SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ सव्वण्णु 580 - अभिधानराजेन्द्रः - भाग 7 सव्वण्णु न निषिद्धत्वात्। तर्हि सर्वदाऽग्निप्रभव एव धूमोऽग्न्यभावे कदाचनापिन भवतीत्यत्रापि प्रत्यक्षस्य सन्निहितवर्तमानार्थग्राहकत्वेनाप्रवृत्तेः, अनुपलम्भस्यापि तद्विविक्तप्रदेशविषयप्रत्यक्षस्वभावस्यात्र वस्तुनि व्यापारासंभवात्, न कार्यकारणभावलक्षणः प्रतिबन्धः प्रत्यक्षानुपलम्भसाधन: स्यात्। नाप्यनुमानतोऽपि प्रकृतः प्रतिबन्धः सिद्धिमासादयति इतरेतराश्रयानवस्थादोषप्रसङ्गस्य प्रदर्शितत्वात्। न चान्यत्प्रतिबन्धप्रसाधकं प्रमाणमस्तीति प्रसिद्धानुमानस्यापि सवज्ञाभाववेदकानुमाननिरासयुक्त्युपक्षेप-मिच्छतोऽत्राभावः प्रसक्तः / अथ प्रसिद्धानुमाने साध्यसाधनयाः प्रतिबन्धः, तत्प्रसाधकं च प्रमाण किशिदस्ति, तर्हि स एव प्रति-बन्धः किञ्चिज्ज्ञत्ववक्तृत्वयोः, तत्प्रसाधकं च तदेव प्रमाणं भविष्यतीति सिद्धः प्रतिबन्धः किञ्चिज्ज्ञत्ववक्तृत्वयोरग्निधूमयोरिवाअत एव व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयको यत्र दयत तत्प्रसङ्गसाधनमिति तल्लक्षणस्य युष्मदभ्युपगमेनात्र सद्भावात् भवत्येवातोऽनुमानात् सर्वज्ञाभावसिद्धिः / पक्षधर्मताभावप्रतिपादनं च यत्प्रकृतप्रसङ्ग साधने प्रतिपादितं, तदभ्युपगमवादान्निरस्तम / तत्र पक्षधर्मताया हेतोरभावेऽपि गमकत्वस्य सिद्धत्वात् / शेषस्तु पूर्वपक्षग्रन्थोऽनभ्युपगमान्निरस्त इति न प्रत्युचार्यदूषितः / अतोऽयुक्तमुक्तं सर्वज्ञवादिना यथा तत्साधकप्रमाणाभावात् न तद्विषयः सद्व्यवहारः, तथा तदभाववादिना मीमांसकादीनां तदभावग्राहकप्रमाणाभावादेव न तदभावव्यवहार इति प्रसङ्गसाधनस्य तदभावसाधकस्य समर्थितत्वात्। अथ यदभ्यासविकलचक्षुरादिजनितं प्रत्यक्षं तद्धर्मादिग्राहकं न भवतीति प्रसङ्ग साधनात्सिद्ध्यति,न पुनरन्यादृग्भूतम् / चोदनावदन्यादृशस्य धर्मग्राहकत्वाविरोधात्। ननु किं तज्ज्ञानं प्रतिनियतचक्षुरादिजनितं धर्मादिग्राहकम्, उताभ्यसजनितं, आहोस्वित् शब्दजनित, किंवाऽनुमानप्रभावितम्।तत्र यदि चक्षुरादिप्रभवम्। तदयुक्तम्। चक्षुरादीनां प्रतिनियतरूपादिविषयत्वेन तत्प्रभवस्य तज्ज्ञानस्य धर्मादिग्राहकत्वायोगात् / अत एव यदिषड्भिः इत्याद्युक्तं दूषणमत्र पक्षे / अथाभ्यासजनितं तदितिपक्षः। तथाहि-ज्ञानाभ्यासात्प्रकर्षतरतमादिप्रक्रमेण तत्प्रकर्षसम्भवे तदुत्तरोत्तराभ्याससमन्वयात्सकलभावातिशयपर्यन्तं संवेदनमवाप्यत इति। तदपि मनोरथमात्रम् / यतोऽभ्यासो हि नाम कस्यचित्प्रतिनियतशिल्पकलादौ प्रतिनियतोपदेशसद्भाव-वतो जन्मतो जनस्य संभाव्यते, नतु सर्वपदार्थविषयोपदेशसंभवः। नच सर्वपदार्थविषयानुपदेशज्ञानसंभवः, येन तज्ज्ञानाभ्यासात्सकलज्ञानप्रप्तिः / तत्संभवे वा सकलपदार्थविषयज्ञानस्य सिद्धत्वात्किमभ्यासप्रयासेन। किंच-तदभ्यासप्रवर्तकं ज्ञानं यदि चक्षुरादिप्रतिनियतकरणप्रभवमप्यन्येन्द्रियविषयरसादिगोचरम्, अतीन्द्रियार्थगोचरं च स्यात्, तदा पदार्थशक्तेः प्रतिनियतत्वेन प्राणसिद्धाया अभावात्, प्रतिनियतकार्यकारणभावाभावप्रसक्तिसद्भावात् सकलव्यवहारोच्छेदप्रसक्तिः / अथाभ्याससहायानां चक्षुरादीनामपि सर्वज्ञावस्थायामतीन्द्रियदर्शनशक्तिः,नच व्यवहारोच्छेदः, अस्मदादिचक्षुरादीनामनभ्यासदशायां शक्तिप्रतिनियमादरमदादय एव व्यवहारिण इति। एतदप्यसमीचीनम्। न खल्वभ्यासे सत्यप्यन्यतो वा हेतोः कस्यचिदतीन्द्रियदर्शनं चक्षुरादिभ्य उपलभ्यते, दृष्टानुसारिण्यश्च कल्पना भवन्तीति। किंच- सर्व पदार्थवेदने चक्षुरादिजनितज्ञानात्तदभ्यासः, तत्सहायंच चक्षुरादिकं सर्वज्ञावस्थाया सर्वपदार्थसाक्षात्कारिज्ञानं जनयतीति कथमितरतराश्रयमेतत्कल्पनागोचरचारि चतुरचेतसो भवत इति न द्वितीयोऽपि पक्षो युक्तिक्षमः / अथ शब्दजनितं तज्ज्ञा-नम् / ननु शब्दस्य तत्प्रणीतत्वेन प्रामाण्ये सर्वपदार्थविषयज्ञान-संभवः, तज्ज्ञानसंभवे च सर्वज्ञस्य तथाभूतशब्दप्रणेतृत्वमितीतरेतराश्रयदोषानुषङ्गः। अत एवोक्तम्- "नर्ते तदागमात सिद्धयेत नच तेनागमो विना।" इति। (श्लोक० वा० सू० २श्लो० 142) नच शब्दजनित स्पष्टाभमिति न तज्ज्ञानवान् सकलज्ञ इत्यभ्युपगम्यते। एवं च प्रेरणाजनितज्ञानवतो धर्मज्ञत्वम् / अत एवोक्तम- 'चोदना हि भूत भवन्तम्' इत्यादि। तन्नतृतीयपक्षोऽपि युक्तिसङ्गतः। अनुमानजनितज्ञानेन तु सर्ववित्त्वे न धर्मज्ञत्वम्। धर्मादेरतीन्द्रियत्वन तज्ज्ञापकलिङ्गत्वेनाभ्युपगम्यमानस्यार्थस्यतेन सह संबन्धासिद्धेः / असिद्धसंबन्धस्य चाज्ञापकत्वान्न ततो धर्माद्यनुमानम्, इत्यनुमानजनित ज्ञानं न सकलधर्मादिपदाविदकम्। किंचतथाभूतपदार्थज्ञानेन यदि सर्वविदभ्युपगम्यते, तदाऽस्मदादीनामपि सर्ववित्त्वमनिवारितप्रसरम् / भावाभावो-भयरूपं जगत् प्रमेयत्वादित्यनुमानस्यास्मदादीनामपि भावात्, अस्पष्ट वाऽनुमानमिति तज्जनितभ्याप्यवैशद्यसंभवान्न तज्ज्ञानवान् सर्वज्ञो युक्तः। अथानुमानज्ञानं प्रागविशदमपि तदेवाशेषपदार्थ-विषय पुनः पुनर्भाव्यमानं भावनाप्रकर्षपर्यन्ते योगिज्ञानरूपतामासादयद्वैशद्यभाग भवति। दृष्ट चाभ्यासबलाज्ज्ञानस्या-नक्षजस्यापि कामशोकभयोन्मादचौरस्वप्राद्युपप्लुतस्य वैशद्यम् / नन्वेवं तज्ज्ञानवदतीन्द्रियार्थविद्विज्ञानस्याप्युपप्लुतत्वं स्यादिति तज्ज्ञानवतः कामाद्युपप्लुतपुरुषवद्विपर्यस्तत्वम्। अथ यथा रजोनीहाराद्यावरणावृतवृक्षादिदर्शनमविशदम्, तदावरणापाये वैशद्यमनुभवति, एवं रागाद्यावारकाणां विज्ञानावैशद्यहेतूनामपाये सर्वज्ञज्ञानं विशदतामनुभविष्यतीति। असदेतत्। रागादीनामावरणत्वासिद्धेः / कुड्यादीनामेव ह्यावारकत्वं लोके प्रसिद्ध न रागादीनाम तथाहि- रागादिसद्भावेऽपि कुड्याद्यावरणकाभावे विज्ञानमुत्पद्यमान दृष्टम्, रागाद्यभावेऽपि कुड्याद्यावारकसद्भावे न विज्ञानोदय इत्यन्वयव्यतिरेकाभ्यां कुड्यादीनामेवावरणत्वावगमो, नरागादीनामिति न रागादय आवारका इति न तद्विगमोऽपि सर्वविद्विज्ञानस्य वैशद्यहेतुः। किंच-सर्ववदनं सर्वज्ञज्ञानेन किं समस्तपदार्थग्रहणम्, उत शक्तियुक्तत्वम्, आहोस्वित् प्रधानभूतकतिपयपदार्थग्रहणम्। तत्र यद्याद्यः पक्षः तत्रापि वक्तव्यम्। किं क्रमेण तद्ग्रहणम्, आहोस्विद्द्योगपद्येन। तत्र यदि क्रमेण तद्हणम्। तदयुक्तम्। अतीतानागतवर्तमानपदार्थानामपरिसमाप्तेस्तज्ज्ञानस्याप्यपरिसमाप्तितः सर्वज्ञताऽयोगात्। अथ युगपत् अनन्तातीतानागतपदार्थसाक्षात्कारि तद्वेदनमभ्युपगम्यते / तदप्यसत्। परस्परविरुद्धानां शीतोष्णादीनामेकज्ञाने प्रति
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy