________________ सव्वणयसमूहमय 574 - अभिधानराजेन्द्रः - भाग 7 सवण्णु सव्वणयसमूहमय-त्रि०(सर्वनयसमूहमय) द्रव्यास्तिकादिन यसंघातात्मके, दर्श०४तत्त्व। सव्वणाडय-पुं०(सर्वनाटक) समस्तनाट्यकर्तृषु, कल्प०१अधिक ५क्षण। सवणाण-न०(सर्वज्ञान) सर्वं जानातीति सर्वज्ञानम् / केवलज्ञाने, विशे०। सर्वपरिपूर्णज्ञानम्। क्षायिकज्ञाने केवलज्ञाने, विशे०। सव्वणाणावरणिज्ज-न०(सर्वज्ञानावरणीय) सर्वज्ञानं केवलाख्यभावृणोतीति सर्वज्ञानावरणीयम्। केवलज्ञानावरणे, आदित्यकल्पकवलज्ञानरूपस्य जीवस्याच्छादकतया सान्द्रमेघवृन्दकल्पं हि तत / स्था० २ठा० 40 सव्वणास-पुं०(सर्वनाश) सर्वात्मना नाशे, विशे०। प्रश्न०। सव्वणीइ-स्त्री०(सर्वनीति) समस्तनैगमादिनये, हा०१ अष्ट। सव्वण्णु-पुं०(सर्वज्ञ) सर्व जानातीति सर्वज्ञः। ल०। पं० सं० 1 द्वार। ध०। सर्वसमस्तं, द्रव्यप्रदेशपर्यायरूपं वस्तु जानाति विशेषग्रहणतः समस्तावरणक्षयाविर्भूतकवलं संवेदनेनावबुध्यत इति सर्वज्ञःाला "ज्ञो णत्वेऽभिज्ञादौ" ||8/1 / 56 / / इति कृतणत्त्वस्य ज्ञस्य अत उत्त्वम् / प्रा०ा अनु० वस्तुस्तोमस्य विशेषतयाऽनुज्ञापके, भ० 10 १उ०। विशे०। सूत्र०ा उपा०। आव०ा स्था०। (एतद्विषये 'अस्थिवाय' शब्दे प्रथमभागे 522 पृष्ठे अत्त' शब्दे च 466 पृष्ठे गता वक्तव्यता।) "रागाद्वा द्वेषाद्वा, मोहाद्वा वाक्यमुच्यते ह्यनृतम्। यस्य तु नैते दोषास्तस्यानृतकारणं किं स्यात् / / 1 / / '' इति वचनात्। प्रणेतुश्व निर्दोषत्वमुपपादितमेवेति सिद्ध आगमादप्यात्मा। “एगे आया" इत्यादिवचनात, तदेवं प्रत्यक्षानुमानागमैः सिद्धः प्रमाता प्रमेय चानन्तरमेव बाह्यर्थसाधने साधितम्, तत्सिद्धौ च 'प्रमाणं ज्ञानम्'तच्च प्रमेयाभावे करय ग्राहकमस्तु निर्विषयत्वात्, इति प्रलापमात्रम् कारणमन्तरेण क्रियासिद्धेरयोगाद, लवनादिपु तथादर्शनात्। यच्च अर्थसमकालमित्याद्युक्तम् तत्र विकल्पद्वयः / स्वीक्रियत एव / अस्मदादिप्रत्यक्ष हि समकालार्थाऽऽकलनकुशलं स्मरणमतीतार्थस्य ग्राहकम् शब्दानुमाने च त्रैकालिकस्याऽऽप्यर्थस्य परिच्छेदके निराकारं चैतद्वयमपि। नचातिप्रसङ्ग : रसज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषवशादेवास्य नैयत्येन प्रवृत्तः शेषविकल्पानामस्वीकार एव तिरस्कारः / प्रमितिस्तु प्रमाणस्य फलं स्वसंवेदनसिद्धैव / नानुभवेऽप्युपदेशापेक्षा फलं च द्विधा, आनन्तर्यपारम्पर्यभेदात्, तत्राऽऽनन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम्, पारम्पर्यण केवलज्ञानस्य तावत्फलमौदासीन्यम, शेषप्रमाणानां तु हानोपादानोपेक्षाबुद्धयः / इति सुव्यवस्थित प्रमात्रादिचतुष्टयम्। ततश्च- 'नासन्नसन्नसदस-नचाप्यनुभयात्मकम्। चतुष्कोटिविनिर्मुल्क, तत्त्वमाध्यात्मिका विदुः / / 1 / / ' इत्युन्मत्त भाषितम् / किञ्च-इदं प्रमात्रादीनामवास्तवत्वं शून्यवादिना वस्तु-वृत्त्या तावदेष्टव्यम्। तच्चासी प्रमाणात अभिमन्यते, अप्रमाणाद्वा? न तावदप्रमाणात, तस्याऽकिचित्करवात्। अथ प्रमाणात, तन्न / अवास्तवत्वग्राहकं प्रमाणं सांवृतम्, असावृतम् वा स्यात? यदि सांवृतम, कथं तस्मादवास्तवाद् वास्तवस्य शून्यवादस्य सिद्धिः? तथा तदसिद्धौ च वास्तव एव समस्तोऽपि प्रमात्रादि-व्यवहारः प्राप्तः / अथ तद् ग्राहकं प्रमाणं स्वयमसांवृतम्, तर्हि क्षीणा प्रमात्रादिव्यवहाराऽवास्तवत्वप्रतिज्ञा, तेनैव व्यभिचारात / तदेव पक्षद्वयेऽपि 'इतोव्याघ्र इतस्तटी' इति न्यायेन व्यक्त एव परमार्थतः स्वाभिमतसिद्धिविरोधः / स्या०। स्था०। नं०। वीर एव सर्वज्ञः-सुगतादयोऽपि सौगतादिभिः सकलवस्तुस्तोमसाक्षात्कारिण इष्यन्ते. तत्कि सुगतादिः सकलवस्तुस्तोमसाक्षात्कारीति प्रतिपद्यतामस्माभिः, किया भगवद्वर्द्धमानस्वामीति तदवस्थ एव निश्चयाभावः? स्यादेतत-किमत्र संशयन? यस्य पादारविन्दयुगलं प्रणिनंसवो दिवौकसः परस्परमहमहमिकया विशिष्टविशिष्टतरविभूतिद्युतिपरिकलिताः शतसहस्रसङ्ख्येन विमाननिवहने सकलमपि नभोमण्डलमाच्छादयन्तो महीमवतीर्य पूजादिकमातन्वन्ति स्म स भगवान् वर्द्धमानस्वामी सर्वज्ञो न शेषाः सुगतादयः, मनुष्या हि मूढमनरका अपि सम्भाव्यन्ते न देवाः, ततो यदि शेषा अपि सुगतादयः सर्वज्ञा अभविष्यन् तर्हि तेषामपि देवाः पूजामकरिष्यन, न च कृतवन्तस्तस्मान्न ते सर्वज्ञाः। तदेतत्स्वदर्शनानुरागतरलितमनस्कतासूचकम्, यतो वर्द्धमानस्वामिनो दिवः समागत्य देवास्तथा पूजां कृतवन्त इत्येतदपि कथमवसीयते? भगवत-चिरातीतत्वनेदानीं तनावग्राहकप्रमाणाभावात्। सम्प्रदायादवसीयते इति चेत्, ननु सोऽपि सम्प्रदायो न धूर्तपुरुषप्रवर्तितः-किन्तु सत्यपुरुषप्रवर्तित एवंति कथभवगन्तव्यम? तद्ग्राहक-प्रमाणाभावात, नचाप्रमाणक वयं प्रतिपक्षमाः, मा प्रापदप्रेक्षावत्ताप्रसङ्गः। अन्यच्च मायाविनः स्वयमसर्वज्ञा अपि जगति स्वस्य सर्वज्ञभावं प्रचिकटयिषवस्तथादिधेन्द्रजालवशादर्शयन्ति देवानितस्ततः सञ्चरतः, स्वस्य च पूजादिक कुर्वतः,ततो देवागमदर्शनादपि कथं तस्य सर्वज्ञत्वनिश्चयः? तथा चाह भावल्क एव स्तुतिकारः समन्तभद्रः- 'देवागमनभायान-चामरादिविभूतयः / मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान्।।१।। भवतु वा वर्द्धमानस्वामी सर्वज्ञः तथापि तत्सत्कोऽयमाचारादिक उपदेशो न पुनः केनापिधूर्तेन स्वयं विरचय्य प्रवर्तित इति कथमवसेयम? अतीन्द्रियत्वेनैतद्विषये प्रमाणाभावात् / अथवा-भवत्वेषोऽपि निश्चयो यथा अयमाचारादिके उपदेशो वर्द्धमानस्वामिन इति, तथापि तस्योपदेशस्यायमों नान्य इतिन शक्यः प्रत्येतुम्. नानार्था हि शब्दा लोके प्रवर्तन्ते, तथादर्शनात, ततोऽन्यथाऽप्यर्थसम्भावनायां कथं विवक्षितार्थनियम-निश्चयः? अथ मन्येथास्तदात्वे तत एव सर्वज्ञात् साक्षाच्छ्रवणतो गौतमादेरर्थनियमनिश्चयोऽभूत्तत आचार्यपरम्परयेदानीमपि भवतीति, तदप्ययुक्तम्, यतो नाम गौतमादिरपि छद्मस्थः, छद्मस्थस्य च परचेतोवृत्तिरप्रत्यक्षा, तस्या अतीन्द्रियत्वेनैतद्विषये चक्षुरादीन्द्रियप्रत्यक्षपढ़तेरभावात, अ