________________ सरीरोगाहणा 560 - अभिधानराजेन्द्रः - भाग 7 सलद्धिजोग माहतानि व्यायामप्रवृत्तावत एव निचितानि च-घनीभूतानि गात्राणिअगानि यत्र स तथा, तथाविधः कायो यस्याः सा तथेति, तिक्खाए' त्ति परुषायां वइरामईए ति वज़मय्यां सा हि नीरन्ध्रा कठिना च भवति'सण्हकरणीए' त्ति श्लक्ष्णानि-चूर्णरूपाणि द्रव्याणि क्रियन्ते यस्यां सा लक्षणकरणी-पेषणशिला तस्यां 'वट्टावरएण' ति वर्त्तकवरेण-लोष्टकप्रधानेन 'पुढविकाइयं' ति पृथिवीकायिकसमुदयं 'जतुगोलासमाणं' ति डिम्भरूपक्रीडनकजतुगोलकप्रमाण, नातिमहान्तमित्यर्थः, 'पडिसाहरिए' त्यादि इह प्रतिसंहरणं शिलायाः शिलापुत्रकार संहृत्य पिण्डीकरण प्रतिसंक्षेपणं तु शिलायाः पततः संरक्षणम् / अत्थगइय' त्ति सन्ति एके-केचन आलिद्ध' ति आदग्धाः शिलायां शिलापुत्र के वा लग्नाः 'संघट्टिय'त्ति-सङ्घर्षिताः परिताविय' ति पीडिता 'उद्दविय' त्ति मारिताः, कथम्? यतः पिट्ट त्ति पिष्टाः 'एमहा-लिय' त्ति एवं महतीति महती चातिसूक्ष्मेति भावः, यतो विशिष्टा-यामपि पेषणसामग्यां केचिन्न पिष्टा नैव च छुप्ता अपीति। अत्थे-गइया संघट्टिय' त्ति प्रामुक्तम। भ० 16 श०३ उ० सरीरोवहि-पुं०(शरीरोपधि) शरीररूपायामुपधौ, स्था० १ठा०। सरीसिव-पुं०(शरीसृप) गोधादिषु भुजोरुभ्यां सर्पणशीलेषु तिर्यक्षु, ज्ञा० १श्रु०१अ01 आच०। सूत्र सरूप-त्रि०(स्वरूप) आत्मरूपे, हा० ३१अष्ट०। स्वभावे, पञ्चा० १६विव० सरूवि (ण)-पुं०(सरूपिन्) सह रुपेण मूर्त्या वर्त्तत इति समा-सान्त इनप्रत्यये सरूपी / संस्थानवर्णादिमति सशरीरे जीवे, स्था० २टा० 170 / मा सरोरुह-(सरोरुह) कमले, "सरोरुहं पुंडरीअं' पाइ० ना० १०गाथा। सरोस-त्रि०(सरोष) क्रुद्धे, सूत्र० १श्रु०५अ०२उ०। सलक्खण-न०(स्वलक्षण) लक्ष्यते तदन्यव्यपोहेनाबधार्यते वस्त्वनेनति लक्षणम् / स्वञ्च तल्लक्षण च स्वलक्षणम् / असाधारणधर्म, यथा जीवस्योपयोगः, यथा वा प्रमाणस्य स्वपरावभासकज्ञानत्वम् / स्था० १०टा०३उन * सलक्षण-पुं० लक्षणजे कवौ, दश० २अ० सलक्खणकारणहे उदोस-पुं०(स्वलक्षणकारणहेतुदोष) हेतु - दोषविशेषे, स्था०। सलक्खणकारणहेउदोसे। (सू०७३४) तथा लक्ष्यते तदन्यव्यपोहेनावधार्यत वस्त्वनेनेति लक्षणम, स्वं च | तल्लक्षण चस्वलक्षणं यथा जीवस्योपयोगो यथा वा प्रमाणस्य स्वपरावभासकज्ञानत्वम् 5, तथा करोति कारणं परोक्षार्थनिर्णय-निमित्तमुपपत्तिमात्रं यथा निरुपमसुखः सिद्धो ज्ञानानाबाधप्रकर्षात, नात्र किल सकललोकप्रतीतः साध्यसाधनधानुगतो दृष्टान्तोऽस्तीत्युपपत्तिभात्रता, दृष्टान्तसद्भावेऽस्यैव हेतुव्यपदेशः स्यात् / तथा-हिनोति गमयतीति हेतुः साध्यसद्भावभावतदभावा- भावलक्षणः, ततश्च स्थलक्ष णादीनां द्वन्द्वः, तेषां दोषः, स्वलक्षण-कारणहेतुदोषः। इह कारणशब्दः छन्दोऽथ द्विर्बद्धो ध्येयः / अथवा-सह लक्षणेन यौ कारणहेतू तयोर्दोष इति / विग्रहः / तत्र लक्षणदोषोऽव्याप्तिरतिव्याप्तिर्वा, तत्राव्याप्तिर्यथायस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभदस्तत्स्वलक्षणमिति इदं स्वलक्षणलक्षणम्, इदं चेन्द्रिययत्यक्षमेवाश्रित्य स्यात् न योगिज्ञानम्, योगिज्ञाने हि न सन्निधानासन्निधानाभ्यां प्रतिभासभेदोऽस्ती-त्यतस्तदपेक्षया न किञ्चित्स्वलक्षणं स्यादिति। अतिव्याप्तिर्यथा अर्थोपलब्धिहेतुः प्रमाणमिति प्रमाणलक्षणम्, इह चार्थोपलब्धिहेतुभूताना चक्षुर्दध्योदनभोजनादीनामानन्त्यैन प्रमाणेयत्ता न स्यात्। अथवा-दाष्टान्तिकोऽर्थो लक्ष्यतेऽनेनेति लक्षणं दृष्टान्तस्तदोषःसाध्यविकलत्वादिः, तत्र साध्यविकलता यथा-नित्यः शब्दो मूर्त्तत्वाद, घटवद् / इह घटे नित्यत्वं नास्तीति कारणदोषः / साध्यं प्रति तद्व्यभिचारो यथा- अपौरुषेयो वेदो वेदकारणस्याश्रूयमाणत्वादिति, अश्रूयमाणत्वं हि कारणान्तरादपि सम्भवतीति / हेतुदोषोऽसिद्धविरुद्धानैकान्तिकत्वलक्षणः, तत्रा-सिद्धो यथाऽनित्यः शब्दश्चाक्षुषत्वाद्घटवदिति, अत्र हि चाक्षुषत्वं शब्दे न सिद्ध, विरुद्धो यथा-नित्यः शब्दः कृतकत्वात् घटवद, इह घटे कृतकत्वं नित्यत्वविरुद्धमनित्यत्वमेव साधयतीति, अनेकान्तिको यथा-नित्यः शब्दः प्रमेयत्वादाकाशवत्। इह हि प्रमेयत्वमनित्येष्वपि वर्त्तते ततः संशय एवेति / स्था० १०टा० ३उ०। सलद्धिजोग-पुं०(स्वलब्धियोग) स्वकीयायाः प्राप्तेऽर्ह , ध० अथ स्वलब्धियोग्यतामाहदीक्षावयःपरिणतो, धृतिमाननुवर्तकः / स्वलब्धियोग्यः पीठादिज्ञाता पिण्डैषणादिवित्।१३६। दीक्षावयोभ्यां परिणतः संप्राप्तश्विरप्रव्रजितः पूर्णपर्यायश्चेत्यर्थः। धृतिमान् संयमे सुस्थः अनुवर्तकः सर्वमनोऽनुवृत्ति कर्ता पीठादिज्ञातः कल्पपीठनियुक्तिज्ञाता पिण्डै षणादिवित्प्रतीतार्थः ईदृशः स्वलब्धियोग्यः स्वस्य स्वकीया लब्धिः प्राप्तिस्तस्या योग्यः-अहाँ भवति, पूर्व गुरुपरीक्षिता वस्त्रादि, लब्धिरासीत् इदानी स्वय वस्त्रादिपरीक्षितु योग्यो जात इति भावः। अस्यैव विहारविधिमाहएषोऽपि गुरुणा सार्द्ध, विहरेदा, पृथग्गुरोः। तद्दत्तार्हपरीवारो-ऽन्यथा वा पूर्णकल्पभाक् / / 140 / / एषोऽपि-स्वलब्धिमान आस्तां गुरुलब्धिपरतन्त्र इत्यपिशब्दार्थः, गुरुणा-स्वल ध्यनुज्ञाचार्येण सार्द्धम् अमा विहरेत्-ग्रामाद्नामान्तर गच्छेत् / अत्रापवादमाह-गुरोः पूर्वोक्ताद्वेति पक्षान्तरे पृथक् भिन्नतया विहरेत, कीदृशः सन्नित्याह-तहत्तार्हप-रीवारस्तेन-गुरुणा दत्तः-अर्पितः अझै-योग्यः परीवार:-परि-च्छदो यस्य स तथा, तत्रापवादमाहअन्यथेति गुरुदत्तयोग्यपरिवाराभावे, वेति पक्षान्तरे, पूर्णकल्पभाक् पूर्ण समाप्त कल्पं व्यवस्थाभेदं भजतीति तथा समाप्त कल्पेन विहरतीत्यर्थः / ध०३अधि०