________________ सरीर 538 - अभिधानराजेन्द्रः - भाग 7 सरीर परिमाणानि, द्रव्यतः परिमाण सिद्धेभ्योऽनन्तगुणानि। तैजसं हि शरीर सर्वसंसारिजीवानां प्रत्येकं, संसारिणश्च जीवाः सिद्धभ्योऽनन्तगुणाः | ततस्तैजसशरीराण्यपि सिद्धेभ्योऽनन्तगुणानि भवन्ति। 'सव्वजीवअणतभागूणा' इति सर्वजीवानां योऽनन्ततमो भागस्तेनोनानि / इयमत्र भावना-सिद्धानां तैजसशरीरं न विद्यते, सवशरीरातीतत्वात्, तेषाम, सिद्धाश्च सर्वजीवानामनन्तभागे, ततस्तेनोनानि सर्वजीवानामनन्तभागोनानि भवन्ति / मुक्तानि अनन्तानि / तदेवानन्तत्वं कालक्षेत्रद्रव्यैः प्ररूपयति-'अणंताहिं' इत्यादि कालक्षेतसूत्रे प्रागवत् द्रव्यतः परिमाणं सर्वजीवेभ्योऽनन्तगुणानि / कथमिति चेत्? उच्यते- इह एककस्य संसारिजीवस्य एकैकं तैजसशरीरं, तानि च जीवैर्विप्रमुक्तानि सन्ति प्रागुक्तयुक्तेरनन्तभेदभिन्नानि भवन्ति, तेषां चासंख्येयं काल थावदवस्थानं तावता च कालेन जीवैर्विप्रभुक्तान्यन्यानि तैजसशरीराणि प्रतिजीवमसंख्येयानि अवाप्यन्ते, तेषामपि प्रत्येक प्रागुक्तयुक्त्या अनन्तभेदभिन्नतेति भवन्ति सर्वजीवेभ्योऽनन्तगुणानि। तत्कि जीववर्गप्रमाणानि भवेयुरत आह- 'जीववग्गस्स अर्णतभागे' इति-जीववर्गस्यानन्तभागप्रमाणानि, जीववर्गप्रमाणानि कस्मान्न भवन्तीति चेत्? उच्यते-यदि एकैकस्य जीवस्य सर्वजीवराशिप्रमाणानि किश्चित्समधिकानि वा भवेयुर्येन सिद्धानन्तभागपूरणं भवति ततो जीववर्गप्रमाणानि भवन्ति, वर्गो हि तेनैव राशिना तस्य राशेर्गुणने भवति यथा चतुष्कस्य चतुष्केन गुणने षोडशात्मको वर्ग इति। न चैकैकस्य जीवस्य सर्वजीवप्रमाणानि किशित्समधिकानि वा तैजसशरीराणि किन्त्वतिस्तोकानि, तान्यपि असंख्येयकालावस्थायीनीति, तावता कालेन यान्यप्यन्यानि भवन्ति तान्यपि स्तोकानि; कालस्य स्तोकत्वात्, ततो जीववर्गप्रमाणानि न भवन्ति, किन्तु जीववर्गस्यानन्तभागमात्राणि / अनन्तभागप्रमाणतायां च पूर्वाचार्यप्रदर्शितमिदं निदर्शनम्-सर्वजीवास्तत्ववृत्त्या अनन्ता अपि असत्कल्पनया दशसहस्राणि, तेषा च दशसहस्राणा वर्गो दश कोट्यः, तैजसशरीराणि च मुक्तान्यसत्कल्पनया दशलक्षप्रमाणानि, ततः सर्वजीवेभ्यः किल शतगुणानीति सर्वजीवेभ्योऽनन्तगुणान्युक्तानि / जीववर्गस्य च शततमे भागे वर्तन्ते, ततो जीववर्गस्यानन्तभागमात्राणि / एवं कार्मणशरीराण्यपि बद्धानि मुक्तानि च भावनीयानि, तैजसैः सह समानसंख्यत्वात् / उक्तान्योधिकानि पञ्चापि शरीराणि। (7) संप्रति नैरयिकादिविशेषणविशषितानि शरीराणि चिन्त्यन्तेनेरइयाणं भंते ! केवतिया ओरालियसरीरा पण्णत्ता? गोयमा ! दुविहा पण्णत्ता, तं जहा-बद्धलगा य, मुक्केल्लगा य / तत्थ णं जे ते बद्धेल्लगा ते णं णत्थि, तत्थ णं जे ते मुक्केलगा ते णं अणंता जहा ओरालियमुक्केल्लगा तहा भाणियव्या / नेरइयाणं भंते ! केवइया वेउव्वियसरीरा पण्णत्ता? गोयमा! दुविहा पण्णत्ता, तं / जहा-बद्धलगा य, मुक्के लगा य / तत्थ णं जे ते बद्धेल्लगा ते णं असंखेजा, असंखेजाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो असंखिजाओ सेढीओ पयरस्स असंखेज्जइभागो / तासि णं सेढीणं विक्खंभसूइअंगुलपढमवग्गमूलं बितियवग्गमूलपडुप्पण्णं अह व णं अंगुलबितियवग्गमूलघणप्पमाणमेत्ताओ सेढीतो तत्थ णं जे ते मुक्के लगाते णं जहा आरालियस्स मुक्के लगा तहा भाणियव्वा / नेरइयाणं भंते ! केवइया आहारगसरीरा पण्णत्ता? गोयमा ! दुविहा पण्णत्ता,तं जहा-बद्धेलया य, मुक्केल्लया य / एवं जहा ओरालिए बद्धेल्लगा य भणिया तहेव आहारगा वि भाणियव्वा तेयाकम्मगाइ जहा एएसिं चेव वेउब्वियाई। (सू०१७८) 'नरइयाणं भंते !' इत्यादि, नैरयिकाणां बद्धान्यौदारिकशरीराणि न सन्ति, भवप्रत्ययतस्तेषामौदारिकशरीरासम्भवात्, मुक्तान्योधिकमुक्तोदारिक शरीरवत् / वैक्रियाणि बद्धानि यावन्तो नैरायकास्तावत्प्रमाणानि, तानि चासंख्ययानि / तदेवासख्येयत्यं कालक्षेत्राभ्या प्ररूपयति-'असंखेजाहि' इत्यादि, कालतः पारमाण प्रतिसमयमेकैकशरीरापहारे सामस्त्येनासंख्येयाभिरुत्सपिण्ययसपिणीभिरपहियन्ते / किमुक्तं भवति? असंख्येयासूत्सपिण्यवसप्पिणीषु यावन्तः समयास्तावत्प्रमाणानि, क्षेत्रतोऽसंख्येयाः श्रेणयः, असंख्ययासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीति भावः / अथ प्रतरऽपि सकले असंख्येयाः श्रेणयो भवन्ति प्रतरस्याद्धभागे त्रिभागादौ च / ततः कियत्संख्याकास्ताः श्रेणय इत्याशङ्कयां विशेषनिद्धरिणार्थमाह-प्रतरस्यासंख्येयभागः / किमुक्त भवति? - प्रतरस्यासंख्येयतमेभागे यावत्यः श्रेणयस्तावत्यः परिगृह्यन्ते, इदमन्यद्विशेषतरपरिमाणम्-'तासि णं सेढीणं विक्खंभसूई' इत्यादि, तासां श्रेणीना विष्कम्भतो-विस्तारमधिकृत्य सूचिः-एकप्रादेशिकी श्रेणिरड्गुलप्रथमवर्गमूल द्वितीयवर्गमूलगुणितम्। इयमत्र भावना-इह प्रज्ञापकेन घनीकृतः सप्तरज्जुप्रमाणो लोकः पट्टिकादौ स्थापनीयः, श्रेणिश्च रेखाकारेण दर्शनीया, दर्शयित्या चैवं प्रमाणं वक्तव्यम्- अगुलप्रमाणमात्रस्य प्रदेशस्य क्षेत्रस्य यावान् प्रदेशराशिस्तस्यासंख्येयानि वर्गमूलानि भवन्ति, तद्यथा-प्रथम वर्गमूलं, तस्यापि यद्वर्गमूलं तद् द्वितीयं वर्गमूलं, तस्यापि यद् वर्गमूलं तत् तृतीय वर्गमूलम्-एवमसंख्ययानि वर्गमूलानि भवन्ति। तत्र प्रथम यद्वर्गमूलं तद् द्वितीयेन वर्गमूलेन गुण्यत, गुणिते च सति यावन्तः प्रदेशा भवन्ति तावत्प्रदेशात्मिका सूचिर्बुद्ध्या क्रियते, कृत्वा च विष्कम्भतो दक्षिणोत्तरायततया स्थापनीया, तया च स्थाप्यमानया यावत्यः श्रेणयः स्पृश्यन्ते तावत्यः परिगृह्यन्ते। तत्रेद निदर्शनम् - अङ्गुलमात्रक्षेत्रप्रदेशराशिस्तत्त्वतोऽसंख्यातोऽप्यसत्कल्पनया षट्पशाशदधिके द्वे शते कल्प्येते, तयोः प्रथम वर्गमूलं षोडश द्वितीयं चत्वारस्तृतीय द्वौ / तत्र द्वितीयेन वर्गमूलेन चतु