________________ संकम 33 - अभिधानराजेन्द्रः - भाग 7 संकम ककालेन, गुणसंक्रमेणेत्यर्थः / समिश्रं सम्यक्त्वं, सम्यक्त्वसम्यग्मिथ्यात्वे इत्यर्थः / मिथ्यात्वदलेन पूरयित्वा-आपूर्यचिरेण प्रभूतेन कालेन सम्यक्त्वान्मिथ्यात्वं गतस्य द्वे षट्पष्टी; सागरोपमाणा यावत्सम्यक्त्वमनुपाल्य, मिथ्यात्वं गतस्येत्यर्थः / पल्योपमासंख्येयभागमात्रेण कालेन ते सम्यक्त्वसम्यग्मिथ्यात्वे उद्वलयतः स्तोके उद्वलनसंक्रमे तयोर्जधन्यः प्रदेशसंक्रमो द्विचरमखण्डस्य चरमसमये सम्यक्त्वसम्यग्मिथ्यात्वयोर्यद्दलिकं परस्थाने मिथ्यात्वप्रकृतिरूपे प्रक्षिप्यते स तयोर्जघन्यः प्रदेशसंक्रम इत्यर्थः। संजोयणाण चतुरूव-समित्तु संजोजइत्तु अप्पड़ / अयरच्छावहिदुर्ग, पालियसकहप्पवत्तंते॥१०१|| 'संजोयणाण' त्ति-चतुरो वारान् मोहनीयमुपशमय्य, चतुष्कृत्वो मोहनीयोपशमनेन किं प्रयोजनमिति चेदुच्यते-प्रभूतपुद्गलपरिसाटः। तथाहि-चारित्रमोहनीयप्रकृतीनामुपशमं कुर्वन् स्थितिघातरसघातगुणश्रेणिगुणसंक्रमैः प्रभूतान् पुदलान् परिसाटयतीति। ततश्चतुष्कृत्वो मोहनीयोपशमं कृत्वा मिथ्यात्वं गच्छति। मिथ्यात्वं गतश्च सन् अल्पाद्धाम्-अल्प कालं यावत् संयोजनान् संयोज्यानन्तानुबन्धिनो बवा, तदानीं च चारित्रमोहनीयदलिक स्वल्पमेव विद्यते, चतुष्कृत्वो मोहोपशमकाले तस्य स्थितिघातादिभिर्घातितत्वात् / ततोऽनन्तानुबन्धिनो बध्नन तेषु यथाप्रवृत्तसंक्रमेण स्तोकमेव चारित्रमोहनीयदलिकं संक्रमयति / ततोऽन्तर्मुहूर्ते गते सति पुनरपि सम्यक्त्वं प्रतिपद्यते / तच द्वे षषष्टी सागरोपमाणां यावदनुपाल्यानन्तानुबन्धिना क्षपणाय समुद्यतते / तस्य स्वकयथाप्रवृत्तकरणान्तसमये तेषाममन्तानुबन्धिनां विध्यातसंक्रमेण जघन्यः प्रदेशसंक्रमो भवति। परतोऽपूर्वकरणे गुणसंक्रमः प्रवर्तते इति सन प्राप्यते। अट्ठकसायासाए, य असुभधुवबन्धि अत्थिरत्तिगे य। सव्वलहुं खवणाए, अहापवत्तस्स चरिमम्मि॥१०२॥ 'अट्ठ' त्ति-अप्रत्याख्यानप्रत्याख्यानावरणरूपा अष्टौ कषायाः, असातवेदनीयम्, अशुभधुवबन्धिन्यः कुवर्णादिनवकोपघातरूपाः, अस्थिरत्रिकम्-अस्थिराशुभायशःकीर्तिसंज्ञम् एतासां द्वाविंशतिप्रकृतीनां कषायाष्टकरहितानाम्। 'सव्वलहुँ तिसर्वेभ्योऽन्येभ्यः शीघ्रमेव क्षपणायोस्थितस्य मासपृथक्त्वाभ्यधिकेषु अष्टसु वर्षेष्वतिक्रान्तेषु; क्षपणायोद्यतस्येत्यर्थः / अष्टौ कषायान् प्रति देशोना पूर्वकोटी यावत् संयममनुपाल्य। पञ्चसंग्रहे पुनः सर्वा अप्येताः प्रकृतीरधिकृत्य देशोनां पूर्वकोटी यावत् संयममनुपाल्येत्युक्तम्। क्षपक श्रेणिं प्रतिपन्नस्य यथाप्रवृत्तकरणचरमसमये कषायाष्टकस्य विध्यातसंक्रमेण शेषाणां यथाप्रवृतसंक्रमेण जघन्यः प्रदेशसक्रमो भवति। पुरिसे संजलणतिगे, य घोलमाणेण चरमबद्धस्स। सगअंतिमे असाए-ण समा अरई य सोगो य॥१०३।। 'पुरिसे' त्ति- 'पुरिसे' इत्यादौ षष्ठ्यर्थे सप्तमी। पुरूषवेदस्य संज्वल- | नत्रिकस्य च क्रोधमानमायारूपस्य क्षपणाय समुद्यतेन क्षपण श्रेणिं प्रतिपन्नेन स्वस्वबन्धचरसमये। 'घोलमाणेणं' ति जघन्ययोगिना यद्बद्ध दलिकं तस्य चरमसंक्षोभे जघन्यः प्रदेशसंक्रमो भवति। तथाहि-आसां चतसृणामपि प्रकृतीना बन्धव्यवच्छदसमये समयोनावलिकाद्विकबद्धं मुक्त्वाऽन्यत् प्रदेशसत्कर्म न विद्यते / तदपि च प्रतिसमयं संक्रमेण क्षयमुपगच्छति / तावत् यावचरमसमयबद्धस्यासंख्येयो भागः शेषो भवति / ततस्तं सर्व-संक्रमेण संक्रमयतो जघन्यः प्रदेशसंक्रमः 'असाएण समा अरई य सोगो य' त्ति अरतिशोकावसातसमौ असातवेदनीयस्येवारतिशोकयोर्जघन्यः प्रदेशसंक्रमो भावनीय इत्यर्थः / वेउव्विक्कारसगं, उव्वलियं बंधिऊण अप्पद्धं / जिट्ठठिई निरयाओ, उव्वट्टित्ता अबंधित्तु / / 104|| थावरगयस्स चिरउ-व्वलणो एयस्स एव उच्चस्स। मणुयदुगस्स य तेउसु, वाउसु वा सुहुमबद्धाणं / / 105|| 'वेउवि' त्ति-देवद्विकनरकद्विकवैक्रियसप्तकलक्षणं वैक्रियैकादशकम् एकेन्द्रियभवे उद्वर्तमानेनोद्वलितं पुनरपि पञ्चेन्द्रियत्वमुपागतेन सता, अल्पाऽद्धाम-अल्पकालम्, अन्तर्मुहूर्तकालं यावदित्यर्थः / बवा, ततो ज्येष्टस्थितिरूत्कृष्टस्थितिस्त्रयस्त्रिंशत्सागरोपमस्थितिक इत्यर्थः / सप्तमनरकपृथिव्या नारको जातः / ततस्तावन्तं कालं यावत् यथायागं तद्वैक्रियैकादशकमनुभूय ततो नरकादुद्वृत्य पश्चेन्द्रियतिर्यक्षु मध्ये समुत्पन्नः / तत्र च तद्वैक्रियै-कादशकमबद्धा स्थावरेष्वेकेन्द्रियेषु मध्ये समुत्पन्नः। तस्य चिरोद्वलनया पल्योपमासंख्येयभागमात्रेण कालेनोद्वलनया तदुद्वलयतो यत् द्विचरमखण्डस्य चरमसमये प्रकृत्यन्तरे दलिक संक्रामति, स तस्य वैक्रियेकादशकस्य जघन्यः प्रदेशसंक्रमः। 'एयस्से' त्यादि एतस्यैवानन्तररोक्तस्य जीवस्य पूर्वोक्तेन विधिना तेजोवायुषु मध्ये समागतस्य सूक्ष्मैकेन्द्रियभवे वर्तमानेन यद्बद्धमुच्चैर्गोत्र मनुजद्विकं च-मनुजगतिमनुजानुपूर्वीलक्षणम्। ते चिरोद्वलनयोद्वलयतो द्विचरमखण्डस्य चरमसमये परप्रकृतौ यद्दलिकं संक्रामति स तयोर्जघन्यः प्रदेशसंक्रमः / इयमत्र भावना-मनुजद्विकमुच्चैर्गोत्रं च प्रथमतस्तेजोवायुभवे वर्तमानेनोद्वलितं, पुनरपि सूक्ष्मैकेन्द्रियभवमुपागतेनान्तर्मुहूर्त यावददम् / ततः पञ्चेन्द्रियभवं गत्वा सप्तमनरकपृथिव्यामुत्कृष्टस्थितिको नारको जातः / तत उद्धृत्य पद्धेन्द्रियतिर्यक्षु मध्ये समुत्पन्नः / एतावन्तं च कालमबद्ध्वा प्रदेशसंक्रमेण चानुभूय तेजोवायुषु मध्ये समागतः / तस्य मनुजद्विकोच्चेर्गोत्र चिरोद्वलनयोद्वलयतो द्विचरमखण्डस्य चरमसमये परप्रकृतौ यद्द (लिक)ल संक्रामति स तयोर्जधन्यः प्रदेशसंक्रमः / हस्सं कालं बंधिय, विरओ आहारसत्तगं गंतु / अविरइं महुब्बलंत-स्स,जा थोवउव्वलणा।।१०६।। 'हस्सं त्ति-हस्वकाल-स्तोककाल यावत् विरतोऽप्रमत्तसंयतः सन्आहारकसातकंबवा कादयपरिणतिवशात्पुनरप्यविरतिंगतः। ततोऽन्तर्मुहूर्तात्परतो महोद्वलनया चिरोद्वलनया पल्योपमासंख्येयभागप्रमाणेन कालेनोद्वलन