________________ सव्वण्णु 582 - अभिधानराजेन्द्रः - भाग 7 सव्वण्णु मंताग्रहणे च हेतोः प्रवर्तते / नच प्रतिबन्धग्रहणं प्रत्यक्षतस्तत्र संभवतीत्यादि।तद्धूमादेसन्यादिप्रभवत्वानुमानेऽपि समानम्। अथान्यादेः प्रत्यक्षत्वात्तत एव तत्प्रभवत्वकार्यविशेषत्वयोधूमादौ प्रतिबन्धसिद्धिः / ननु धूमस्य किमग्निस्वरूपग्राहकप्रत्यक्षेण पावकपूर्वकत्वमवगम्यत, उत धूमस्वभावग्राहिणेति कल्पनाद्वयम्। तत्र न तावदाहाः पक्षः पावकरूपग्राहिप्रत्यक्ष तत् स्वभावमात्रग्रहणपर्यवसितमेव, न धूमरूपप्रवदनप्रवणम्। तदप्रवेदने च न तदपेक्षया तेन वः कारणत्वावगमः / नहि प्रतियोगिस्वरूपाऽग्रहणे तं प्रति कस्यचित्कारणत्वमन्यद्वा धर्मान्तर माहीत शक्यम् / अतिप्रसङ्गात्। अथ धूमस्वरूपप्रतिपत्तिमता प्रत्यक्षण तस्य चित्रभानु प्रति कार्यत्वस्वभावं तत्प्रभवल्वं गृहात / ननु तस्यापि पावकस्वरूपग्राहकत्वेनाप्रवृत्तेस्तदग्रहाणे सदप कार्यत्व धूमस्य कथमवगमविषयः / अथानिधूमद्यस्वरूपग्राहिणा प्रत्यक्षाण तयोः कार्यकारणभावनिश्चयः / तदप्यसगतमाद्वयग्राहिण्यपि ज्ञाने तयोः स्वरूपमेय भाति, न पुनरगेधूमं प्रति कारणत्वम: धूमस्य वा तं प्रति कार्यत्वम्। नहि पदार्थद्वयस्य स्वस्वरूपनिष्ठस्यैकज्ञानप्रतिभासमात्रेण कार्यकारभावप्रतिभासः। अन्यथा घटपटयोरपि स्वस्वरूपनिष्ठयोरेकज्ञानप्रतिभासः क्वचिदस्तीति तयोरपि कार्यकारणभावावगमप्रसङ्गः। अथयस्य प्रतिभासानन्तरं यत्प्रतिभास एकज्ञाननिबन्धनस्तयोस्तदवगम इति नाय दोषः / तदपि घटप्रतिभासानन्तरं पटप्रतिभासे क्वचित ज्ञाने समानम / नच क्रमभाविपदार्थद्वयपतिभासमन्वय्येक ज्ञानमिति शक्यं वक्तुम् / प्रतिभासभेदस्य भेदनिबन्धनत्वात्। अन्यत्रापि तद्भदव्यवस्थापितत्वाद्दरग। स च क्रमभाविप्रतिभासद्वयाध्यासितज्ञाने समस्तीति कथं न तस्य भेदः। नचेकमेव ज्ञान जन्मानन्तरक्षणादिकालमास्त-इति भवतामभ्युपगमः / तदुक्तम्- 'क्षणिका हिसा, न कालान्तरमास्ते इति / अथ वहिधुमस्वरूपदयग्राहिज्ञानद्वयानन्तरभाविस्मरणसहकारीन्द्रिय सविकल्पकज्ञान जनयति, तत्र तवयस्य पूर्वापरकालभाविनः प्रतिभासात् कार्यकारणभावनिश्चयो भविष्यति। तदप्यसङ्गतम्। पूर्वप्रवृत्तप्रत्यक्षद्वयस्य तत्राव्यापारात्तदुत्तरर-मरणरय च पदार्थमात्रग्रहणऽप्यसामथ्याचक्षुरादीनां च तदवगमज्ञानजननेऽशक्तेः / शक्ती वा प्रथमाक्षसन्निपातबलायामेव तदवगमज्ञानोत्पत्तिप्रसङ्गात्, अकिश्चित्करस्य स्मरणादेरन पेक्षणीयत्वात। परिमलस्मरणसव्यपेक्षस्य लोचनस्य सुरभिचन्दनगित्यविषये गन्धादी ज्ञानजनकत्वस्येव, तत्रापितजनकत्वविरोधात्। अथ ततरमरणसध्यपेक्षलोचनव्यापारानन्तरं कार्यकारणभूते एत वस्तुनी इत्येतदाकारज्ञानसंवेदनात्कार्यकारणभावावगमः सविकल्पक प्रत्यक्षनिबन्धना व्यवस्थाप्यते / नन्वेवं परिमलस्मरणसहकारिचक्षुष्यापारानन्तरभावी सुरभि मलयजमिति प्रत्ययः समनुभूयत इति परिमलस्यापि चक्षुर्जप्रत्ययविषयत्वं स्यात् / अथ परिमलस्य लोचनाविषयत्वात् नायं प्रत्ययस्तजः, किन्तुगन्धसहचरितरूपदर्शनप्रभवानुमानस्वभावः / तदेतत्प्रकृतेऽपि कार्यकारणभाव लोचनाविषयत्वं समानम् / प्रत्यशरय तु तदध्यवसायिनोऽपरं निमित्त कल्पनीयम् तत्र प्रत्यक्षतः राधिकल्पकादपि धूमपावकयोः कार्यकारणत्वावगमः ! मानसप्रत्यक्ष तु तदवगमनिमित्तं भवता नाभ्युपगम्यते। अपि च-कार्यकारणभावः सर्वदेशकालावस्थिताखिलधूमपावकव्यक्तिक्रोडीकरणे नावंगतोऽनुमाननिमित्ततामुपगच्छति। नच प्रत्यक्षरयेयति वस्तुनि सविकल्पकस्य, निर्विकल्पकस्य वा व्यापारः संभवतीत्यसकृत्प्रतिपादितम / किंच-न कारणस्य प्राग्भावित्वमात्रमेव बौद्धानामिव कारणत्वं, येन तस्य कारणस्वरूपाभेदात्तत्स्वरूपग्राहिणा प्रत्यक्षेण तदभिन्नस्वभावस्य कारणत्वस्याऽप्यवगमः केवल कार्यदर्शनादुत्तरकालं तन्निश्चीयते, किं तु-कारणस्य कार्यजननशक्तिः कारणत्वम् / सा च शक्तिर्न प्रत्यक्षावसेया, अपितु कार्यदर्शनसमवगम्या भवता परिकल्पि-ता। तदुक्तम्- ''शक्तयः सर्वभावना कार्यार्थापत्तिगोचराः।" (श्लोव्वा०सू०५ शून्य०श्लो०२५४) ततः कथं प्रत्यक्षात्कारणस्य कारणत्वावगमः। अथ कार्यादव कारणस्य कारणत्वावगमो भवतु, किनश्छिन्नम् / ननु कार्यात्कार में कारणत्वावगमे नुमानाच्छपत्यवगमः, तत्र च तदपि कार्य लिङ्ग गूतं यदि कारणशक्तिमवगमयति, तदाशक्तिकार्ययोः प्रतिवन्धग्रहणमभ्युपगन्तव्यम् / सच प्रतिबन्धावगमो न प्रत्यक्षादिति प्रतिपादितम्। अनुमानात्तदवगमे इतरेतराश्र-यानवस्थादोषावतारोऽत्रापि समानः। अर्थापत्तेस्त्वनुमानऽन्तर्भावः प्रतिपादित इति न प्रसिद्धानुभानस्यापि प्रवृत्तिर्भवदभिप्रायेण / अथ वहिगतधर्मानुविधानात् धूभस्य तत्पूर्वकत्वं कुतश्वित्प्रमाणात्प्रसिद्धमिति धूमत्वस्य तत्पूर्वकत्वव्याप्तिसिद्धिः। अन्यथा धूमादग्न्यसिद्धेः सकललोकप्रसिद्धव्यवहाराभावः / अनुमानाभावे प्रत्यक्षतोऽपि व्यवहारासम्भवात् / तर्हि वचनविशेषस्यापि यदि विशिष्ट कारणपूर्वकत्वं तत एव प्रमाणात्प्रसिद्धम्, विवादाध्यासिते वचने वचनविशेषत्वात्साध्येत तदा कोऽपराधः। तदप्युक्तम् - 'पक्षधर्मत्वनिश्चये सति हेतोरनुमान प्रवर्तते, नच सर्ववित् कुतश्चित्प्रमाणासिद्धः' इत्यादि। तदप्ययुक्तम् / यतो यदि सर्वविदो धर्मित्वं क्रियेत, तदा तस्यासिद्धत्वात्स्यादप्यपक्षधर्मत्वलक्षण दूषणम्, यदा तु वचनविशेषस्य धर्मित्वं तस्य विशिष्टकारणपूर्वकत्वं साध्यत्वेनोपक्षिप्तम, तदा तत्र तद्विशेषत्वादिलक्षणो हेतुरुपादीयमानः कथमपक्षधर्मः स्यात् / नचापक्षधर्मादपि हेतोरुपजायमानमनुमानं प्रमाणं भवताऽभ्युपगच्छता पक्षधर्मत्वाभावलक्षणं दूषणमासञ्जयितुं युक्तम् / अन्यथा"पित्रोच वाहाणत्वेन, पुरब्राह्मणताऽनुमा। सर्वलोकप्रसिद्धवान, पक्षधर्भमपेक्षते / / 1 / / " इत्याद्यपक्षधर्महेतुसमुत्थानुमानप्रामाण्यप्रतिपादनं भवतोऽव्ययुक्त स्यात् / यदप्यभ्यधायि- 'सर्वज्ञसनाया साध्यायां बची दोपजाति हेतु तिवर्तते' इत्यादि। तत्र स्यादप्ययं दोषः, यदितत्सत्ता साध्यत्वेनाभ्युपगम्यते, यावता पूर्वोक्तप्रकारेण वचनविशेषस्य विशिष्टकारणपूर्वकत्व साध्यमित्युक्तम् तत्र चास्य दोषस्योपक्षेपोऽयुक्तएव / यदप्यभ्यधायियद्यनियतः कश्चित्सकलपदार्थज्ञःसाध्योऽभिप्रेत इत्यादि / तदप्य - सङ्गतमेव। यतो नारमाभिः प्रतिनियत एव कश्चित्सर्वज्ञोऽनुमानात्साध्यत,