________________ सवण्णु 581 - अभिधानराजेन्द्रः - भाग 7 सव्वण्णु भासासंभवात्। संभवे वा न कस्यचिदर्थस्य प्रतिनियतस्य तद्ग्रा-हक स्यादिति किं तज्ज्ञानेन, अस्मदादिभ्योऽपि व्यवहारिभ्यो हीनतर इति कथं सर्वज्ञः। किंच-यदि युगपत् सर्वपदार्थग्राहकं तज्ज्ञानं, तदैकक्षणे एव / सर्वपदार्थग्रहणात, द्वितीयक्षणे किश्चिज्ज्ञ एव स्यात्, ततश्च किं तेन तादृशा किशिज्ज्ञेन सर्वज्ञत्वेना नचानाद्यनन्तसंवेदनस्य परिसमापिः, परिसमाप्तौ वा कथमनाद्यनन्तता। किंच-सकलपदार्थसाक्षात्करणे परस्थरामाऽऽदिसाक्षा करणमिति रागादिमानपि स स्याद्विट इय / अथ रागादिसंवेदनमत्र नास्ति, न तर्हि सकलपदार्थसाक्षात्करणम् / तन्न प्रथमः पक्षः / अथ शक्तियुक्तत्वेन सकलपदार्थसंवेदनं तज्ज्ञानमभ्युपगम्यते / तदपि न युक्तम्। सर्वपदार्थावदने तच्छक्तेातुमशक्तेः, कार्यदर्शनानुमेय वाच्छक्तीनाम्। किंच-सर्वपदार्थज्ञानपरिसमाप्तावपीयदेव सर्वमिति वथंपरिच्छेदशक्तिः। अथ वेदनाभावादभावो-ऽपरस्थति सर्वसंवेदनम्। अवेदनादभावोऽपरस्येतिकुलो निश्चयः। तदपेक्षया तस्यापलब्धिलक्षणप्राप्तत्वात् / तथाभूतानपलब्ध्याऽभावनिश्चय इति चेत। एवं सति स एवंतरेतराश्रयदोषः / सर्वज्ञत्वनिश्चये तदभावनिश्चयः तदभावनिश्चये च सर्वज्ञत्वनिश्चय इति नैकस्यापि सिद्धिः। तन्न द्वितीयोऽपि पक्षः / अथ यावदुपयोगि प्रधानभूतपदार्थजातं तावदसौ वेत्तीति तत्परिज्ञानात्सकलज्ञः,तदपि सर्वपदार्थावदने नियमेन न संभवति / सकलपदार्थव्यवच्छेदेन तेषामेव प्रयोजननिर्वर्तकत्वमिति सकलपरिज्ञानमन्तरेणशक्यसाधनमिति न तृतीयोऽपि पक्षो युक्तः / किंच-नित्यसमाधानसंभवे विकल्पाभावात्कथं वचनम् / वचने वा विकल्पसं भवात् समाधानविरोधान्न समाहितत्वमिति भ्रान्तच्छाद्मस्थिकज्ञानयुक्तः स स्यात्। कथं वाऽतीतानागतग्रहणम् अतीतादः स्वरूपस्यासंभवात् / असदाकारग्रहणे च तैमिरिकज्ञानवत्प्रमाणत्वं न स्यात्। अथातीतादिकमप्यस्ति, एवं सत्यतीतादित्वादेरप्यभाव एव इति सर्वज्ञव्यवहारोच्छदः। अथ प्रतिपाद्यापेक्षया तस्याभावः। तदप्ययुक्तम् / नहि विद्यमान वापेक्षया तदैवाविद्यमानं भवति / तस्यानुपब्धेरविद्यमानत्वमेवेति चेत् / तदनुपलब्धिरेवास्तु कथमविद्यमानम् / नह्यन्यस्याभावेऽन्यस्याप्यभावः / अतिप्रसङ्गात / तस्यासावविद्यमानत्वन प्रतिभातीति चेत् स तर्हि भ्रान्तः / असद्विकल्पसंभवात् / तरयासद्विकल्पस्य विषयीकरणात्सर्वज्ञोऽपि भ्रान्त एवेति कथं सर्ववित्। अथ विकल्पस्यापि स्वरूपेऽभ्रान्तत्वमेव, तेन तस्य वेदनं सर्वज्ञज्ञानमनान्तम् / एवं तर्हि स्वरूपसाक्षात्करणमेव केवलं, कथमतीताद्यविद्यमानसाक्षात्करणम्। ततश्चातीता-नागतपदार्थाभावात्तत्साक्षात्करणासंभवान्न तद्ग्रहणात्सर्वज्ञः / किंच-स्वरूपमात्रवेदने तन्मात्रस्यैव विद्यमानत्वात्तद्वेदनेऽद्वैतवेदनात् न सर्वज्ञव्यवहारः। तदावे वा सर्वः सर्ववित स्यात् / अथापि स्यात्, सत्यस्वप्नदर्शनवदतीतानागतादिदर्शनम्, ततो व्यवहार इति / तदप्ययुक्तम् / सत्यस्वप्नदर्शनस्य स्वरूपमात्रवेदन न सत्यासत्यविभागः किन्त्वानुमानिकः / सत्य - स्वप्नस्वरूपसंवेदनस्य तन्मात्रपर्यवसितत्वात् / किंच-अतीतानागतकालसंबन्धित्वात्पदार्थानामतीतानागतत्वम्,तद्धि भवत्किमपरातीतानागतकाल-संबन्धादतीतानागतत्वमभ्युपगम्यते, आहो-स्वित् रखत एव / यद्यपरातीतानागतकालसंबन्धात्कालस्यातीतानागतत्वम्, तदा तस्याप्यपरातीतानागतकालसंबन्धादतीतानागतत्वं, तस्याप्यपरस्मादित्यनवस्था। अथातीतानागतपदार्थक्रियासंबन्धात्कालस्यातीतानागतत्वम्, तेनायमदोषः / ननु पदार्थक्रियाणामपि कुतोऽतीतानागतत्वम। यद्यपरातीतानागतपदार्थक्रियासद्भावात्; तदाऽत्रापि सैवानवस्था। अतीतानागतकालसंबन्धात्पदार्थक्रियाणामतीतानागतत्वं तर्हि कालस्याप्यातीतानागतपदार्थक्रियासंबन्धादतीतानागतत्वमिति व्यक्तमितरतराश्रयत्वम्।तन्त्र प्रथमः पक्षः। अथ स्वरूपतएव कालस्यातीतानागतत्वं, तदा पदार्थानामपि स्वत एवातीतानागतत्वमस्तु, किमतीतानागतकालसंबन्धित्वेन। तच्च पदार्थस्वरूपमस्मदादिज्ञानेऽपि प्रतिभातीति नातीतानागतपदार्थग्राहित्येनास्मदादिभ्यः सर्वज्ञस्य विशेषः / अपिचसंबन्धस्यान्यत्र विस्तरतोनिषिद्धत्वान्न कस्यचित्केनचित्संबन्ध इत्यतीतानागतादि-संबद्धपदार्थग्राहिज्ञानमसदर्थविषयत्वेन भ्रान्तं स्यादिति न भ्रान्तज्ञानवान सर्वज्ञः कल्पयितुं युक्तः / भवतु वा सर्वज्ञः, तथाप्यसौ तत्कालेऽप्यसर्वज्ञैतुिं न शक्यते। तद्ग्राह्यपदार्थाज्ञाने तद्ग्राहकज्ञानवतः केनचित्प्रमाणेन प्रतिपत्तुमशक्तेः। तदुक्तम्सर्वज्ञोऽयमिति ह्येत-तत्कालेऽपि बुभुत्सुभिः / तज्ज्ञानज्ञेयविज्ञान-रहितैर्गम्यते कथम्? कल्पनीयास्तु सर्वज्ञा, भवेयुर्बहवस्तव। य एव स्यादरसर्वज्ञः,स सर्वज्ञ न बुध्यते॥ (श्लोव्वा०सू० 2 लो० 134 / 135 / ) नच तदपरिज्ञाने तत्प्रणीतत्वेनागमस्य प्रामाण्यमवगन्तुं शक्यम् / तदनवगमे च तद्विहितानुष्ठानं प्रवृत्तिरप्यसङ्गता। तदुक्तम्"सर्वज्ञो नावबुद्धश्चेद्येनैव स्यान्न तं प्रति। तद्वाक्यानां प्रमाणत्वं, मूलाज्ञानेऽन्यवाक्यवत् // " इति। (श्लो० वा० सू० २श्लो० 136) तदेवं सर्वज्ञसद्भावग्राहकस्य-प्रमाणस्याभावात्, तत्सद्भायबाधकस्य चानेकधा प्रतिपादितत्वात्, सर्वज्ञाभावव्यवहारः प्रवर्त्तयितुं युक्तः / तथाहि-ये बाधकप्रमाणगोचरतामापन्नास्ते असदिति व्यवहर्त्तव्याः,यथा अड्गुल्यग्रे करियूथादयः, बाधकप्रमाणगोचरापन्नश्च भवदभ्युपगमविषयः सकलपदार्थसार्थसाक्षात्कारीत्यसद्यवहारविषयत्वं सर्वविदोऽभ्युपगन्तव्यमिति पूर्वपक्षः। (उत्तरपक्षः सर्वज्ञसत्तासाधनम्)अत्र प्रतिविधीयते यत्तावदुक्तम्- ये देशकालस्वभावव्यवहिताः प्रमाणविषयतामनापन्ना न ते सद्व्यवहारगोचरचारिणः इत्यादि। तदुक्तम् / सर्वविदि प्रमाण विषयत्वस्य प्रतिपादयिष्यमाणत्वात् असिद्धो हेतुस्तदविषयत्वलक्षणः / यदप्यभ्यधायि / न तावदक्ष संभवज्ञानसंवेद्यस्तद्भावः अक्षाणां प्रतिनियतविषयत्वे न तत्सा क्षात्क रणव्यापारासंभवात् / तत् सिद्धमेव साधितम् / यदप्य क्तम् / नाप्यनुमानस्य तत्र व्यापारः / तद्धि प्रतिबन्धग्रहण पक्षध