________________ सव्वण्णु 576 - अभिधानराजेन्द्रः - भाग 7 सव्वण्णु यज्जातीयः प्रमाणैस्तु, यज्जातीयार्थदर्शनम। दृष्ट संप्रति लोकस्य, तथा कालान्तरेऽप्यभूत् " (श्लो० वा०सू० २श्लो०१११।११३) पुनरव्युक्तम्"येऽपि सातिश्या दृष्टाः, प्रज्ञामेधादिभिर्नराः। स्तोकस्तोकान्तरत्वेन, नत्वतीन्द्रियदर्शनात् / / 1 / / यत्राप्यतिशयो दृष्टः, स स्वार्थानतिलवनात्। दूरसूक्ष्मादिदृष्टा स्या-न्न रूपे श्रोत्रवृत्तिता॥" (श्लोवा०सू० २श्लो०११४) इत्यादि तेनात्रापि स्वतन्त्रानुमानाभिप्रायेणाश्रयासिद्धत्वादिदूषणम्, उपमानोपन्यासवुद्ध्या वा शेषोपमानोपमेयभूतपुरुषपरिषत्साक्षात्करणे उपमानं प्रवर्त्तते इत्यादि दूषणाभिधानं च। सर्वज्ञवादिनः स्वजात्याविष्करणमात्रकमव / अतोऽतीन्द्रियसर्वविदो न प्रत्यक्ष प्रवृत्तिद्वारेण निवृत्तिद्वारेण वा भावसानिमित्यादि सर्वमभ्युपगमवादान्निरस्तम्। यच्चानुमानेन सर्वज्ञाभावसाधने दूषणमभिहितम् / किं प्रमाणान्तरसंवाद्यार्थस्य वक्तृत्वादित्यादि, तद्भूभादग्न्यनुमानेऽपि समानम् / तथाहि-तत्रापि वक्तुं शक्यते; किं साध्यधर्मि संबन्धी धूमो हेतुत्वेनोपन्यस्तः, उत दृष्टान्तधर्मिसबन्धी? तत्र यदि साध्य-धर्मिसंबन्धी हेतुः,तदा तस्य दृष्टान्तेऽसंभवादन्वयदोषः / अथ दृष्टान्तधर्मिसंबन्धी; सोऽसिद्धः / दृष्टान्तधर्मिधर्मस्य साध्यधर्मिण्यसंभवात् / अथोभयसाधारणं धूमत्वसामान्य हेतुः, तदा तस्य विपक्षेऽननौ विरोधासिद्धेः, संदिग्धविपक्षव्यावृत्तिकत्वेन स्व-साध्यागमकत्वम् / अथ विपक्षेऽग्री धूमस्यानुपलम्भाद्विरोधासिद्धेः न सन्दिग्धविपक्षव्यावृत्तिकत्वम्। नन्वत्रापि वक्तुं शक्यम् / सर्वसंबन्धिनोऽनुपलम्भस्यासम्भवादनग्रो देशान्तरे कालान्तरे वा केनचित् धूमस्योपलम्भात्, तदुपलब्धिमतः कस्यचिदभावात् सर्वसंवन्धिनोऽनुपलम्भस्य संभव इति चेत्, केन पुनः प्रमाणेनानग्रौ धूमसत्त्वग्राहकपुरुषाभावः प्रतिपन्नः। यद्यन्यतः प्रमाणात्, तत एवानगेधूमस्य व्यावृत्तिसिद्धेर्व्यर्थ सर्वसंबन्ध्यनुपलम्भलक्षणस्य विपक्षे धूमविरोधसाधकस्य प्रमाणस्याभिधानम्। अथ तथाभूतानुपलम्भात् तदभावावगमः। ननु तथाभूतपुरुषाभावे तदनुपलम्भसंभवस्तत्संभवाच तथाभूतपुरुषाभावसिद्धिरितीतरेतराश्रयत्वात् न सर्वसंबन्धिनोऽनुपलम्भस्य संभवः। संभवेऽपि तस्यासिद्धेर्न विपर्यये विरोधसाधकत्वम्। अथात्मसंबन्धिनोऽनुपलम्भस्य धूमत्वलक्षण-हेतोर्विपक्षात् व्यावृत्तिसाधकत्वम्। न तस्य परचेतोवृत्तिविशेषैर-नैकान्तिकत्वात्। अथानुपलम्भव्यतिरिक्तधूमलक्षणस्य हेतोर्विपयये बाधकं प्रमाणमस्ति, नतु वक्तृत्वलक्षणस्य / किं पुनस्तदिति वक्तव्यम् / अग्निधूमयोः कार्यकारणभावलक्षणप्रतिबन्धग्राहक मिति चेत्, कः पुनरसौ कार्यकारणभावः? किंवा तद्ग्राहक प्रमाणम? अग्निभाव एव धूमस्य भावस्तदभावे चाभाव एवासी; तद्ग्राहकं च प्रमाणे प्रत्यक्षानुपलम्भ स्वभावम् / ननु किचिज्ज्ञत्वस्य तद्व्यापकस्य वा रागादिमत्त्वस्य भावे एव वक्तृत्त्वस्य भावः स्वात्मन्येव दृष्टस्तदभावे वाऽभाव एवोपलादावविगानेनानुपलम्भतो ज्ञात इति कथं न विपर्यये सर्वज्ञत्वे, वीरातगत्वे वा वक्तृत्वलक्षणस्य हेतो-बधिकं कार्यकारणभावलक्षणप्रतिबन्धग्राहकं, प्रत्यक्षानुपलम् भाख्य प्रमाणम्, दर्शनादर्शनशब्दवाच्यं युक्तम् / नच दर्शनादर्शनशब्दवाच्यस्यास्मदभ्युपगतप्रमाणस्य प्रत्यक्षानुपलम्भशब्दवाच्यस्य वा भवदभिप्रेतस्य कश्चिद्विशेषः प्रकृतहेतुसाध्यप्रतिबन्धसाधने उपलभ्यते। अथ किशिज्ज्ञत्वरागादिमत्त्वसद्भावेऽपि स्वात्मनि न तद्धेतुक वक्तृत्वं प्रतिपन्नम्, किन्तु वक्तुकामताहेतु-कम, रागादिसद्भावेऽपि वक्तुकामताऽभावेऽभावाद्वचनस्य। नन्वेवं व्यभिचारे, विवक्षाऽपि न वचने निमित्त स्यात्, तत्राप्यन्यविवक्षा-यामन्यशब्ददर्शनात्। अन्यथा गोत्रस्खलनादेरभावप्रसङ्गात् / अथार्थविवक्षाव्यभिचारेऽपि शब्दविवक्षायामव्यभिचारः। न स्वप्नावस्थायामन्यगतचित्तस्य वा शब्दविवक्षाभावेऽपि वक्तृत्व-संवेदनात्। न च व्यवहिता विवक्षा तस्य निमित्तमिति परिहारः / एवमभ्युपगमे, प्रतिनियतकार्यकारणभावाभावप्रसङ्गात् सर्वस्य तत्प्राप्तेः, तन्न वक्तुकामतानिमित्तमप्येकान्ततो वचन सिद्धम् व्यतिरेकासिद्धेः / अन्वयस्तु किञ्चिज्ज्ञत्वेन, रागादिमत्त्वेन वा वचनस्य सिद्धो न वक्तुकामतया / अथ किञ्चिज्ज्ञत्वाद्यभावे, सर्वत्र वक्तृत्वं न भवतीत्यत्र प्रमाणाभावान्नासर्वज्ञवक्तृत्वयोः कार्यका-रणभावलक्षणः प्रतिबन्धः सिद्धयति / तर्हि वयभावे धूमःसर्वत्र न भवतीत्यत्रापि प्रमाणाभावस्तुल्य इति न प्रतिबन्धग्रहः / अथा-न्यभावेऽपि यदि धूमः स्यात्तदाऽसो त तुक एव न भवेदिति सकृ-दप्यहेतोग्नेस्तस्य न भावः स्यात् / दृश्यते च महानसादावग्नित-इति नानग्नेधूमसद्भाव इति प्रतिबन्धसिद्धिः / ननु यथेन्धनादेरेकदा समुद्भूतोऽपि वहिरन्यदाऽरणितो मण्यादेर्वाभवन्नुपलभ्यते, धूमो वा वह्नित उपजायमानोऽपि गोपालघटिकादौ पावकोद्भूतधूमादप्युपजायते इत्यवगमस्तदा कदाचिदग्न्यभावेऽपि भविष्यतीतिं कुतः प्रतिबन्धसिद्धिः। अथ यादृशो वहिरिन्धनादिसामग्रीत उपजायमानो दृष्टो न तादृशोऽरणितो मण्यादेर्वा, धमोऽपि यादृशोऽग्नितउपजायते न तादृश एव गोपालघटिकादावग्निप्रभवधूमात्। अन्यादृशात्तादृशभावे तादृशत्वमहेतुकमिति न तस्य कृचिदपि प्रतिनियमः स्यात् / अहेतोदेशकालस्वभावनियमायोगादिति नाग्निजन्यधूमस्य तत्सदृशस्य वाऽनग्नेर्भावः / भावे वा तादृशधूमजनकस्याग्निस्वभावतैवेति न व्यभिचारः तदुक्तम्"अनिस्वभावः शक्रस्य, मूर्द्धा यद्यग्निरेवसः। अथानग्निस्वभावोऽसौ, धूमस्तत्र कथं भवेत्" / / 1 / / इत्यादि। तदेतदक्तृत्वेऽपि समानम् / तथाहि-यदि सर्वज्ञ वीतरागे व वचनं स्यादसर्वज्ञाद्रागादियुक्ताद्वा कदाचिदपि न स्यादहेतोः सकृदप्यसंभवात्, भवति च तत्ततः। अतो न सर्वज्ञे तस्य तत्सदृशस्य वा संभव इति प्रतिबन्धसिद्धिः / अथ देशान्तरे, कालान्तरे वाऽसर्वज्ञकार्यमेव वचनं न सर्वज्ञप्रभवमिति न दर्शनादर्शनप्रमाणगम्यम् / दर्शनस्येयद्व्यापारासंभवाद, अदर्शनस्य च प्रागेवैवंभूतार्थग्राहकत्वे