________________ संकम 31 - अभिधानराजेन्द्रः - भाग 7 संकम समचतुरससंस्थानपराघाताच्छासप्रशस्तविहायोगतित्रसयादरपर्याप्तप्रत्ये कसुभगसुखरादेयलक्षणा द्वादश प्रकृतयः शुभसंहननयुता वजर्षभनाराचसंहननसहिताः वर्षभनाराचं हि देवभवे नारकभवे वा वर्तमानाः सम्यग्दृष्टयो वध्नन्ति, न मनुजतिर्यग्भवे, तत्र वर्तमानानां सम्यगदृष्टीना देवगतिप्रायोग्यबन्धसम्भवेन संहननबन्धासम्भवात् / ततो नेतत्सम्यग्दृष्टः शुभध्रुवबन्धीति पृथगुपात्तम्। तथा द्वात्रिंशदधिकसागरोपमशतचिताः / तथाहि-षट्षष्टिसागरोपमाणि यावत्सम्यक्त्वमनुपालयन एता बानाति / ततोऽन्तर्मुहूर्त कालं यावत् सम्यग्मिथ्यात्वमनुभूय पुनरपि सम्यक्त्वं प्रतिपद्यते। ततो भूयोऽपि सम्यक्त्वमनुभवन् षट्षष्टिसागरोपमाणि यावदेताः प्रकृतीबंध्नातीति / तदेवं द्वात्रिंशदभ्यधिकं सागरोपमशतं यावत् सम्यग्दृष्टिधुवा आपूर्य,वर्षभनाराचसंहननं तु मनुष्यभवहीनं यथासम्भवमुत्कृष्ट कालमापूर्य, ततः सम्यग्दृष्टधुंवा अपूर्वकरणगुणस्थानके बन्धव्यवच्छेदानन्तरमावलिकामात्र कालमतिक्रय यशःकीर्ती संक्रमयतस्तासामुत्कृष्टः प्रदेशसंक्रमः, तदानी प्रकृत्यन्तरदलिकानामप्यतिप्रभूतानां गुणसंक्रमेण लब्धाना संक्रमावलिकातिक्रान्तत्वेन संक्रमसंभवात्। वजर्षभनाराचसंहननस्य तु देवभवाच्च्युतः सन् सम्यगदृष्टिदेवगतिप्रायोग्य बध्नन् आयलिकामात्र कालमतिक्रम्योत्कृष्ट प्रदेशसंक्रमे करोति। पूरित्तु पुव्वकोडी-पुहुत्तसंछोभगस्स निरयदुगं / देवगईनवंगस्स य,सगबंधंतालिगं गंतुं 1800 'पूरितु' ति-नरकद्विकम्-नरकगतिनरकानुपूर्वीलक्षणं पूर्वकोटीपृथक्त्वं यावत्पूरयित्वा, सप्तसुपूर्वकोट्यायुष्केसु तिर्यग्भवेषु भयो भूयो बढेत्यर्थः / ततोऽष्टमभवे मनुष्यो भूत्वा क्षपकश्रेणिं प्रतिपन्नोऽन्यत्र तन्नरकद्विकं संक्रमयन चरमसंक्षोभे सर्वसंक्रमेण तस्योत्कृष्ट प्रदेशसक्रम करोति / तथा देवगतिनवकंदेवगतिदेवानुपूर्वीवक्रियसप्तकलक्षणं यदा पूर्वकोटिपृथक्त्वं यावदापूर्याष्टमभवे क्षपक श्रेणिं प्रतिपन्नः सन् स्वकबन्धान्तात् स्वबन्धव्यवच्छेदादनन्तरमावलिकामानं कालमतिक्रम्य यशःकीर्ती प्रक्षिपति तदा तस्योत्कृष्टप्रदेशसंक्रमो भवति / तदानी हि प्रकृश्यन्तरदलिकानामपि गुणसंक्रमेण लब्धानां संक्रमावलिकातिकान्तत्वेन संक्रमः प्राप्यत इति कृत्वा। सव्वचिरं सम्मत्तं, अणुपालिय पूरइत्तु मणुयदुगं / सत्तमखिइनिग्गइए, पढमे समए नरदुगस्स।।६१|| 'सव्वचिरं' ति-सचिरं सर्वोत्कृष्ट कालमन्तर्मुहूर्तोनानि, त्रयस्त्रिंशत्सागरोपमाणीत्यर्थः सम्यक्त्वमनुपाल्य नारकः सप्तमक्षितौ वर्तमानः सम्यक्त्वप्रत्ययं तावन्तं कालं मनुजद्विकंमनुजगतिमनुजानुपूर्वीलक्षणामापूर्यबद्ध्वा चरमऽन्तर्मुहूर्ते मिथ्यात्वं गतः। ततस्तन्निमित्तं तिर्यद्विक तस्य बध्नतो गुणितकर्माशस्य सप्तमपृथिव्याः सकाशाद्विनिर्गतस्य प्रथमसमये एव मनुजद्विकं यथा-प्रवृत्तसंक्रमेण तस्मिन् तिर्यग्द्विके बध्यमाने संक्रमयतस्तस्य मनुजद्विकस्योत्कृष्टः प्रदेशसंक्रमो भवति। थावस्तज्जाआया, वुज्जोयाओ नपुंसगसमाओ। आहारगतित्थयरं, थिरसममुक्कस्स समकालं ||2|| 'थावर' ति-स्थावरनाम तथा तजातिः-स्थावरजातिःएकेन्द्रियजातिरित्यर्थः। तथा आतपनाम- उद्द्योतनाम। एताश्चतसः प्रकृतयो नपुंसकसमाः-नपुसकवेदस्येव आसामपि प्रकृतीनामुत्कृष्टः प्रदेशसंक्रमो, भावनीय इत्यर्थः / तथा आहारकसप्तकं तीर्थकरनाम च स्थिरसम वक्तव्यम्। केवलं तदुत्कृष्टस्वकबन्धकालं यावदापूरणीयमभिधातव्यम्। इयमत्र भावना-आहारकसप्तक तीर्थकरनाम चोत्कृष्ट स्वबन्धकालं यावंदापूर्य तत्राहारकसप्तकस्य स्वबन्धकाल उत्कृष्टोदेशोनां पूर्वकोटीं यावत्सयममनुपालयतो यावानप्रमत्तताकालस्तावान् सर्वो वेदितव्यः। तीर्थकरनाम्नश्च स्वबन्धकाल उत्कृष्टो देशोनपूर्वकोटीद्वयाभ्यधिकानि त्रयस्त्रिंशत्सागरोपमाणि / तत एतावन्तं कालं यावदापूर्य क्षपकश्रेणिं प्रतिपन्नो यदा बन्धव्यवच्छेदादनन्तरमावलिकामात्र कालमतिक्रम्य यशः कीर्ता संक्रमयति, तदा तयोरूत्कृष्टः प्रदेशसंक्रमः। चउरूवसमित्तु मोहं, मिच्छत्तगयस्स नीयबन्धंतो। उच्चागोउक्कोसो, तत्तो लहु सिज्झओ होइ॥६३|| 'चउ' ति-इह मोहोपशमं कुर्वन उचैर्गोत्रमेव बध्नाति, न नीचैर्गोत्रम्। नीचे गोत्रसत्कानि च दलिकानि गुणसंक्रमेणोचैर्गोत्रे संक्रमयति / ततश्चतुष्कृत्वो मोहोपशमग्रहणमवश्यं कर्तव्यम् / तत्र चतुरो वारान् मोहनीयमुपशमयन उचैर्गोत्रं च बध्नन् तत्र नीचैर्गोत्रं गुणसंक्रमेण संक्रमयति / चतुष्कृत्वश्च मोहोपशमः किल भवद्वयेन भवति। ततस्तृतीये भवे मिथ्यात्वं गतः सन नीचैर्गोत्रं बध्नाति, तच बध्नन् तत्रोचैर्गोत्रं संक्रमयति। ततः पुनरपि सम्यक्त्वमासाद्योधैर्गोत्रं बध्नन् तत्र नीचैर्गोत्रं संक्रमयति / एवं भूयो भूय उच्चैर्गोत्र नीचैर्गोत्रं च बध्नतो नीचुर्गोत्रबन्धव्यवच्छेदानन्तरं शीघ्रमेव सिद्धि गन्तुकामस्य नीचैर्गोत्रबन्धचरमसमये उच्चैर्गोत्रस्य गुणसंक्रमेण बन्धेन चोपचितीकृतस्योत्कृष्टः प्रदेशसंक्रमो भवति। तदेवमुक्तमुत्कृष्टप्रदेशसक्रमस्वामित्वम्। सम्प्रति जघन्यप्रदेशसंक्रमस्वामित्वमभिधानीयम्। तच्च प्रायः क्षपितक मशि प्राप्यत इति तस्यैव स्वरूपमाहपल्लासंखियभागो-ण कम्मठिइमच्छिओ निगोएसु। सुहमे सभवियजोग्गं, जहन्नयं कटु निग्गम्म ||6|| जोग्गे ससंखवारे, सम्मत्तं लमिय देसविरयं च / अट्ठक्खुत्तो विरई, संजोयणहा य तइवारे / / 5 / / चउरूवसमित्तु मोहं, लहुं खवें तो भवे खवियकम्मो। पाएण तहिं पगयं, पडुच काई वि सविसेसं / / 66|| 'पल्ल' ति-यो जीवः पल्योपमासंख्येयभागन्यूनां कर्म स्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणां यावत् पल्योपमासंख्येयभागहीनं सप्ततिसागरोपमकोटीकोटीप्रमाणं काल यावदित्यर्थः / सूक्ष्मनिगोदेषु सूक्ष्मानन्तकाथिकेषु मध्ये उषित्वा / सूक्ष्मनिगोदा हि स्वल्पायुषी भवन्ति, ततरतेषा प्रभूतजन्ममरणभावेन वेदनानिां प्रभूतपुद्रलपरिसाट उपजायते। अपि च-सूक्ष्मनिगोदजीवानां मन्दयोगता म