SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ सव्वण्णु 577 - अभिधानराजेन्द्रः - भाग 7 सव्वण्णु एवानुमानादिति न वक्तव्यम् / इतरेतराश्रयदोषप्रसङ्गात / सिद्धेऽतोऽनुमानात सर्वज्ञाभावे, सर्वसंबन्ध्यनुपलम्भसंभवसामर्थ्यात् हेतोर्विपक्षतो व्यावृत्तिः स्यात् तस्य च विपक्षादव्यावृत्तस्य तत्साधकत्वमिति व्ययतमितरेतराश्रयत्वम् / भवतु वा सर्वसंबन्ध्यनुपलम्भसंभवः, तथापि सकलपुरुषचेतोवृत्तिविशेषाणामसर्वज्ञेन ज्ञातुमशक्तेरसिद्धः सर्वसंबन्ध्यनुपलम्भ इतिन ततो विपक्षव्यावृत्तिनि-श्वयो वक्तृत्वस्यति कुतः संदिग्धविपक्षव्यावृत्तिकाद् हेतोस्तदभा-वसिद्धिः। नापि स्वसंबन्धिनोऽनुपलम्भात् तद्व्यतिरेकनिश्चयः, तस्य स्वपितृव्यपदेशहेतुनाऽप्यनेकान्तिकत्वात् / नचैवंभूतादपि हेतोः साध्यसिद्धिः तथाऽभ्युपगमे न कश्चित्सर्वज्ञाभावमवबुध्यते वक्तृत्वात, रथ्यापुरुषवदिति तदभावावगमाभावस्थापि सिद्धिः स्यात्। अथान्यत्रापि हेतावयं दोषः समान इति सर्वानुमानोच्छेदः। तदयुक्तम्। अन्यत्र विपक्षव्यावृत्तिनिमित्तस्यानुपलगभव्यतिरेकेण बाधकप्रमाणस्य सद्भावात् / नचात्रापि तस्य सद्भाव इतिशक्य वक्तुमातदभावस्य हेतुलक्षणप्रस्तावे वक्ष्माणत्वात किंच-सर्वज्ञप्रतिपादकप्रमाणाभावे तस्यासिद्धत्वात् तदभावसाधनायोपन्यस्यमानः सर्वोऽपि हेतुराश्रयासिद्ध इति न तस्मादभावसिद्धिः। अथ तद्ग्राहकत्वेन प्रमाणं प्रवर्तत इत्याश्रयासिद्धत्वाभावः, तर्हि तत्साधकप्रभाणबाधितत्वात् पक्षस्य न तत्साधनाय हेतुप्रयोगसाफल्यमिति नानुमानावसेयः सर्वज्ञाभावः। अपौरुषेयत्वस्य प्राक्तनन्यायेनासिद्धत्वात्, सर्वज्ञप्रणीतत्वानभ्युपगमे शब्दस्य पुरुषदा - षसंक्रान्त्याऽप्रामाण्यात् न ततोऽपि तदभावसिद्धिः। नच तदभावाभिधायकं किशिद्धेदवाक्य श्रूयते, केवलं तद्भावावेदकवेदवचनोपलब्धिरविगानेन समस्ति-'अपाणिपादो जवनो ग्रहीता,पश्यत्य-चक्षुः स शृणोत्यकर्णः। सव्वेत्ति विश्वं नहि तस्य वेत्ता, तमाहुरा यं पुरुष महान्तम् / (श्वेताश्व०३।१६) तथा हिरण्यगर्भ प्रकृत्य "सर्वज्ञ' इत्यादि। नच स्वरूपेऽर्थे तस्याप्रामाण्यम् तत्र तत्प्रामाण्यस्य प्रतिपादयिष्यमाणत्वात् : तन्न शब्दादपि तदभावसिद्धिः। नाप्युपमानात्तदभावावगमः / यत उपमानमुपमानोपमेययोरध्यक्षत्ये सादृश्यालम्बनमुदेति, अन्यथा''तरमाद्यत् स्मर्यते तत्स्यात्, सादृश्येन विशेषितम्। प्रमेयमुपमानस्य,सादृश्यं वा तदन्वितम्।" (श्लो० वा० सू०५ उपमान० श्लो०३७) इत्यभिधानात प्रत्यक्षेणोपमानोपमेययोरग्रहणे उपमेये स्मरणासंभवात्; कथं स्मर्यमाणपदार्थविशिष्टं सादृश्यं, सादृश्यविशिष्ट वा स्मर्यमाणं वस्तु उपमानविषयः स्यात् / तस्मादिदानींतनोपमानभूताशेषपुरुषप्रत्यक्षत्वम्, उपमेयाशेषान्यकालमनुष्यवर्गसाक्षात्करणं चावश्यमभ्युपगमनीयम्। तदभ्युपगमे च स एव सर्वज्ञ इति कथं उपमानात् तदभावावगमो युक्तः। अतो यदुक्तम्"राज्जातीयैः प्रमाणैस्तु, यज्जातीयार्थदर्शनम्। दृष्ट संप्रति लोकस्य, तथा कालान्तरेऽप्यभूत् // " इति। (श्लो० वा०सू०२ श्लो०११३) तन्निरस्तम्। उपमानस्योक्तन्यायेनात्रवस्तुन्यप्रवृत्तेः / नाप्यर्थापत्तितस्तदभावावगमः, तरयाः प्रमाणत्वेऽनुमानेऽन्तर्भूतत्वात् / तथाहि-' दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत' इत्यदृष्टार्थकल्पनाऽर्थापत्तिः / नचासावथोऽन्यथानुपपद्यमानत्वानवगमे अदृष्टार्थपरिकल्पनानिमित्तम्। अन्यथा स येन विनोपपद्यमानत्वेन निश्चितस्तमपि परिकल्पयेत् येन विना नोपपद्यते तमपि वा न कल्पयेत्। अनक्गतस्यान्यथाऽनुपपन्नत्वेनार्थापत्त्युत्थापकरयार्थस्यान्यथाऽनुपपद्यमानत्वे सत्यप्यदृष्टार्थपरिकल्पकत्वासंभवात्। संभवे वा लिङ्गस्याप्यनिश्चितनियमस्य परोक्षार्थानुमापकत्वं स्यादिति, तदपि नार्थापत्त्युत्थापकादर्थाद्भिद्येत। स चान्यथाऽनुपपद्यमानत्वावगमः, तस्यार्थस्य न भूयो दर्शननिमित्तः सपक्षे। अन्यथा लोहलेख्यं वजं पार्थिवत्वात्, काष्टवदित्यत्रापि साध्यसिद्धिः स्यात् / नापि विपक्षे तस्यानुपलम्भनिमित्तोऽसौ / व्यतिरेकनिश्चायकत्येनानुपलम्भस्य पूर्वमेव निषिद्धत्वात्, किन्तविपर्यये तद्वाधकप्रमाणनिमित्तः / तच बाधकं प्रमाणमर्थापत्तिप्रवृत्तेः प्रागेवानुपपद्यमानस्यार्थस्य तत्र प्रवृत्तिमदभ्युपगन्तव्यम्। अन्यथाऽपित्त्या तस्यान्यथाऽनुपपद्यमानत्वावगमेऽभ्युपगम्यमाने यावत्तस्यान्यथाऽनुप-पद्यमानत्वं नावगतम्, न तावदर्थापत्तिप्रवृत्तिः; यावच नतत्प्रवृत्तिः, न तावदर्थापत्त्युत्थापकस्यार्थस्यान्यथाऽनुपपद्यमानत्वावगम इतीतरेतराश्रयत्वान्नार्थापत्तिप्रवृत्तिः। अत एव यदुक्तम् "अविनाभाविता चात्र, तदैव परिगृह्यते। न प्रागवगतत्यवं, सत्यप्येषा न कारणम् / / तेन संबन्धवेलाया, संबन्ध्यन्यतरो ध्रुवम्। अपित्त्येव मन्तव्यः, पश्चादस्त्वनुमानता।" (श्लो० वा० सू० 5 अर्थापत्ति० श्लो०३०।३३) इत्यादि। तन्निरस्तम्। एवमभ्युपगमेऽर्थापत्तेरनुत्थानस्य प्रतिपादितत्वात्। सच तस्य पूर्वमन्यथाऽनुपपद्यमानत्वावगमः किं दृष्टान्तधर्मिप्रवृत्तप्रमाणसंपाद्यः, आहोस्वित् स्वसाध्यधर्मिप्रवृत्तप्रभाणसंपाद्य इति। तत्र यद्याद्यः पक्षः तदाऽत्रापि वक्तव्यम् / किं तत् दृष्टान्तध-र्मिणि प्रवृत्तं प्रमाणम्, साध्यधर्मिण्यपि साध्यान्यथाऽनुपपन्नत्वं तस्यार्थस्य निश्शाययति, आहोस्थित दृष्टान्तधर्मिण्येव / तत्र यद्याद्यः पक्षः तदाऽर्थापत्त्युत्थापकस्यार्थस्य, लिङ्गस्य वा स्वसाध्यप्रतिपादनव्यापार प्रतिन कश्चिद्विशेषः / अथ द्वितीयः सन युक्तः। नहि दृष्टान्तधर्मिणि निश्चितस्वसाध्यान्यथाऽनुपपद्य-मानत्वोऽर्थोऽन्यत्र साध्यधर्मिणि तथा भवति। नच तथात्वेनानिश्चितः स साध्यधर्मिणि स्वसाध्यं परिकल्पयतीति युक्तम्, अतिप्रसङ्गात। अथ लिङ्गस्य दृष्टान्तधर्मिप्रवृत्तप्रमाणत्ववशात्सर्वोपसंहारेण स्वसाध्यनियतत्वनिश्चयः, अर्थापत्त्युत्थापकस्य त्वर्थस्य स्वसाध्यधर्मिण्येव प्रवृत्तात्प्रमाणात्सर्वोपसंहारेणादृष्टार्थान्यथाऽनुपपद्यमानत्वनिश्चय इति लिङ्गार्थापत्त्युत्थापकयोर्भेदः। नास्मातेदादर्थापत्तरनुमानं भेदमासादयति। अनुमानेऽपि स्वसाध्यधर्मिण्येव विपर्ययाद्धेतुव्यावर्त्तकत्वेन प्रवृत्तं प्रमाण सर्वोपसंहारेण स्वसाध्यनियतत्वनिश्चायकमभ्युपगन्तव्यम् / अन्यथा सर्वमनेकान्तात्मकं सत्त्वादित्यस्य हेतोः पक्षीकृतवस्तुव्यतिरेकेण दृष्टान्तधर्मिणोऽभावात्कथं तत्र प्र
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy