________________ सव्वण्णु 578 - अभिधानराजेन्द्रः - भाग 7 सव्वण्णु वर्तमानं बाधकं प्रमाणमनेकान्तात्मकल्वनियतत्वमवगमयेत् सत्त्वस्य? नच साध्यधर्मिणि दृष्टान्तधर्मिणि च प्रवर्त्तमानेन प्रमाणेनार्थापत्त्युस्थापकस्यार्थस्य, लिङ्गस्य च यथाक्रमं प्रतिबन्धो गृह्यत इत्येतावन्मात्रेणापत्त्यनुमानयोर्भेदोऽभ्युपगन्तुं युक्तः / अन्यथा पक्षधर्मत्वसहितहेतुसमुत्थादनुमानात्तद्रहितहेतुसमुत्थमनुमानं प्रमाणान्तर स्यादिति प्रमाणषट्कवादो विशीर्येत / नियमवतो लिङ्गात्परोक्षार्थप्रतिपत्तरविशेषात् न ततस्तद्भिन्नमित्यभ्युपगमे, स्वसाध्याविनाभूतादर्थादर्थप्रतिपत्तेरविशेषादनुमानादर्थापत्तेः कथं नाभेदः? तदेवं प्रमाणत्वेऽर्थापत्तेरनुमानेऽन्तर्भावात; अनुमानस्य च सर्वज्ञाभावप्रतिपादकस्य निषेधात्तन्निषेधे चार्थापत्तेरपि तदभावग्राहकत्वेन निषेधान्नार्थापत्तिसमधिगम्योऽपि सर्वज्ञाभावः / अभावाख्य तु प्रमाणमप्रमाणत्वादेव न तदभावसाधकम् / प्रमाणत्वेऽपि किमात्मनोऽपरिणामलक्षणं तत, आहोस्विदन्यवस्तुविज्ञानलक्षणमिति / तत्र यद्यात्मनोऽपरिणामलक्षण तदभावसाधकमिति पक्षः स न युक्तः, तस्य सत्त्वनाभ्युपगते परचेतोवृत्तिविशेषेऽपि सद्भावेनानैकान्तिकत्वात् / अथान्य विज्ञानलक्षणमिति पक्षः, सोऽप्यसंबद्धः। यतःसर्वज्ञत्वादन्यद्यदि किशिज्ज्ञत्वं तद्विषयज्ञानं तदन्यज्ञानं, तदाऽत्रापि वक्तव्यम्: किं सकलदेशकाल - व्यवस्थितपुरुषाधार किञ्चिज्ज्ञत्वम् अभ्युपगम्यते , आहोस्वित् कतिपयपुरुषव्यक्तिसमाश्रितमिति? तत्र यदि समस्तदेशकालाश्रितपुरुषाधार किञ्चिज्ज्ञत्वं तद्विषयं ज्ञानं तदन्यज्ञानं तत्सर्वज्ञाभावप्रसाधकम, तदयुक्तम। सकलदेशकालव्यवस्थितपुरुषपरिषत-साक्षात्करणव्यतिरेकेण तदाधारस्य किश्चिज्ज्ञत्वस्य विषयीकर्तुमशक्तेन तद्विषयस्य तदन्यज्ञानस्य सर्वज्ञाभावावगम-निमित्तत्वं युक्तम्। सर्वदेशकालव्यवस्थिताशेषपुरुषसाक्षात्करणे च स एव सर्वदर्शीति न तदभावाभ्युपगमः श्रेयान् / अथ कतिपयपुरुषव्यक्तिव्यवस्थित किचिज्ज्ञत्वं तदन्यत् तद्विषयं ज्ञानंतदन्यज्ञानं सर्वज्ञाभावावेदकम्, तदप्ययुक्तम्। तज्ज्ञानात् तदभावावगमे कतिपयपुरुषव्यक्तिव्यवस्थितस्यैव सर्वज्ञत्वस्याभावः सिद्ध्येत्, न सर्वत्र सर्वदा सर्वपुरुषेषु। तथा च सिद्धसाधनम्। अस्माभिरपि कुत्रचित्कस्यचिद्रथ्यापुरुषादेरसर्वज्ञत्वेनाभ्युपगमात्। अथ सर्वज्ञत्वादन्यस्तदभावस्तद्विषयं ज्ञानं तदन्यज्ञानम्, तदाऽत्रापि किं सर्वदा सर्वत्र सर्वः सर्वज्ञो न इत्येवं तत्प्रवर्तते, उत कुत्रचित्कदाचित्कश्चित् सर्वज्ञो न इत्येवम्।तत्र नाद्यः पक्षः। सकलदेशकालपुरुषासाक्षात्करणे तदाधारस्य तदभावस्यावगन्तुमशक्यत्वात्, प्रदेशाप्रत्यक्षीकरणे तदाधारस्य घटाभावस्येव, तत्साक्षात्करणे च तदेव सर्वज्ञत्वमिति न तदभावसिद्धिः / अथ द्वितीयः पक्षः / तदा न सर्वत्र सर्वदा सर्वज्ञाभावसिद्धिरिति तदेव सिद्धसाधनम् / प्रमाणपञ्चकनिवृत्तेस्तदभावज्ञानमित्यादि सर्व प्रतिविहितमिति नाभावप्रमाणादपि तदभावावगमोऽभ्युपगन्तुं युक्त इत्यादि यत्, तदप्यविदितपराभिप्रायस्य सर्वज्ञवादिनोऽभिधानम्। यतो नारमाकमतीन्द्रियसर्वज्ञादिपदार्थबाधकं प्रत्यक्षादिप्रमाणं स्वतन्त्र प्रवर्तत इत्यभ्युपगमः। अतीन्द्रियेषु स्वतन्त्रस्य प्रत्यक्षादिप्रमाणस्य भवदभिहितप्राक्तनदोषदुष्टत्वेन प्रवृत्त्यसंभवात् / किन्तुप्रसङ्ग साधनाभिप्रायेण सर्वमेव सर्वज्ञप्रतिक्षेपप्रतिपादकं युक्तिजालमभिहितं यथार्थमभि धानमुद्ब्रहद्भिर्मीमांसकैः। अत एव तदभिप्रायप्रकाशनपरं भगवतो जैमिने: सूत्रम-सत् सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् / / 4 / / इति / यतो नानेनापि सूत्रेण स्वातन्त्र्येण प्रत्यक्षलक्षणमभ्यधायि भगवता। किन्तु-लोकप्रसिद्धलक्षणलक्षितप्रत्यक्षानुवादेन तस्य धर्म प्रत्यनिमित्तत्वं विधीयते / नचैतदत्रापि वक्तव्यम्, कतरस्य प्रत्यक्षस्य धर्म प्रत्यनिमित्तत्वं विधीयते,अस्मदादिप्रत्यक्षस्य, सर्वज्ञप्रत्यक्षस्य वा। अस्मदादिप्रत्यक्षस्य तदनिमित्तत्वप्रतिपादने सिद्धसाधनम् / सर्वज्ञप्रत्यक्षस्य भवन्मतेनाप्रसिद्धत्वाच्छशविषाणस्येव कथं तं प्रत्यनिमित्तताविधिः / अथापि स्यात् परेण तस्याभ्युपगतत्वात्, तं प्रत्यानिमित्तत्वं तत्प्रसिद्ध्यैवोच्यते / तदयुक्तम् / परीक्षापूर्वकत्वेनाभ्युपगमस्य स्थितत्वात्। तत्पूर्वकश्चेत् परस्याभ्युपगमः, तदा भवतोऽपि तस्य तद्भावः, परीक्षायाः प्रमाण-रूपत्वात् / प्रमाणसिद्धं च न परस्यैव सिद्धम् / प्रमाणसिद्धस्य सर्वरवाभ्युपगमनीयत्वात्। अथ प्रमाणव्यतिरेकेण परेण सर्वज्ञप्रत्यक्षमभ्युपगतम्, तदाऽसौ प्रमाणाभावादेव नाभ्युपगमो युक्तः। नच प्रमाणाभ्युपगतस्यास्मदादिप्रत्यक्षविलक्षणस्य सर्ववित्प्रत्यक्षस्यतं प्रत्यनिमित्तत्वं विधातुं युक्तम् 'यतोऽस्मदादिप्रत्यक्षविलक्षणत्वं सर्ववितप्रत्यक्षस्य धर्मादिग्राहकत्वेनैव, तचेत्प्रमाणतोऽभ्युपगतं, कथं तस्यतं प्रत्यनिमित्तत्यमुपपद्येत। तद्ग्राहकप्रमाणवाधितत्वात्। किञ्चायं परस्परविरुद्धोऽपि वाक्यार्थः स्यात, प्रमाणतो धर्मादिग्राहक सर्ववितप्रत्यक्षं यत्प्रसिद्ध तद् धर्मादिग्राहकं न भवतीति / यतो न प्रसङ्गसाधने आश्रया-सिद्धत्वादिदूषणं क्रमते। नहि प्रमाणभूलपराभ्युपगमपूर्वकमेव प्रसङ्ग साधनं प्रवर्तते / किं तर्हि यद्यर्थाभ्युपगमदर्शनपूर्वकम् / अल एव प्रसङ्ग साधनस्य विपर्ययफलत्वम् / विपर्ययस्य च अतीन्द्रियपदार्थविषयप्रत्यक्षनिषेधफलत्वम्, तन्निषेधे च किं प्रत्यक्षस्य धर्मिणो निषेधः, अथ तद्धर्मस्य प्रत्यक्षत्वस्येति? पूर्वस्मिन् पक्षे हेतूनामाश्रयासिद्धतेति प्रतिपादितम्, उत्तरत्र प्रत्यक्षत्वनिषेधे प्रमाणान्तरत्वप्रसक्तिः , विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानलक्षणत्वात्, इति न प्रेर्यभ्। यतो विशेषनिषेधे तस्य विशेषरूपत्वेन सत्त्वस्यैव प्रतिषेधः / नच धर्मासिद्धत्वादिदोषः। यद्यर्थस्याभ्युपगतत्वात्। कथं पुनरस्त्र प्रसङ्गः, विपर्ययो वा क्रियते इति चेत् / तदुच्यते-सार्वज्ञ प्रत्यक्ष यद्यभ्युपगम्तये तदा तत् धर्मग्राहकं न भवति, विद्यमानोपलम्भनत्वात्। नचासिद्धो हेतुः। तथाहि-विद्यमानोपलम्भनमतीन्द्रियार्थजप्रत्यक्ष, सत्संप्रयोगजत्वात्, अस्याप्यसिद्धतोद्भावने एवं वक्तव्यम्। विवादगोचरं प्रत्यक्ष सत्संप्रयोगजं, प्रत्यक्षत्वात्। तच्छब्दवाच्यत्वाद्वाऽस्मदादिप्रत्यक्ष सर्वत्र दृष्टान्त इति प्रसङ्गः। विपर्यस्त्वेवम्-तद्धर्मग्राहकं चेत् न विद्यमानोपलम्भनम्, अविद्यमानत्वात् धर्मस्य। अविद्यमानोपलम्भनत्वेन सत्संप्रयोगजम्। असत्संप्रयोगजत्वे न प्रत्यक्षं,नापितच्छब्दवाच्यम् / प्रसङ्गसाधनाभिप्रायेणैव यधर्थोपक्षेपेण वार्त्तिककृताऽप्यभिहितम्"यदि षड्भिः प्रमाणैः स्यात्, सर्वज्ञः केन वार्यते।। एकेन तु प्रमाणेन,सर्वज्ञो येन कल्प्यते। नून स चक्षुषा सर्वान्, रसादीन् प्रतिपद्यते।।