगहेतोर्वधनविशेषत्वादेः प्रतिणदयिष्यमाणत्वात् / यच्चान्यदभिहितम् / सर्वे पदार्थाः कस्यचित्प्रत्यक्षाः प्रमेयत्वादग्न्यादिवदित्यत्र यदि सकलपदार्थग्राहिमत्यक्षत्वं साध्यमित्यादि। तदप्यसङ्गतम्। एवं साध्यविकल्पनेऽग्न्यादेरप्यनुमानान्न सिद्धिः स्यात् / तथाहि-अत्राप्येवं वक्तुं शक्यते / यदि प्रतिनियतसाध्यधर्मिधर्मो वह्निः साध्यत्वेनाभिप्रेतस्तदा तद्विरद्धेन दृष्टान्तधर्मिणि तद्धमिधर्मेण पावकेन व्याप्तस्य धूमलक्षणस्य हेतोरसिद्धत्वात विरुद्धो हेतुः स्यात्, साध्यविकलश्च दृष्टान्तः। अथ दृष्टा-तधर्मिधर्मः साध्यधर्मिणि साध्यते, तदा प्रत्यक्षादिविरोधः / अथो भयगतं वह्निसामान्यं, तदा सिद्धसाध्यता दोषः / तथा प्रमेयत्वमपि हेतुत्वेनोपन्यस्यमानमित्यादि यदुक्तम्, तद् धूमत्वलक्षणेऽपि हेतौ समानम् / तथाहि-अत्रापि किं साध्यधर्मिधर्मो हेतुत्वेनोपात्तः, उत दृष्टान्तधमिधर्मः, अथोभयगतं सामान्यम् / तत्र यदि साध्यधर्मि-धर्मो हेतुः स दृष्टा तधर्मिणि नान्वेतीत्यनन्वयो हेतुदोषः। अथ दृष्टान्तधर्मिधर्मः स साध्यधर्मिण्यसिद्ध इत्यसिद्धताहेतुदोषः। अथोभयगतं सामान्यं तदपि प्रत्यक्षाऽप्रत्यक्षमहानसपर्वतप्रदेशविलक्षणव्यक्तिद्वयाश्रितं न संभवतीति हेतोरसिद्धता तदवस्थिता। अथ पर्वतप्रदेशाश्रिताग्नितद्भूमव्यक्तेस्तरकालभाविप्रत्यक्षप्रतीयमानत्वेन न महानसोपलब्धधूमव्यक्त्याइत्यन्तवलक्षण्यमिति नोभयगतसामान्याभावः। ननूभयगतसामान्यप्रतिपत्तौ ततोऽनुमानप्रवृत्तिस्तत्प्रवृत्ती च तदर्थक्रियार्थिनस्तत्र प्रवर्तमानस्य प्र यक्षप्रवृत्तिस्तस्यां च सत्यामत्यन्तवैलक्षण्याभावस्तद्व्यक्तेः, तत्सद्भावे चोभयगतसामान्यसिद्धितस्तदनुमानप्रवृत्तिरिति चक्रकदूषणवकाशः। अथ कण्ठक्षीणतादिलक्षणधर्मकलाप साधयन्नि महानसपर्वतप्रदेशसङ्गतधूमव्यक्त्योरत्यन्तवैलक्षण्यमित्युभयगतसामान्यसिद्धौ न धूमानुमाने हेत्वसिद्धतादिदोषः, तर्हि वाच्याविसंवादादिधर्मकलापसाधर्म्यस्य वचनविशेषव्यक्तिद्वयेऽप्यत्यन्तवैलक्षण्यनिवत्तंकरय सद्भावेन कथं न तद्विशेषत्वसामान्यसंभवः। प्रमेयत्वं तु यथा प्रकृतसाध्ये हेतुर्भवति तथा प्रतिपादयिष्यामः, आस्ता तावत् / यत्तु नापि शब्दात्तत्सिद्धिरित्यादि प्रतिपादितम्। तत्सिद्धसाध्यतादोषाघ्रातत्वान्निरस्तम् / यदप्युक्तम्- ये देशकालेत्यादिप्रयोगे नासिद्धो हेतुरिति। एतदप्ययुक्तम्। अनुमानस्य तदुपलम्भस्वभावस्य प्रतिपादविष्यमाणत्वेनानुपलम्भलक्षणस्य हेतोः परप्रयुक्तस्यासिद्धत्वात्। अत एव सद्व्यवहारनिषेधश्चानुपलम्भनिमित्तोऽनेनेत्याद्यसारतया स्थितम्। अथ यथाऽस्माकं तत्सद्भावावेदकं प्रमाणं नास्ति, तथा भवतां तदभावावेदकमपि नास्तीत्यादि यावत्प्रसङ्गसाधनाभिप्रायेण सर्वमेव सर्वज्ञप्रतिक्षेपप्रतिपादकं युक्तिजालमभिहितमिति, यदुक्तम्। तदप्यचारु। यतः'सर्वज्ञो दृश्यते तावन्नेदानीम्' (श्लोव्वा०सू०२श्लो०११७) इत्यादिना तत्सद्भावोप लम्भकप्रमाणपञ्चकनिवृत्तिप्रतिपादनद्वारेण यदभावाख्यप्रमाणप्रवृत्तिप्रतिपादनं तत् तद्भावावेदकस्वतन्त्राभावाख्यप्रमाणाभ्युपगमव्यतिरेकेणासंभवद्भवतां मिथ्यावादिता सूचयति / यदप्यवादि / तथाच -प्रसङ्गसाधनाभिप्रायेण भगवतो जैमिनेः सूत्रमित्यादि / तदप्यसङ्गतम् / यतः प्रसङ्ग साधनस्य, तत्पूर्वकस्य च विपर्ययस्य व्याप्यव्यापक-भावसिद्धी यत्र व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयकः, व्यापकनिवृत्तितो व्याप्यनिवृत्तिरवश्यंभाविनी च प्रदर्श्यते, तत्र यथाक्रम प्रवृत्तिः / अत्र तु प्रत्यक्षत्वस्य सत्संप्रयोगजत्वेन,तस्य च विद्यमानोपलम्भनत्वेन, तस्यापि धर्मादिकं प्रत्यनिमित्तत्वेन क्वव्याप्यव्यापकभावावगमः, येन प्रसङ्गतद्विपर्यययोः प्रवृत्तिः स्यात्। ननूक्तमेवैतत् स्वात्मन्येव सत्यमुक्तम्, नतु युक्तमुक्तम् / अयुवतता च सर्व चक्षुरादिकरणग्रामप्रभव प्रत्यक्षं सन्निहितदेशकालपदार्थान्तरस्वभावाविप्रकृष्टप्रतिनियतरूपादिग्राहकं सर्वत्र सर्वदा चेतिन व्याप्यव्यापकभावग्राहक प्रमाणमस्ति, विपर्ययश्चोपलभ्यते / योजनशतविप्रकृष्ट - स्यार्थस्य ग्राहक संपातिगृध्रराजप्रत्यक्षं रामायणभारतादौ भवत्प्रमाणत्वेनाभ्युपगते श्रूयते, तथेदानीमपि गृध्रवराहपिपीलिका-दीना चक्षुःश्रोत्रघ्राणजस्य प्रत्यक्षस्य यथाक्रम रूपशब्दगन्धादिषु देशविप्रकृष्टषु प्रवृत्तिरुपलभ्यते। तथा कालविप्रकृष्टस्याप्यतीतकालसंबन्धित्वस्य, पूर्वदर्शनसंबन्धित्वस्य च स्मरणसव्यपेक्षलोचनादिजन्यप्रत्यभिज्ञाप्रत्यक्षग्राह्यत्वं पुरो व्यवस्थितेऽर्थे भवताऽभ्युपगम्यते / अन्यथा"देशकालादिभेदेन, तदाऽस्त्यवसरो मितेः।" (श्लो० वा० सू०४, श्लो० 233) 'इदानींतनमस्तित्वं, नहि पूर्वधिया गतम्।।" (श्लो० वा० सू० श्लो० 234) इत्यादिवचनसंदर्भण प्रत्यभिज्ञाप्रत्यक्षस्यागृहीतार्थाधिगन्तृत्वं पूर्वापरकालसबन्धित्वलक्षणनित्यत्वग्राहकत्वं च प्रतिपाद्यमानमसङ्गतं स्यात्। अथातीतातीन्द्रियकालसंबन्धित्वं, पूर्वदर्शनसबन्धित्वं वा वर्तमानकालसंबन्धिनः पुरोव्यवस्थितस्यार्थस्य यदि चक्षुरादिप्रभवप्रत्यभिज्ञानेन गृह्यते, तदा- "संबद्ध वर्तमानं च गृह्यते चक्षुरादिभिः / " (श्लो० वा० सू० 4 श्लो०८४) इति वचनं विरुद्धार्थस्यात्। तथाऽतीन्द्रियकालदर्शनादेवर्तमानार्थविशेषणत्वेन ग्रहणेऽतीन्द्रियधर्मादरपि ग्रहणप्रसङ्गात् प्रसङ्गसाधनतद्विपर्यययोरप्रवृत्तिः स्वयमेव प्रतिपादिता स्यात्, नत्वयमेवात्र दोषः। कालविप्रकृष्टार्थग्राहकत्वेन इन्द्रियजप्रत्यक्षस्य प्रतिपादयितुमस्माभिरभिप्रेत इति कस्यात्रोपालम्भः। अथ वर्तमानकालसबद्ध विशेष्ये पुरोवर्त्तिनि व्यापारवचक्षुस्तद्विशेषणभूतेऽतीन्द्रियेऽपि पूर्वकालदर्शनादौ प्रवर्तते। अन्यथा चक्षुयापारानन्तरं पूर्वदृष्ट पश्यामीति विशेष्यालम्बनं प्रत्यभिज्ञान नोपपद्येत / नागृहीतविशेषणाविशेष्ये बुद्धिरुपजायते, दण्डाग्रहण इव दण्डिबुद्धिः। नच धर्मादावयं न्यायः संभवतीति चेत् / ननु धर्मादः किमतीन्द्रियत्वाचक्षुरादिना