________________ सव्वण्णु 575 - अभिधानराजेन्द्रः - भाग 7 सव्वण्णु प्रत्यक्षायां च सर्वज्ञस्य विवक्षायां कथमिदं ज्ञायते एष सर्वज्ञस्याभिप्रायाऽनेन चाभिप्रायेण शब्दः प्रयुक्तो नाभिप्रायान्तरेण? तत एवं सम्यक परिज्ञानाभावात यामेव वर्णावलीमुक्तवान् भगवान तामेव के वला पृष्ट तो लग्रो गोलमादिरभिभाषते, न पुनः परमार्थत - स्तस्योपदेशरयार्थभवबुध्यते / नं०। (प्रपञ्चतः सार्वज्ञाक्षेपप्रतिक्षेपी 'केवलणाण' शब्दे तृतीयभागे 643 पृष्ठे प्रतिपादिती 1) वीतरा-गादि सर्वज्ञा, न मिथ्या बुवत ततः। यस्मात्तस्माद् वचस्तेषां, तथ्यंभूतार्थदर्शनम्॥१॥ ०१उ०१प्रक०। तथा च तद्वचनम्-"सर्व पश्यतु वामा वा, तत्त्वमिष्ट तु पश्यतु / कीटसंख्यापरिज्ञानं, तस्य नः कोपयुज्यते / / 1 / / ' तथाः- "तस्मादनुष्ठानगतं, ज्ञानमस्य विचार्यताम् / प्रमाण दूरदर्शी-चेदेत गृध्रानुपास्महे ||1||" तन्मतव्यपोहार्थभनन्तविज्ञानमित्यदुष्टमेव / विज्ञानान्त्यं विना एकस्याऽप्यर्थस्य यथावत्परिज्ञाना भावात्। तथा चार्षम्-"जे एगं जाणइ से सव्वं जाणइ। जे सव्वं जाणाइ से एग जाणइ" तथा "एको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तन दृष्टाः / सर्वे भावाः सर्वथा येन दृष्टा,एको भावः सर्वथा तेन दृष्टः 11 // " इति। ननुतर्हि अवाध्यसिद्धन्तमित्यपार्थकं यथोक्तगुणयुक्तस्याय्यभिचारिवचनत्वन तदुक्तसिद्धान्तस्य बाधाऽयोगात्। न / अभिप्रायाऽपरिज्ञानात् / निर्दोषपुरुषप्रणीत एव अबाध्यः सिद्धान्तो नापरेऽपौरूषेयाद्याः, असम्भवादिदोषाघ्रातत्वात् इति ज्ञापनार्थम्, आत्ममात्रतारकमूकाऽन्तकृत्केवल्यादिरूपमुण्डकेवलिनो यथो-क्तसिद्धान्तप्रणयनाऽसमर्थस्य व्यवच्छेदार्थ वा विशेषणमेतत् / स्या०। (''सर्वज्ञो मुख्य एवैकस्तत्प्रतीतिश्च यावताम् / सवैऽपि ते तमापन्ना, मुख्य, सामान्यतो बुधाः // 1 // " इति सर्वतीर्थिक-संमतानां सार्वइयं कुतक्क' शब्दे तृतीयभागे 582 पृष्ठे साधि-तम्।) सर्व सर्वतत्त्वस्वरूपाभिन्नमात्मानं जानाति वेत्तीति सर्व-ज्ञः / आत्मज्ञिनि, अष्ट० 4 अष्टका अथ सर्वज्ञतां साधयतितथाहि-ये देशकालस्वभावविप्रकर्षवन्तः सदुपलम्भकप्रमाणविषयभावमनापन्ना भावा न ते प्रेक्षावतां सद्व्यवहारपथावतारिणः यथा नाकपृष्ठादयस्तथात्वेनाभ्युपगमविषयाः। तथा च समस्तवस्तुविस्तारव्यापिज्ञानरांपत्समन्वितः पुरुष इति सद्व्यवहारप्रतिषेधफलानुपलब्धिः / नचासिद्धौ हेतुः। तथाहि- सकलपदार्थसाक्षात्कारिज्ञानाऽङ्गनाऽऽलिङ्गितः पुरुषः प्रत्यक्षसमधिगम्यो वा अभ्युपगम्येत, अनुमानादिसंवेद्यो वा? न तावदध्यक्षगोचरः,प्रतिनियतसंनिहितरूपादिविषयनियमितसाक्षात्करणस्वभावा हि चक्षुरादिकरणव्यापारसमासादितात्मलाभा ज्ञप्रयो न परर-थं संवेदनामात्रमपि तावदालम्बितुं क्षमाः किमिङ्ग! पुनरनाद्यनन्तातीतानागतवर्तमानसूक्ष्मादिस्वभावसकलपदार्थसाक्षात्कारि संवदेन-विशेष, तदध्यासितं वा पुरुषम्। अविषये चक्षुरादिकरणप्रवर्तितस्य ज्ञानस्य प्रवृत्यसम्भवात्? सम्भवे वाऽन्यतमकरणप्रवर्ति - तस्यापि ज्ञानस्य रूपादिसकलविषयग्राहकत्वेन संम्भवात्, शेषन्द्रियपरिल्पना व्यर्था। नच सूक्ष्मादिसमस्तपदार्थग्रहणमन्तरेण प्रत्यक्षेण तत्साक्षात्करणपवृत्तज्ञानग्रहणम् / ग्राह्याग्रहणे तद्ग्राहकत्वस्यापि तद्गतस्य तेनाग्रहणात् / तदग्रहे च तद्धर्माध्यासितसंवेदनसमन्वितस्थापि न प्रत्यक्षतः प्रतिपत्तिः। नाप्यनुमानतः सकलपदार्थज्ञप्रतिपत्तिः, अनुमानं हि निश्चितस्वसाध्यधर्मधर्मिसंबन्धाद् हेतोरुदयमासादयत्प्रमाणतामाप्नोति, प्रतिबन्धश्च समस्तपदार्थज्ञसत्त्वेन स्वसाध्येन हेतोः किं प्रत्यक्षेण गृहाते. उतानुमानेन / न तावदध्यक्षेण, अध्यक्षस्यात्यक्षज्ञानवत्सत्त्वसाक्षात्करणाक्षमत्वेन तदवगतिनिमित्तहेतुप्रतिबन्धग्रहणे - ऽप्यक्षमत्वात्। नानवगतसंबन्धिना तद्गतसंबन्धावगमो विधातुं शक्यः। नाप्यनुमानेन तद्गतसंबन्धावगमः। तथाभ्युपगमेऽनवस्थेतरेतराश्रयदोषद्रयानतिवृत्तः / नचागृहीत-प्रतिबन्धाद्धेतोरुपजायमानमनुमान प्रमाणताभासादयति। तथा धर्मिसंबन्धावगमोऽपि न प्रत्यक्षतः। अनक्षज्ञानवत्प्रत्यक्षेऽक्षप्रभवस्याध्यक्षस्याप्रवृत्तेः / प्रवत्तौ वाऽध्य-क्षेणैव सर्वविदः संवेदनात्, अनुमाननिबन्धनहेतुव्यापारणं व्यर्थम् / नचानुमानतोऽप्यनक्ष ज्ञानवतोऽवगमः / हेतुपक्षधर्मतावगममन्तरेणानुमानस्यैव धर्भिग्राहकस्याप्रवृत्तेः / नचाप्रतिपन्नपक्षधर्मत्वो हेतुः प्रतिनियतसाध्यप्रतिपत्तिहेतुरिति नानुमानतोऽपि सर्वज्ञप्रतिपत्तिः। किंच-सर्वज्ञसत्तायां साध्यायां त्रयीं दोषजाति हेतु तिवर्त्तते असिद्धविरुद्धानैकान्तिकलक्षणम् / तथाहि-सकलज्ञसत्त्वे साध्ये किं भावधर्मों हेतुः, उताभावधर्मः, आहोस्विदुभयधर्मः। तत्र यदि भावधर्मः, तदाऽसिद्धः / अथाभावधर्मः तदा विरुद्धः / भावे साध्ये अभावधर्मस्याभावाव्यभिचारित्वेन विरुद्धत्वात्। अथोभयधर्मः, तदोभयाव्यभिचारित्वेन सत्तासाधनेऽनैकान्तिकत्वमिति न सकलज्ञसत्त्वसाधने कश्चित् सम्यग् हेतुः सम्भवति / अपि च-यद्यानयतः कश्चित् सकलपदार्थज्ञः साध्योऽभिप्रेतः, तदा तत्कृतप्रतिनियतागमाश्रयणं नोपपन्नं भवताम् / अथ प्रतिनियत एक एवार्हन् सर्वज्ञोऽभ्युपगम्यते, तदा तत्साधने प्रयुक्तस्य हेतोरपरसर्वज्ञस्याभावेन दृष्टान्तानुवृत्त्यसंभवादसाधारणानैकान्तिकस्वादसाधकत्वम्। किंचयत एव हेतोः प्रतिनियतोऽर्हन सर्वज्ञः तत एव बुद्धोऽपि स स्यादिति कुतः प्रतिनियतसर्वज्ञप्रणीतागमाश्रयणमुपपत्तिमत्? इति न कश्चित् सर्वज्ञसाधको हेतुः / अथ सर्वे पदार्थाः कस्यचित्प्रत्यक्षाः प्रमेयत्वादग्न्यादिवदिति तत्साधनहेतुसद्भावः तदसत् यतोऽत्र किं सकलपदार्थसाक्षात्कार्येकज्ञान-प्रत्यक्षत्वं सर्वपदार्थानां साध्यत्वेनाऽभिप्रेतम्, आहोस्वित् प्रतिनियतविषयानेकज्ञानप्रत्यक्षत्वमिति कल्पनाद्वयम् / यद्याद्यः पक्षः स न युक्तः प्रतिनियतरूपादिविषयग्राहकानेकप्रत्ययप्रत्यक्षत्वेन व्याप्तस्याग्न्यादिदृष्टान्त-धर्मिणि, प्रमेयत्वलक्षणस्य हेतोरुपलम्भाद्धेतुविरुद्धत्वसाध्यविकलदृष्टान्तदोषद्वयाघ्रातत्वात, अथ द्वितीयः, सोऽप्यसङ्गतः सिद्ध साझ्यतादोषप्रसगात्। तथा प्रमेयत्वमपि हेतुत्वेनोपन्य-स्यमानं, किमशेषज्ञेयय्यापिप्रमाणप्रमेयत्वव्यक्तिलक्षणमभ्युपगम्यते, उत अस्मदादिप्रमाणप्रमेयत्वव्यक्तिस्वरूपम्, आहो-स्वित् उभयव्यक्तिसाधारणसामान्यस्वभावमिति विकल्पाः। तत्र यदिप्रथमः पक्षः, सनयुक्तः, विवादाध्या