________________ संकम 32 - अभिधानराजेन्द्रः - भाग 7 संकम न्दकषायत्वं च भवति / ततोऽभिनवकर्मपुद्गलोपादानमपि तेषां स्तोकतरमेव प्राप्यत इति सूक्ष्मनिगोद (जीवानां मन्दयोग) ग्रहणम् "अभवियजोगं जहन्नयं कटु निग्गम्म" ति अभव्यप्रायोग्य जघन्यम अभव्यप्रायोग्यजघन्यकल्पं प्रदेशसञ्चयं कृत्वा ततः सूक्ष्मनिगोदेभ्यो निर्गत्य योग्येषुसम्यक्त्वदेशविरतिसर्वविरतियोग्येषु वसेषु मध्ये उत्पद्य पल्योपमासख्येयभागमध्ये संख्यातीतान् वारान् यावत् सम्यक्त्व स्वल्पकालिकी देशविरतिं च लब्ध्वा / कथ लब्ध्येति चेदुच्यतेसूक्ष्मनिगोदेभ्यो निर्गत्य बादरपृथ्वीक्रायेषु मध्ये समुत्पन्नस्ततोऽन्तमुहूर्तेन कालेन विनिर्गत्य मनुष्येषु पूर्वकोट्यायुष्केषु मध्ये समुत्पन्नः / तत्राऽपि शीघ्रमेव माससप्तकानन्तरं योनिविनिर्गमनेन जातः। ततोऽष्टवार्षिकः सन संयम प्रतिपन्नः। ततो देशोनां पूर्वकोटी यावत् संयममनुपाल्य स्तोकावशेषे जीविते सति मिथ्यात्वं प्रतिपन्नस्ततो मिथ्यात्वेनैव कालगतः सन् दशवर्षसहस्रप्रमाणस्थितिषु देवेषु मध्ये देवत्वेनोपजातः। ततोऽन्तर्मुहूर्तमात्रे गते सति सम्यक्त्वं प्रतिपद्यते। ततो दशवर्षसहस्राणि जीवित्वा तावन्तं च कालं सम्यक्त्वमनुपाल्य पर्यवसानावसरे मिथ्यात्वेन कालगतः सन् बादरपृथिवीकायिकेषु मध्ये समुत्पन्नः। ततोऽन्तर्मुहूर्तेन ततोऽप्युवृत्य मनुष्येषु मध्ये समुत्पद्यते / ततः पुनरपि सम्यक्त्वं वा देशविरतिं वा सर्वविरतिं वा प्रतिपद्यते / एवं देवमनुष्यभवेषु सम्यक्त्वादि गृह्णन मुक्षश्च तावद्वक्तव्यतो यावत् पल्योपमासंख्येयभागमध्ये संख्यातीतान वारान् यावत् सम्यक्त्वलाभः स्वल्पकालिका देशविरतिलामो भवति / इह यदा यदा सम्यक्त्वादिप्रतिपत्तिस्तदा तदाबहुप्रदेशाः प्रकृतीरल्पप्रदेशाः करोति। ततो बहुशः सम्यक्त्वादिप्रतिपरिग्रहणम्। एतेषु च सम्यक्त्वादियोग्येषु भवेषु मध्येऽष्टौ वारान सर्वविरति प्रतिपद्यते तावत् एव वारान, अष्टौ वारानित्यर्थः। विसंयोजनहा-अनन्तानुबन्धिविघातको भूत्वा / तथा चतुसे वारान्मोहनीयमुपशमय्य ततोऽन्यस्मिन् भवे लघुशीघ्र कर्माणि क्षपयन क्षपितकर्माश इत्यभिधीयते / एतेन च क्षपितकर्माशोह जघन्यप्रदेशसंक्रमस्वामित्वे चिन्त्यमाने प्रायेणबाहुल्येन प्रकृतम-धिकारः। काश्चित्पुनःप्रकृतीरधिकृत्य सविशेष भणिष्यामि। तत्र जघन्यप्रदेशसंक्रमस्वामित्वमाहआवरणसत्तगम्मि उ, सहोहिणा तं विणोहिजुयलम्मि। निद्दादुगंतराइय-हासचउक्के य बंधंते // 67|| 'आवरण' ति-अवधिना सह बर्तते यो जीवःतस्य अवधिज्ञानावरणरहित ज्ञानावरणचतुष्टयम, अवधिदर्शनावरणरहित दर्शना - वरणत्रयम, एतासां सप्ताना प्रकृतीनामात्मीयात्मीयबन्धव्यवच्छेदसमये यथाप्रवृत्तसंक्रमेण जघन्यः प्रदेशसंक्रमो भवति। अवधिज्ञानामुत्पादयन प्रभूतान कर्मपुगलान् परिसाटयति स्म / तत एतासा स्वस्वबन्धव्यवच्छेदसमये स्तोका एव पुद्गलाः प्राप्यन्ते। अत्रापि च जघन्यप्रदेशसंक्रमेणाधिकारः, ततोऽवधिना राह यो वर्ततइत्युक्तम / तथा उमवधि विनाऽवधिज्ञानावधिदर्शनरहित इत्यर्थः / अवधियुगले-अवधिज्ञानावरणावधिदर्शनावरणरूपे स्वस्वबन्धव्यवच्छेदसमये जघन्यः प्रदेशसंक्रमो भवति। अव-धिज्ञानमवधिदर्शनं चोत्पादयतः प्रवलक्षयोपशमभावतोऽवधिज्ञानावरणावधिदर्शनावरणयोरतीव रूक्षाः कर्मपुरला जायन्ते / ततो बन्धव्यवच्छेदकालेऽपि प्रभूताःपरिसटन्ति। तथा च सतिजघन्यः प्रदेशसंक्रमो न लभ्यत इति 'तं विणे'त्युक्तम्। 'निद्दे' त्यादि निद्राद्विकंनिद्राप्रचलारूपम्, अन्तरायपशक, हास्यचतुष्क हास्यरतिभयजुगुप्सालक्षणम्, एतासाभेकादशप्रकृतीनां स्वबन्धान्तसमये यथाप्रवृत्तसंक्रमेण जघन्यः प्रदेशसंक्रमो भवति / निद्राद्विकहास्यचतुष्टययोर्बन्धव्यवच्छेदानन्तरं गुणसक्रमेण संक्रमो जायते। ततः प्रभूतं दलिक लभ्यते। अन्तरायपञ्चकस्य बन्धव्यवच्छेदानन्तरं संक्रम एव न भवति, पतद्ग्रहाप्राप्तेः, ततो वन्धान्तसमयग्रहणम्। सायस्सऽणुवसमित्ता, असायबंधणधरिमबंधंते। खवणाए लोभस्स वि, अपुव्वकरणालिगाअंते॥६८|| 'सायस्स' त्ति-अनुपशमय्यमोहनीयोपशममकृत्वा, उपशमश्रेणिमकृत्वेत्यर्थः / असातबन्धानांमध्ये यश्वरमोऽसातबन्धस्तस्यान्तिमे समये वर्तमानस्य क्षपणायोद्यतस्य सातस्य जघन्यः प्रदेशसंक्रमो भवति। परतो हि सातस्य पतद्ग्रहता भवति, न संक्रमः। 'खवणाएं इत्यादि मोहनीयोपशममकृत्वा क्षपणायोद्यतस्यापूर्वकरणाद्धायाः प्रथमावलिकाया अन्तसमये संज्वलनलोभस्य जघन्यः प्रदेशसंक्रमः। परतो गुणसंक्रमे लब्धरयातिप्रभूतस्य दलिकस्य संक्रमावलिकाति-क्रान्तत्वेन संक्रमसम्भवात् जघन्यप्रदेशसंक्रमाभावः। अयरच्छावट्ठिदुर्ग, गालिय थीवेयथीणगिद्धितिगे। सगखवणहापवत्त-स्संते एमेव मिच्छत्ते ||6|| 'अयर' त्ति-सागरोपमाणा द्वे षट्षष्टी यावत्सम्यक्त्वमनुपालयन् स्त्रीवेदस्त्यानद्धिविकलक्षणाश्वतस्रः प्रकृतीलयित्वा तासा सम्बन्धि प्रभूतं कर्मदलिकं परिसाट्य कि चिच्छेषाणां सतीनां तासां क्षपणाय समभ्युद्यतस्य यथाप्रवृत्तकरणान्तिमसमये विध्यातसंक्रमेण जघन्यः प्रदेशसंक्रमो भवति / परतोऽपूर्वकरणे गुणसंक्रमेण पभूतकर्मदलिकसंक्रमसम्भवात् जघन्यप्रदेशसंक्रमो न लभ्यत इति यथाप्रवृत्तकरणन्तसमयग्रहणम् / 'एमेव मिच्छत्त' इति एवमेव पूर्वोक्तेनैव प्रकारेण मिथ्यात्वस्य जधन्यः प्रदेशसंक्रमोऽवगन्तव्यः / तद्यथा-२ षट्षष्टी सागरोपमाणा यावत्सम्यक्त्वमनुपाल्य तावन्त काल मिथ्यात्व गालयित्वा किचिच्छेषस्य मिथ्यात्वस्य क्षपणाय समुद्यतस्य स्वकीययथाप्रवृत्तकरणान्तसमये वर्तमानस्य विध्यातसक्रमेण मिथ्याल्यस्य जघन्यः प्रदेशसंक्रमो भवति, परतो गुणसंक्रमः प्रवर्तते, तेन सन प्राप्यते। हस्सगुणसंकमद्धा-एँ पूरयित्ता समीससम्मत्तं / चिरसम्मत्ता मिच्छ-त्तगयस्सुव्वलणथोगो सिं॥१००।। 'हरस' ति-सम्यक्त्वमुत्पाद्य हस्वया गुणसक्रमाऽट्या स्तो