________________ सव्वजगुज्जोयग 571 - अभिधानराजेन्द्रः - भाग 7 सव्वजगुज्जोयग साधयितु मिष्ट, ततः तरतमभावोऽपि हेतुत्वेनोपन्यस्तोऽतीन्द्रियज्ञानस्यैव वेदितव्यः, अन्यथा भिन्नाधिकरणस्य हेतोः पक्षधर्मत्वायोगात, साक्षाचातीन्द्रियग्रहणं न कृतं, प्रस्तावादेव लब्धत्वात् / अतीन्द्रियं च ज्ञानभिन्द्रियानाश्रितं सामान्येन द्रष्टव्यम. तेन मनोज्ञानमपि गृह्यते / यदप्युम्तम्- 'मनोज्ञानस्यापि तरतम-भावः शास्त्राधालम्बन एवेति प्रकर्षभादाऽपि तद्विषय एव युक्त' इति, तदप्यसमीचीन, शारत्राद्यतिक्रान्तस्यापि तरतमभावस्य सम्भवात्। तथाहि-योगिनः परमयोगमिच्छन्तः प्रथमतः शास्त्रमभ्यसितुमुद्यतन्ते, यथाशक्ति च शारत्रानुसारेण सकलमप्यनुष्ठानमनुतिष्ठन्ति, मा भूत्किमपि क्रियावैगुण्यं प्रमादाद्योगाभ्यासयोग्यताहानिति कृत्वा, ततो निरन्तरमेव यथोक्तानुटानपुरस्सरं शास्त्रमभ्यस्यता शुद्धचेतसां प्रतिदिवसमभिवर्द्धन्ते प्रज्ञामधादिगुणाः, ते वाभ्यासादभिवर्द्धमाना अद्यापि स्वसंवेदनप्रमाणेनानुभूयन्ते ततो नासिद्धाः, ततः शनैः शनैरभ्यासप्रकर्षे जायमाने शास्त्रसन्दर्शितापायाः वचनगोचरातीताः शेषप्राणिगण-संवेदनागम्या: सिद्धिपदसम्पद्धेतवः सूक्ष्मसूक्ष्भतरार्थविषया मनाक् समुल्लसतस्फुटप्रतिभासा ज्ञान विशेषा उत्पद्यन्ते, ततः किश्चिदूनात्यन्तप्रकर्षसम्भवे भनसाऽपि निरपक्षमत्यादिज्ञानप्रकर्षपर्यन्तोत्तरकालभावि केवलज्ञानादर्वाक्तनं सवितुरुदयात प्राक् तदालोककल्पमशेषरूपादिवस्तुविषयं प्रातिभ ज्ञानगुदयते, लय स्पष्टाभतयेन्द्रियप्रत्यक्षादधिकतर, न चदमसिद्ध, सर्वदर्शनष्वप्यध्यात्मशास्त्रेषु तस्याभिधानात् / अथ प्रथमती मनःरगपेक्ष-मभ्यासमारब्धवान, अभ्यासप्रकर्षे तूपजायमाने / कधमनोऽपि नालम्बते?, उच्यते-अत्यन्ताभ्यासप्रकर्षवशता मनोनिरपेक्षमपि शक्तत्वात्। तथाहि-तरणशिक्षितुकामः प्रथम तरण्डमपेक्षते, तलाऽभ्यासप्रकर्षयोगतः तरणनिष्णातस्तरण्डमपि परित्यजति, एवं योग्यपि वेदितव्यः / ततः सर्वोत्कृष्टप्रकर्षसम्भवेऽतीव स्फुट-प्रतिभासं सकललोकालोक विषयमनुपममबाध्यं के वलज्ञान-मुदयते, ततो यदुक्तम्-' शास्त्राद्यभ्यासतः शास्त्रप्रभृत्येवावगच्छत ' इत्यादि, तदत्यन्तमाध्यात्मशास्त्रयाथात्म्यवेदिगुरु-सम्पर्कबहिर्भूतत्व-सूचकमवसेयम्। रयादेतत् तारतम्यदर्शनादेस्तुज्ञानस्य प्रकर्षसम्भवानुमान, स तु प्रकर्षः सकलवस्तुविषय इति कथं श्रद्धयम्? न खलु लड्ड नमभ्यासतः तारतम्यवदप्युपलभ्यमान सकललोक-विषयमुपलभ्यते, तदसद्, दृष्टान्तदा -न्तिकयोंर्वषम्यात्। तथाहि- नलडनमभ्यासादुपजायते, किन्तु बलविशेषतः तथाहि-समानेऽपि गरुत्मच्छाखामृगशावकयोरभ्यासे न समान लवनम्, उक्त च- ''गरुत्मच्छाखामृगयो-लडनाभ्यारासम्भवे / समानेऽपि समानत्वं, लङ्घनस्य न विद्यते // 1 // ' अपि चपुरुषयोरपि द्वयोः समानप्रथमयौवनयोरपि समानेऽप्यभ्यासे एकः प्रभूत लघयितु शवनोति, अपरस्तु स्तो कम्, तस्माद्वलसापेक्षं लड़ने नाभ्यासमात्रहेतुकम, अभ्यासस्तु केवल देहवैगुण्यमारमपनयति, तच्च बलं वीर्यान्तरायकर्मक्षयोपशमात, क्षयोपशमश्च जातिभेदापक्षी द्रव्यक्षत्राद्यपेक्षी च। ततो यस्य याव-द्वलं तस्य तावदेव लङ्घनमिति तन्न सकललोकविषयं, जीवस्तुशशाङ्क वइस्वरूपेण सकल-जगत्प्रकाशन स्वभावः, केवलभावरणघनपटलतिरस्कृतप्रभावत्वात्न तथा प्रकाशते / उक्तं च- "स्थितः शीताशुवजीवः, प्रकृत्या भावशुद्धया / चन्द्रिकावच्च विज्ञानं, तदावरणमभवत् / / 1 / / ' ततो यथा प्रचण्डनैर्ऋतपवनप्रहता धनपटलपरमाणवः शनैः शनैनिः स्नेहीभूयापगच्छन्ति, तदपगमनानुसारेण च चन्द्रस्य प्रकाशो जगति वितनुते, तथा जीवस्यापि रागादिभ्यः चित्त विनिवर्य कायवाक्र्चासु संयतस्य सम्यक्शास्त्रानुसारेण च यथावस्थित वस्तुपरिभावयतो ज्ञानादिभावनाप्रभावतो ज्ञानावरणीयादिका परमाणवः शनैः शनैनिः-स्नेहीभूयात्मनः प्रच्यवन्त, कथमेतत्प्रत्ययमिति चेत्? उच्यते-इहाज्ञानादिनिमित्तक ज्ञानावरणीयादि कर्म, ततः तत्प्रतिपक्ष-ज्ञानाद्यासेवनेऽवश्यं तदात्मनः प्रच्यवते। उक्तं च"बंधइ जहेब कम्म, अन्नाणाईहिं कलुसियमणो उ। तह चेव तस्विवक्खे, सहावओ मुच्चई जेण / / 1 / / " ज्ञानावरणीयकर्मपरमाणुप्रच्यवनानुसारेण चात्मनः शनैः शनैज्ञानमधिकमधिकतरमुल्लसति, यदा तु ज्ञानादिभावनाप्रकर्ष वशे नाशेषज्ञानावरणीयादिकर्म परमाण्वपगमः तदा सकलाभ्रपटलविनिर्मुक्तशशाङ्क इव आत्मा लब्धयथा-वस्थितात्मस्वरूपः सकलस्यापि जगतोऽवभासकः, ततो ज्ञानस्य प्रकर्षः सकललोकविषयः / अथवा-सर्वं वस्तु सामान्येन शास्त्रेऽपि प्रतिपाद्यते यथा पशास्तिकायात्मको लोकः, आकाशास्तिकायात्मकश्वालोकः किञ्चिद्विशेषतश्च ऊर्वाधस्तिर्यगलोकाकाशानां सविस्तर तत्राभिधानात्. शास्त्रानुसारेण च ज्ञानाभ्यासः। ततः तरतमभावोऽपि ज्ञानस्य सकलवस्तुविषय एवेति प्रकर्षभावः तद्विषयो न विरुध्यते, लखनं तु सामान्यतोऽपि न सकललोकविषयमिति कथमभ्यासतः तत्प्रकर्षः सकललोकविषयो भवेत्? स्यादेतद्-यद्यपि सामान्यतः शास्त्रानुसारेण सकलवस्तुविषयं ज्ञानमुपजायते तथाऽप्यभ्यासतः तत्प्रकर्षः सकलवरतुगताशेषविशेषविषय इति कथंज्ञार्यत? नात्र किश्चित् प्रमाणभस्ति, न चाप्रमाणक वचा विपश्चितः प्रतिपद्यन्ते, विपश्चित्ताक्षितिप्रसङ्गात् / तदसत, अनुमानप्रमाणसद्भावात् तच्चानुमानमिदम्-जलधिजलपलप्रमाणादयो विशेषाः कस्यजित्प्रत्यक्षाः, ज्ञेयत्वात् घटादिगतरूपादिविशेषवत, ज्ञेयत्वं हि ज्ञानविषयतया व्याप्तम्, न च जलधिजलपलप्रमाणादिरूपेषु विशेषेषु प्रत्यक्षमन्तरेण शेषानुमानादिज्ञानसम्भवः, तथाहि-न ते विशेषा अनुमानप्रमाणगम्याः, लिङ्गाभावात्। नाप्यागमगम्याः, तस्य विधिप्रतिषेधमात्रविषयत्वात् / नाप्युपमानगम्याः, तस्य प्रत्यक्षपुररसरत्वाद् / उक्तं च- "न चागमेन यदसौ, विध्यादिप्रतिपादकः / अप्रत्यक्षत्वतो नैवोपमानस्यापि सम्भवः / / 1 / / " नाप्यर्थापत्तिविषायाः, सा हि दृष्टः श्रुतो वाऽर्थो यदन्तरेण नोपपद्यते यथा काष्ठस्य भरमविकारोऽग्नेर्दाहकशक्ति-मन्तरेण तद्विषया वर्ण्यते, न च दृष्टः श्रुतो वा कोऽप्यर्थः तान् विशेषान्तरेण नोपपद्यते, ततो नापत्तिगम्याः / न चैते विशेषाः स्वरूपेण न सन्ति, विशेषान् विना सामान्यस्यैवासम्भवात्, न च वाच्यमत एव सामान्यस्यान्यथानुपपत्तेरापत्तिगम्याः, नियतरूपतयाऽनवगमात्, प्रातिनैयत्यमेव च विशेषाणां स्वस्वरूपम्, अन्यथा विशेषहानेः सामान्यरूपताप्रसङ्गात्। न च