________________ सव्वण्णु 576 - अभिधानराजेन्द्रः - भाग 7 सव्वण्णु सतरादार्थषु तथाभूतप्रमाणप्रमेयत्वस्यासिद्धत्वात् / सिद्धत्वे वा साध्यस्यापि हेतुवत सिद्धत्वात् व्यर्थ हेतूपादानम्, तथाभूतप्रमाणप्रमेयत्वस्य दृष्टान्तऽग्न्यादिलक्षणेऽसिद्धेः संदिग्धान्वयश्च हेतुः स्या-त्। अथास्मदादिप्रमाणप्रमेयत्वं हेतुः तदा तथाभूतप्रमाणप्र-मेयत्वस्य विवादगोचरेष्वतीन्द्रियेष्वसंभवादसिद्धो हेतुः / सिद्धौ वा ततस्तथाभूतप्रत्यक्षत्वसिद्धिरेव स्यात्, तत्रचाविवाद इति न हेतूपन्यासः सफलः / अथोभयप्रमेयत्वव्यक्तिसाधारण प्रमेयत्वसामान्यं हेतुरिति पक्षः, सोऽप्यसङ्गतः, अत्यन्तविलक्षणातीन्द्रियेन्द्रियविषयप्रमाण-प्रमेयत्वव्यक्तिद्वयसाधारणस्य सामान्य-स्यासम्भवात्; नहि शाबलेयकर्कव्यक्तिद्वयसाधारणमेकं गोत्वसामान्यमुपलब्धमिति प्रमेयत्वसामान्यलक्षणो हेतुरसिद्ध इति नानुमानादपि सर्वज्ञसिद्धिः। नापिशब्दात् / यतः शब्दोऽपि तत्प्रतिपादकोऽभ्युपगम्यमानः किं नित्यः,उतानित्य इति कल्पनाद्वयम्। न तावत् नित्यः, सर्वज्ञबोधकस्य नित्यस्यागमस्याभावात्। भावेऽपि तत्प्रतिपादकत्वेन तस्य प्रामाण्यासम्भवात् ,कार्येऽर्थे तत्प्रामाण्यस्य व्यवस्थापितत्वात् / अथानित्यस्तत्प्रतिपादक इति पक्षः, सोऽपि न युक्तः। यतोऽनित्योऽपि किं तत्प्रणीतः स तदवबोधकः, अथ पुरुषान्तरप्रणीत इति विकल्पद्वयम्। तत्रनसर्वज्ञप्रणीतः रा तदवबोधक इतिपक्षोयुक्तः इतरेतराश्रयदोष-प्रसङ्गात्। तथाहि-तत्प्रणीलत्वे तस्य प्रामाण्यम्, ततः तस्य तत्प्रतिपादकत्वमिति व्यक्तमितरेतराश्रयत्वम्। नापि पुरुषान्तर-प्रणीतस्तदवबोधकः तस्योन्मत्तवावयवदप्रमाणत्वात्। तन्न शब्दादपि तस्य सिद्धिः / नाप्युपमानात् तत्सिद्धिः। यत उपमानोपमेय-योरध्यक्षत्वे सादृश्यालम्बनं तदभ्युपगम्यते। नचोपमानभूतः कश्चित् सर्वज्ञत्वेन प्रत्यक्षतः सिद्धः, येन तत्सादृश्यादन्यस्य सर्व-ज्ञत्वमुपमानात् साध्यते। सिद्धी वा प्रत्यक्षत एव सर्वज्ञस्य सिद्धत्वान्नोपमानादपि तत्सिद्धिः। सर्वज्ञसद्भावमन्तरेणानुप-पद्यमानस्य प्रमाणषट्कविज्ञातस्यार्थस्य कस्यचिदभावात नार्थापत्तेरपि सर्वज्ञसत्त्वसिद्धिः / नचागमप्रामाण्यलक्षणस्यार्थस्य तभन्तरेणानुपपद्यमानस्यतत्परिकल्पकत्वम् / अतीन्द्रिये स्वर्गाद्यर्थे तत्प्रणीतत्वनिश्चयमन्तरेण तस्य प्रामाण्यानिश्चयात्। अपौरुषेयत्वादपि तत्प्रामाण्यसंभवात् कुतस्तस्य तमन्तरेणानुपपद्यमानता, तनापत्तितोऽपि तत्सिद्धिः। अभावाख्यस्य तु प्रमाणस्याभावसाधकत्वेन व्यापारातनतत्सद्भावसाधकत्वमान चोपमानार्थापत्यभावप्रमाणानां भवता प्रामाण्यमभ्युपगम्यते इति न तभ्यस्तसिद्धिः। तदुक्तम्"सर्वज्ञो दृश्यते ताव-न्नेदानीमस्मदादिभिः। दृष्टो न चैकदेशोऽस्ति, लिङ्गं वा योऽनुमापयेत्॥११७।। नचागमविधिः कश्चि-न्नित्यः सर्वज्ञबोधकः / नच मन्त्रार्थवादाना, तात्पर्यमवकल्पते / / 11 / / नचागमेन सर्वज्ञ-स्तदीयेऽन्योन्यसंश्रयात्। नरान्तरप्रणीतस्य, प्रामाण्यं गम्यते कथम् / / 116 // " (श्लो० वा० सू०२) ___ इत्यादि / ततो 'ये देशकाल' इत्यादिप्रयोगे नासिद्धो हेतुः / सद्व्यवहारनिषेधश्च, अनुपलम्भमात्रनिमित्तः। अनेकधाऽनेन अन्यत्र प्रवर्तित इत्यत्रापि तन्निमित्तसद्भावात् प्रवर्त्तयितुं युक्तः / अथ 'यथाऽस्माकं' तत्सद्धावावेदकं प्रमाणं नास्ति तथा भवतां तदभावावेदकमपि नास्तीति सद्व्यवहारवदभावव्यवहारोऽपि न प्रवर्तयितव्यः। तथाहि-गर्वविदोsभावः किं प्रत्यक्षसमधिगम्यः, प्रमाणान्तरगम्यो वा? तत्र न तावत्प्रत्यक्षसमधिगम्यः यतः प्रत्यक्षं सर्वज्ञाभावावेदकमभ्युपगम्यमानम्, 'किं सर्वत्र सर्वदा सर्वः सर्वज्ञोन' इत्येवं प्रवर्तते, उत क्वचित्कदाचित् कश्चित् सर्वज्ञो नास्तीत्ये-वमिति कल्पनाद्वयम्। तत्र यदि सर्वत्र सर्वदा सर्वः सर्वज्ञो नेति प्रत्यक्षस्य प्रवृत्तिः, तर्हि न सर्वज्ञाभावः, तज्ज्ञानवत एव सर्वज्ञत्वात् / नहि सकल-देशकालव्यवस्थितपुरुषपरिषत्साक्षात्करणमन्तरेण तदाधारम-सर्वज्ञत्वमवगन्तुं शक्यम्। तत्साक्षात्करणे च कथं न तज्ज्ञानवतः सर्वज्ञत्वमिति, नाद्यः पक्षः। द्वितीयेऽपि पक्षे न सर्वथा सर्वज्ञाभावसिद्धिरिति न प्रत्यक्षात् सर्वज्ञाभावसिद्धिः। अथ न प्रवर्तमान प्रत्यक्षं सर्वज्ञाभावसाधकम् किंतु निवर्तमानम्। ननु पदि निखिलदेशकालाधारसकलपुरुषपरिषदाश्रितानन्तपदार्थ-संविद्व्यापकम, कारणं वा तत् स्यात्, तदा तन्निवर्तमान तथाभूतं सर्वज्ञत्वं व्यावर्तयेत्, नान्यथा / तथाभूतनिवृत्तौ तन्निवृत्तेरसिद्धः। तथाभ्युपगमे वा स एव सर्वज्ञ इति न तेन तन्निषेधः। किंचप्रत्यक्ष-निवृत्तियदि प्रत्यक्षमेव, तदा स एव दोषः / अथप्रत्यक्षादन्या तदा-ऽसौ प्रमाणमप्रमाणं वा / अप्रमाणत्ये, नातः सर्वज्ञाभावसिद्धिः। प्रमाणत्वे नानुमानत्वम्: सर्वात्मसंबन्धिन्याः तन्निवृत्तेर्यथासंख्य-मसिद्धानकान्तिकत्वदोषद्वयसद्भावात्। नचतुच्छा तन्निवृत्तिः तदभावज्ञापिका / तुच्छायाः केनचित् सहप्रतिबन्धाभावेन सर्व-सामर्थ्यविरहेण च ज्ञापकत्वासम्भवात्। तन्न प्रवर्तमान, निवर्त्तमानं वा प्रत्यक्ष तदभावं साधयति। प्रमाणान्तरगम्यत्वेऽपि तद-भावोन तावदनुमानगम्यः / तदभावसाधकानुमानाभावात् / अथ विवादाध्यासितः पुरुषः सर्वज्ञो न भवति, वक्तृत्वात्, रथ्यापुरुष-वदित्यमानं तदभावसाधकम् / नन्वत्र किं प्रमाणान्तरसंवादिनो-ऽर्थस्य वक्तृत्वं हेतुः, उत तद्विपरीतस्य, आहोस्वित् वक्तृत्वमात्र-मिति वक्तव्यम् / यदि प्रमाणान्तरसंवाद्यर्थस्य वक्तृत्वादिति हेतुः, तदा विरुद्धो हेतुः। तथाभूतवक्तृत्वस्य सर्वज्ञ एव भावात् / अथ प्रमाणा-न्तरविसंवादिनोऽर्थस्य वक्तृत्वादिति हेतुः, तदासिद्धसाधनम् / तथाभूतस्य वक्तुरसर्वज्ञत्वेनास्माभिरभ्युपगमात्।अथ वक्तृत्वमात्रं हेतुः। न। तस्य साध्यविपर्ययेण सर्वज्ञत्वेनानुपलब्धेन सहानवस्थानलक्षणस्य तदव्यवच्छेदस्वभावेन च परस्परपरिहार-स्वरूपस्य च विरोधस्याभावात् न ततो व्यावृत्तिसिद्धिरिति न स्वसाध्यनियतत्वम्, तदभावान्न स्वसाध्यसाधकत्वम् / अथ सर्वज्ञो वक्ता नोपलब्ध इति ततो व्यावृत्तिसिद्धिः, न; सर्वसंबन्धिनोऽनुपलम्भस्यासंभवात्। सर्वज्ञ एव वक्तृत्वमात्मन्युपलप्स्यते, सर्वज्ञान्तरेण वा तत्तत्र संवेदिष्यते इति न सम्भवः सर्वसंबन्धिनोऽनुपलम्भस्य। अथ सर्वज्ञस्य कस्य चिदभावात् सर्वसंबन्धिनोऽनुपलम्भस्य संभवः / ननु सर्वज्ञाभावः कुतः सिद्धः / अन्यतः प्रमाणात् चेत् / तत एव तदभावसिद्धरस्य वैयर्थ्यम् / अत