________________ सव्वजगुज्जोयग 570 - अभिधानराजेन्द्रः - भाग 7 सव्वजगुज्जोयग सारवादप्रसङ्गः, आह च- "अशुच्यादिरसास्वादप्रसङ्ग श्वानि-वारितः'' किं च-कालतोऽनाद्यनन्तः संसारः, जगति च सर्वदा विद्यमानान्यपि वस्तून्यनन्तानि, ततः संसारं वस्तूनि च क्रमेण विदन् कथमनन्तेनापि कालेन सर्ववेदी भविष्यति? उक्तं च- क्रमेण वेदनं कथ मिति, अत्र प्रतिविधीयते-तत्र यतावदुक्तम्- 'सर्वजग-दुयोतकत्वं भगवतः केन प्रमाणेन प्रतीयते?' इत्यादि, तत्रागम-प्रमाणादिति बूमः / स चागमः कथचिन्नित्यः प्रवाहतोऽनादित्वात्, तथाहि यामेव द्वादशाङ्गी कल्पलताकल्पा भगवान् ऋषभस्वामी पूर्वभवेऽधीतवान, अधीत्य च पर्वभवे इहभवेच यथा-वत्पर्युपास्य फलभूतं केवलज्ञानमवाप्तवान्, तामेवोत्पन्न - केवलज्ञानः सन् शिष्येभ्य उपदिशति, एवं सर्वतीर्थकरेष्वपि द्रष्टव्यम्, ततोऽसावा -गमोऽर्थरूपापेक्षया नित्यः / तथा च वक्ष्यति- ''एस। दुवालसगी न कयाविनासी न कयाविन भवई न कयानि न भविस्सइ, धुवा नीया सासया अक्रया अव्वया अव्वाबाहा अवाट्टया निचा'' इति, अस्मिश्चागमें यथा संसारी संसारं पर्यटति यथा कर्मणामभिसमागमः / यथा च तपःसंयमादिना कर्मणामपगमे कवलाभिव्य-क्तिः तथा सर्व प्रतिपाद्यते, इति सिद्ध आगमात्सवः / यदुप्युक्तम्-'स पौरुषेयो वा' इत्यादि, तत्रार्थतोऽपौरुषेयः, सचन सर्वज्ञप्रकाशितत्वादेव प्रमाणं, किन्तु कथञ्चित् स्वतोऽपि, नि-श्चिताविपरीतप्रत्ययोत्पादकत्वात्, ततो नेतरेतराश्रयदोषप्रसङ्गः, सर्वज्ञप्रणीतत्वावगमाभावेऽपि निश्चिताविपरीतप्रत्ययोत्पादकतया तस्य प्रामाण्यनिश्चयात, ततः सर्वज्ञसिद्धिः, अथैवमागमात् सर्वज्ञः सामान्यतः सिद्ध्यति न विशेष - निर्देशेन यथाऽयं सर्वज्ञ इति, ततः कथं सर्वज्ञकालेऽपि सर्वज्ञोऽयमिति व्यवहारः? उच्यते-पृष्टचि-न्तितसकलपदार्थ-प्रकाशनात् / तथाहियद्यद्भगवान् पृच्छ्य-ते यच यच्च स्वचेतसि पृष्टा चिन्तयति तत्तत्सर्व प्रत्ययपूर्वमुप-दिशति, ततोऽसौ ज्ञायते यथा सर्वज्ञ इति। तेन यदुच्यते भट्टेन- 'सर्वज्ञोऽसाविति ह्येतत्. तत्कालेऽपि बुभुत्सुभिः। तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम्? ||11 // ' इति, तदपास्तं द्रष्टव्यम्, पृष्टचिन्तितसकलपदार्थप्रकाशनेन तस्य सर्वज्ञत्वनिश्चयात्। नन्वेवं व्यवहारतो निश्चयो न निश्चयतः,निश्चयतो हि तदा सर्व्ववेदी विदितो भवति यदा तज्ज्ञेयं सर्वं विदित्वा सर्वत्र संवादो गृह्यते, न चैतत्कर्तुं शवयम्। अर्थकत्र संवाददर्शनादन्यत्रापि सवादी द्रष्टव्यः, एवं तर्हि मायावी बहुजल्पाकः सर्वोऽपि सर्वज्ञः प्राप्नोति, तस्याप्येकदेशसंवाददर्शनाद / आह च-''एकदेशपरिज्ञानं, कस्य नाम न विद्यते? न होक नास्ति सत्यार्थ, पुरुषे बहुजल्पिनि।।१।।" तदयुक्तम्, व्यवहारतोऽपि निश्चयस्य सम्यगनिश्चयत्वात्, वैयाकरणादिनिश्चयवत् / तथाहि-वैयाकरणः कतिपयपृष्टशब्दव्याकरणादयं सम्यग्वैयाकरण इति निश्चीयते, एवं पृष्टचिन्तितार्थ-प्रकाशनात् सर्वज्ञोऽपि। न चैव मायाविनोऽपि सर्वज्ञत्वप्रसङ्गः, मायाविनि सर्वेषु पृष्टपु चिन्तितेषु चार्थेषु संवादायोगात्, निपुणेन च प्रतिपत्ता भवितव्यम् / अथ वैयाकरणोऽन्यन वैयाकरणेन सकल- | व्याकरणशास्त्रार्थसंवादनिश्चयतोऽपि ज्ञातुं शक्यते / ननु सर्वज्ञोऽप्यन्येन सर्वज्ञेन यथावत् ज्ञातुं शक्यत एवेति समानम् / अथ तदानीमन्येन सर्वज्ञन निश्चयतो विज्ञायताम् इदानीं तु सकथं ज्ञायते? उच्यते-इदानीं तु सम्प्रदायादव्याहतप्रवचनार्थप्रकाशनाच / यदप्यवादीत- ऋषभः सर्वज्ञो वर्द्धमानस्वामी सर्वज्ञ इत्यादिरर्थवादः प्राप्नोतीत्यादि तदप्यसारम्, आगमो ह्ययं कल्पः-यो यः सर्वज्ञः उत्पद्यते तेन तेन तत्तत्कल्पवर्तिनां तीर्थकृतां सर्वेषामप्यवश्यं चरितानि वक्तव्यानि, ततो, न ऋषभाद्यभिधानमर्थवादः। यदप्यभिहितम्- 'नाप्युपमानप्रमाणगम्य' इत्यादि, तदप्ययुक्तम्, एकं सर्वज्ञ यदा व्यवहारतो यथावद्विनिश्चित्यान्यमपि सर्वज्ञ व्यवहारतः परिज्ञाय एषोऽपि सर्वज्ञ इति व्यवहरति तदा कथं नोपमानप्रमाणविषयः? अर्थापत्तिगम्योऽपि भगवान, अन्यथाऽऽगमार्थस्य परिज्ञानासम्भवात्, न खल्वतीन्द्रियार्थदर्शनमन्त-रेणागमस्याथर्थोऽतीन्द्रियः पुरुषमात्रेण यथावदवगन्तुं शक्यते, तत आगमार्थपरिज्ञानान्यथाऽनुपपत्त्या सर्वज्ञोऽवश्यमभ्युपगन्तव्यः। एतेन यदुक्तं प्राक्'किमिदानीं सर्वज्ञेन? आगमादेव धर्माधर्मव्यवस्थासिद्धे' रिति, तत्प्रतिक्षिप्तमवसेयं सर्वज्ञमन्तरेणागमार्थस्यैव सम्यक्परिज्ञानासम्भवात्। यचोक्तम्- 'सर्व वस्तु जानाति भगवान् केन प्रमाणेने 'त्यादि, तत्र प्रत्यक्षेणेतिपक्षः, तदपि च प्रत्यक्षमतीन्द्रियमवसेयम्, ननु तत्राप्युक्तम्'तस्यास्तित्व प्रमाणाभावादि' ति, उक्त मिदमयुक्तं तूक्तम्, तदस्तित्वेऽनुमानप्रमाणसद्भावाद्, तचानुमानमिदंयत्तारतम्यवत् तत्सर्वान्तिमप्रकर्षभाक्, यथा परिमाण, तारतम्यवचेदं ज्ञानमिति। न चायम-सिद्धो हेतुः, तथाहि-दृश्यते प्रतिप्राणिप्रज्ञामेधादिगुणपाटवतारतम्यं ज्ञानस्य, ततोऽवश्यमस्य सर्वान्तिमप्रकर्षण भवितव्यम्, यथा परिमाणस्याकाशे. सन्तिमप्रकर्षश्च ज्ञानस्य सकलवस्तुस्तोमप्रकाशकत्वम्। अथ यद्विषयः तरतमभावः सर्वान्तिमप्रकर्षोऽपि तद्विषय एव युक्तः, तरतमभावश्रेन्द्रियाश्रितस्य ज्ञानस्योपलब्धः, ततः सर्वान्तिमप्रकर्षोऽपि तस्यैवेति कथमतीन्द्रियज्ञानसम्भवः? इन्द्रियाश्रितस्य च ज्ञानस्य प्रकर्षभावेऽपि न सर्वविषयता, तस्य सूक्ष्मादावप्रवृत्तेः / अथोच्यते-मनोज्ञानमप्यतीन्द्रियज्ञानमुच्यते, तस्य च तरतमभावः शास्त्रादौ दृष्ट एव। तथाहि-तदेव शास्त्र कश्चित झटित्येव पठति अवधारयति च, अपरस्तु मन्द, बोधतोऽपि कश्चिन्मुकुलितार्थावबोधनपरोविशिष्टावबोधः एवमन्यास्वपि कलासु यथायोग मनोविज्ञानस्यतारतम्य परिभाव्यते, ततः तस्य सर्वान्तिमः प्रकर्षः सर्वविषयो भविष्यति / तदसद्, यतो मनोविज्ञानस्यापि तरतमभावः शास्त्राद्यालम्बन एवोपलब्धः, ततः प्रकर्षभावोऽपि तस्य शास्त्राद्यालम्बनएव युक्त्योपपद्यते न सर्वविषयः, न खल्वन्यविषयोऽभ्यासोऽन्यविषयं प्रकर्षभावमुपजनयति, तथाऽनुपलब्धेः / उक्तं च- "शास्वाद्यभ्यासतः शास्त्रप्रभृत्येवावगच्छतः। साकल्यवेदनं तस्य, कुत एवागमिष्यति? ||11 // ' अत्रोच्यते-इह तावदिन्द्रियज्ञानाश्रितः तरतमभावो न ग्राह्यः, अतीन्द्रियप्रत्यक्षसाधनाय हेतोरुपन्यासात्, तथाहि सकलवस्तुविषयमतीन्द्रियप्रत्यक्षमिदानी