________________ सव्वधाइ 566 - अभिधानराजेन्द्रः - भाग 7 सव्वजगुज्जोयग सव्वघाइ-त्रि०(सर्वघातिन) सर्वघात्यं केवलज्ञानांदिलक्षण गुणं सर्वथा घातयन्तीत्येवं शीलानि सर्वघातीनि णिन् / ज्ञानदर्शनावरणीयरसस्पर्द्धकेषु, पं० सं०५ द्वार। स०। सव्वघाइणी-स्त्री०(सर्वघातिनी) सर्वस्वविषयघातिनीषु कर्मप्रकृतिषु, कर्म०५कर्म०। (एताश्च 'काम' शब्द तृतीयभागे 265 पृष्ठे सप्रपञ्चमभिहिताः।) सव्वघाइरस-त्रि०(सर्वरसघाति) स्वविषयं ज्ञानादिकं सकल मपि छातयति स्वकार्यसाधन प्रत्यसमl करोति इति सर्वरसघाति / ज्ञानादिगणनाशके, पं० सं०३द्वार। सध्वजंबूणयामय-त्रि०(सर्वजाम्बूनदमय) सर्वात्मना जाम्बूनदमय, जी. ३प्रति० 4 अधिक। सव्वजगवच्छल-त्रि०(सर्वजगद्वत्सल) पृथिव्यादीनां सर्वभूताना रक्षणादना वान्सल्यकर्तरि, प्रश्न० ५संव० द्वार / सव्वजगहिय-पु०(सर्वजगद्धित) सर्वस्मिन जगति ये जीवास्तेभ्यो हित पथ्यम् तद्रक्षणतस्तदुपदेशदानतो वा। सूत्र०१श्रु०११अ०उपदेशनात सर्वप्राणिलोकस्य हितकारिणि, षो०१४विव० सव्वजगुञ्जोयग--पुं०(सर्वजगदुद्द्योतक) सर्व समस्तं जगत्- लोकाऽलोकात्मकगुद्द्योतयति-प्रकाशयति केवलज्ञानदर्शनाभ्यामिति सर्वजगदुद्द्यातकः। जिने, नं। सव्वजगुजोयगस्स। (3) "सर्वजगदुद्द्योतकस्य" सर्व -समस्तं जगत्-लोकालोकात्मकमुद्द्योतयति- प्रकाशयति केवलज्ञानदर्शनाभ्यामिति सर्वजगदुद्योतकः, सस्य भद्रायुष्यक्षमसुखहितार्थहितैराशिपी ति विकल्पेन चतुर्थीविधानात् षष्ठ्यपि भवति, यथा आयुष्यं देवदत्ताय आयुष्यं देवदत्तस्य, अनेन ज्ञानातिशयमाह / ननु विशेषणं तदुपादीयते यत्सम्भवति, 'सम्भवे व्यभिचार च विशेषण' मिति वचनात, न च सर्वजगदुद्द्योतकत्वं सम्भवति, प्रमाणेनाग्रहणात्। तथाहि-सर्वजगदुद्द्योतकत्वं भगवतः किं प्रत्यक्षेण प्रतीयते? उतानुमानेन, आहोश्विदागमेन, उताहो उपमानेन, अथवा-अथापत्त्या? तत्र न तावत्प्रत्यक्षेणभगवतश्विरातीतत्वात् / अपि च-परविज्ञानं सदेव प्रत्यक्षाविषयः, अतीन्द्रिय वात्, ततस्तदात्वेऽपि न प्रत्यक्षेण ग्रहणम / नाप्यनुमानेन तद्धि लिग लिङ्गि सम्बन्धग्रहणपुरस्सरमेव प्रवर्त्तते / लिङ्ग लिङ्गिसम्बन्धग्रहणं च किं प्रत्यक्षेण उतानुमानेत? तद्धि लिङ्ग लिङ्गि सम्बन्धग्रहणपुरस्सरमेव प्रवर्तते, लिङ्ग लिगिसंबन्धग्रहण च किं प्रत्यक्षेणानुमानेन वा तत्र न प्रत्यक्षेण, सर्ववेदनस्यात्यन्तपरोक्षतया प्रत्यक्षेण तस्मिन्नगृहीत तेन सह लिङ्ग स्याविनाभावनिश्रयायोगात / न चानिश्चितविनाभाव लिङ्ग लिङ्गि नो गमकम्, अतिप्रसङ्गात्, यतः कुतश्चिद्यस्य तस्य वा प्रतिपत्तिप्रसक्तेः, नाप्यनुमानेन लिङ्ग लिङ्गि सम्बन्धग्रहणम, अनवस्थाप्रसङ्गात्। तथाहि-तदप्यनुमान लिङ्ग लिङ्गिसम्ब न्धग्रहणतो भवेत, ततस्तत्रापिलिङ्गलिङ्गि सम्बन्धग्रहणमनुमानान्तरात्कर्त्तव्यम, तत्रापि चेयमेव वार्तेत्यनवस्था / नाप्यागमतः सर्ववदनविनिश्चयः, स हि पौरुषेयो वा स्यादपौरुषेयो त्रा? पौरुषेयोऽपि सर्वज्ञकृतो, रथ्यापुरुषकृतो वा? तत्र न तावत् सर्वज्ञकृतः, सर्वज्ञासिद्धौ सर्वज्ञकृ तत्वस्यैवाविनिश्चयात् / अपि च-एवमभ्युपगमे सतीतरेतराश्रयदोषप्रसङ्गः, तथाहि-सर्वज्ञसिद्धौ तत्कृतागम-सिद्धिः, तत्कृतमसिद्धौ च सर्वज्ञसिद्धिः / अथ रथ्यापुरुषप्रणीत इति पक्षस्तर्हि नस प्रमाणमुन्मत्तकप्रणीतशास्त्रवत्, अप्रमाणाच तस्मान्न सुनिश्चितसर्वज्ञसिद्धिः, अप्रमाणात्प्रमेयासिद्धेः, अन्यथा प्रमाणपर्यषणं विशीर्यंत / अथापौरुषेय इति पक्षस्तर्हि ऋषभः सर्वज्ञो वर्द्धमानस्वामी सर्वज्ञ इत्यादिरर्थवादः प्राप्रोति, ऋषभायभावेऽपि भावात्। तथाहि-सवकल्पस्थायी आगमः, ऋषभादयस्त्वधुनातनकल्पवर्तिनः तत ऋषभाद्यभावेऽपि पूर्वमप्यस्यागमस्यैवमेव भावात्कथमेतेषामृषभादी-नामभिधानं तत्र परमार्थसत्? तस्मादर्थवाद एषः, न सर्वज्ञप्रतिपादन-मिति / अपि च-यद्यपौरुषेयागमाभ्युपगमस्तर्हि किमिदानीं सर्वज्ञेन?, आगमादेव धर्माधर्मादिव्यवस्थासिद्धेः, तस्मात् नागमगम्यः सर्ववेदी, नाप्युपमानगम्यः, तस्य प्रत्यक्षपूर्वकत्वात्। तथाहि-प्रत्यक्षप्रसिद्ध-गोपिण्ड-स्य यथा गौः तथा गवय इत्यागमाहितसंस्कारस्याटव्यां पर्यटतो गवयदर्शनानन्तरं तन्नामप्रतिपत्तिरुपमानं प्रमाणं वर्ण्यत, न चैकोऽपि सर्वज्ञः प्रत्यक्षसिद्धो येन तत्सादृश्यावष्टम्भेनान्यस्य विवक्षितपुरुषस्योपमानप्रमाणतः सर्वज्ञ इति प्रतीतिर्भवत् / नाप्यथोपत्तिगम्यः, सा हि प्रत्यक्षादिप्रमाणगोचरीकृतार्थान्यथानुपपत्त्या प्रवर्त्तते, न च कोऽप्यर्थः सर्वज्ञमन्तरेण नोपपद्यते, तत्कथमर्थापत्तिगम्यः? तदेवं प्रमाणपञ्चकावृत्तरभावप्रमाणमेव सर्वज्ञ क्रोडीकराति / उक्तं च- प्रमाणपञ्चकं यत्र, घरतुरूपे न जायते / वस्त्वसत्तावबोधार्थ , तत्राभावप्रमाणता।।१।। अपि च-सर्व वस्तु जानाति भगवान् केन प्रमाणेन? कि प्रत्यक्षेण उत यथासम्भवं सर्वैरव प्रमाणैः, तत्र न तावत्प्रत्यक्षेण, देशकालविप्रकृष्टषु सूक्ष्मेष्वमूर्तेषु च तस्याप्रवृत्तेः, इन्द्रियाणामगोचरत्वात् / यदि पुनस्तत्रापीन्द्रिय व्याप्रियेत तर्हि सर्वः सर्वज्ञो भवेत्, अथन्द्रियप्रत्यक्षादन्यदतीन्द्रिय प्रत्यक्षतस्यास्ति तेन सर्वं जानातीति मन्येथाः, तदप्ययुक्तम, तस्यास्तित्वे प्रमाणाभावात् / न च प्रमाणमन्तरेण प्रमेयसिद्धिः, सर्वस्य सर्वेष्टार्थसिद्धिप्रसक्तेः। अथवा-अस्तु तदपि तथापि सर्वमेतावदेव जगति वस्तु इतिन निश्चयः, न खल्वतीन्द्रियमप्यवधिज्ञानं सर्ववस्तुविषयं सिद्धम, तदपरिच्छिन्नानामपि धर्माधर्मास्तिकायादीना सम्भवाद्, एवं केवलज्ञानापरिच्छिन्नमपि किमपि वस्तु भविष्यतीत्याशङ्काऽनतिवृत्तन सर्वविषय कवलज्ञानं वक्तुं शक्यम्। तथा चकुतः सर्वज्ञस्यापि स्वयमात्मनः सर्वज्ञत्वविनिश्चयः? अथयथायथंसवैरेव प्रमाणः सर्ववस्तुजानातीतिपक्षः, नन्वेवं सति य एवागमे कृतपरिश्रमः स एव सर्वज्ञत्वं प्राप्नोति, आगमस्य प्रायः सर्वार्थ-विषयत्वात्, तथा चकः प्रतिविशेषोवर्द्धमानस्वाम्यादौ? येन स एव प्रमाणमिष्यतेन जैमिनिरिति। अन्यत्र-यथाऽवस्थितसकलवस्तुवेदी सर्वज्ञ इष्यते, ततोऽशुच्यादिरसानामपि यथावस्थिततया संवेदनादशुच्यादिर