________________ संकम 30 - अभिधानराजेन्द्रः - भाग 7 संकम संजोयणा विसंजो-यगस्स संछोभणा एसिं॥३॥ 'भिन्नमुहुने' त्ति-सगुणितकर्माशः सप्तमपृथिव्यां वर्तमानो भिन्नमुहुर्ताविशेषे आयुषि तस्मिन् भवे यानि चरमावश्यकानि- “जोगजवमज्डाउवरिं, मुहुत्तमच्छित्तु जीवियवसाणे। तिचरिमदुचरिमसमए, पूरितु कसायउक्कस्सं / / 1 / / " इत्यादिलक्षणानि तानि कृत्वा तस्याश्च सप्तमपृथिव्या उद्धृत्य सम्यक्त्वं चोत्पाद्य वेदकसम्यग्दृष्टि: सन् संयोजनान् अनन्तानुबन्धिनो विसंयोजयति। विसंयोजना क्षपणा। तत एषामनन्तानुबन्धिनां चरमसंक्षोभे सर्वसंक्रमेणोत्कृष्टः प्रदेशसंक्रमो भवति। ईसाणागथपुरिस-स्स इत्थियाएय अट्ठवासाए। मासपुहुत्तब्भहिए, नपुंसगे सव्यसंकमणे ||4|| 'ईसाणागय' त्ति-ईशानदेवो गुणितकर्माशः संक्लेशपरिणामेनेकेन्द्रियप्रायोग्यं वध्नन नपुंसकवेदं भूयो भूयो बद्ध्वा तत् ईशानाच्च्युतः सन स्त्री वा पुरूषो वा जातः / ततो मासपृथक्त्वाभ्यधिकेष्वष्टसु वर्षेष्वतिक्रान्तेषु क्षपणायोद्यतते। तस्य नपुंसकवेदं क्षपयतश्वरमसंक्षोभे सर्वसंक्रमण नपुंसकवेदस्योत्कृष्टः प्रदेशसंक्रमो भवति। इत्थीऍ भोगभूमिसु,जीवियवासाण संखियाणि तओ। हस्सठिई देवत्ता, सव्वलहुंसव्वसंछा।।८।। 'इत्थीए'त्ति-भोगभूमिषु भूयो भूयोऽसंख्येयवर्षाणि यावत् स्त्रीवेदं बवा ततः पल्योपमासंख्येयभागे गते सति अकालमृत्युना मृत्वा हस्वस्थिति दशवर्षसहस्रप्रमाणा देवायुषो वद्ध्वा देवत्वेनोत्पन्नः। तत्रापि तमेव स्त्रीवेदमापूर्य स्वायुःपर्यन्ते मनुजेषु मध्येऽन्यतरवेदसहितो जातः / ततो लघुशीघ्र क्षपणायोद्यतः। ततः इ 'इत्थीए' ति तस्य स्त्रीवेदस्य क्षपणसमये-चरमसंक्षोभे सर्वसंक्रमेणोत्कृष्ट प्रदेशसंक्रमो भवति / इहैवमेव स्त्रीवेदस्योत्कृष्टमापूरणमुत्कृष्टश्च प्रदेशसंक्रमः केवलज्ञानेनोपलब्धो नान्यथेत्येषेव युक्तिस्त्रानुसतव्या, न युक्त्यन्तराणि युक्त्यन्तराणां चिरन्तनग्रन्थेषु अदर्शनतो निर्मूलतयाऽन्यथाऽपि कर्तुं शक्यत्वात् / एवमुत्तरत्रापि यथायोग तथैव केलज्ञानेनोपलम्भादित्युत्तरमनुसरणीयम्। वरिसवरित्थिं पूरिय, सम्मत्तमसंखवासियं लहियं / गंता मिच्छत्तमओ, जहन्नदेवट्ठिई भोच्चा / / 6 / / 'वारेसवर' ति-वर्षवरी नपुंसकवेदः तमीशानदेवलोके प्रभूतकालमापूर्य भूयो भूयो बन्धेन दलिकान्तरसंक्रमणेन च स्वायुः क्षये ततश्च्युत्वा संख्येयवर्षायुष्केषु मध्ये समागत्य पुनरसंख्येयवर्षायुष्केषु मध्ये समुत्पन्नः / तत्रासंख्येयवर्षाणि यावत् स्त्रीवेदमापूर्य ततोऽसंख्येयवर्षाणि यावत् सम्यक्त्वं लब्ध्वा-आस्वाद्य तद्धेतुकं च पुरुषवेदं तावन्ति वर्षाणि यावत् बध्नन तत्र स्त्रीवेदनपुंसकवेदयोर्दलिक निरन्तरं संक्रमयति / ततः पल्योपमासंख्येयभागमात्र सर्वायुःप्रमाणं जीवित्वा पर्यन्ते च मिथ्यात्वमासाद्य ततो जघन्यस्थितिषु दशवर्षसहस्रप्रमाणस्थितिषु देवेषु मध्ये समुत्पन्नः / तत्र समुत्पन्नः सन अन्तर्मुहुर्तेन कालेन सम्यक्त्वं प्रतिपद्यते। आगंतु लहुं पुरिसं, संछुभमाणस्स पुरिसवेयस्स। तस्सेव सगे कोह-स्समाणमायाणमविकसिणो।।७।। 'आगंतु' ति-ततो देवभवाच्च्युत्त्वा मनुष्येषु मध्ये समुत्पन्नस्ततो माससप्तकाभ्यधिकेष्वष्टसु वर्षेष्वतिक्रान्तेषु लघुशीघ्रं क्षपणायोद्यतते। केवलं बन्धव्यवच्छेदादर्वाक् आवलिकाद्विकेन कालेन यद्बद्ध पुरूषवेददलिकं तदतीव स्तोकमितिकृत्वा यत्परित्यज्य शेषस्य चरमसंक्षोभ उत्कृष्टः प्रदेशसंक्रमो वेदितव्यः / तथा तस्यैव पुरूषवेदोत्कृष्टप्रदेशसंक्रमस्वामिनःसंज्वलक्रोधस्य संसारे परिभ्रमता उपचितस्य क्षपणकाले प्रकृत्यन्तरदलिकानां गुणसंक्रमेण प्रचुरीकृतस्य स्वके आत्मीये चरमसक्षोभे उत्कृष्टः प्रदेशसंक्रमो भवति। अत्रापि बन्धव्यवचछेदादर्वाक् आवलिकाद्विकेन कालेन यबद्ध तन्मुक्त्वा शेषस्य चरमसंक्षोभे उत्कृष्टः प्रदेशसंक्रमो द्रष्टव्यः। एवं मानमाययोरपि वाच्यम्। चउरूवसमित्तु खिप्पं,लोभजसाणं ससंकमस्संते! सुभधुवबंधिगनामा, णावलिगं गंतु बंधंता॥८८|| 'चउर' त्ति-अनेकभवभ्रमणेन चतुरो वारान् यावन्मोहनीयमुपशमय्य चतुर्थोपशमनानन्तरं शीघ्रमेव क्षपक श्रेणिं प्रतिपन्नस्य तस्यैव गुणितकर्माशस्य स्वसंक्रमस्यान्ते, चरमसंक्षोभे इत्यर्थः / संज्वलनलोभयशः कीयोंरूत्कृष्ट प्रदेशसंक्रमो भवति / इहोपशमश्रेणिं प्रतिपन्नेन सता प्रकृत्यन्तरदलिकाना प्रभूताना गुणसंक्रमेण तत्र प्रक्षेपात् द्वे अपि संज्वलनलोभयशः कीर्तिप्रकृती निरन्तरमापूर्येते, तत उपशमश्रेणिग्रहणम् / आसंसार च परिभ्रमता जन्तुना मोहनीयस्य चतुर एव वारान् यावदुपशमः क्रियते, न पञ्चममपि वारम्, ततश्चतुरूपशमय्येत्युक्तम्। तथा संज्वलनलोभस्य चरमसक्षोभोऽन्तरकरणचरमसमये द्रष्टव्यः न परतः, परतस्तस्य संक्रमाभावात् / “अन्तरकरणम्मि कए चरित्तमोहेsगुपुट्विसंक मण" इति वचनात् / यशःकीर्तिरपूर्वकरणगुणस्थानके त्रिंशत्प्रकृतिबन्धव्यवच्छेदसमयेऽवगन्तव्या, परतस्तस्याः संक्रमस्याभावात् / 'सुभे' त्यादि याः शुभध्रुवबन्धिन्यो नामप्रकृतयस्तैजससतकशुक्ललोहितहारिद्रसुरभिगन्धकषायाम्लमधुरमृदुलघुखिग्धोष्णागुरुलघुनिर्माणलक्षणा विंशतिसंख्याः तासां चतुष्कृत्वो मोहनीयोपशमानन्तर बन्धान्ता बन्धव्यवच्छेदादूर्ध्वमावलिकां गन्तुमावलिकायाः परतो यशःकीतौ प्रक्षिप्यमाणानामुत्कृष्टः प्रदेशसंक्रमो लभ्यते / इह गुणसंक्रमेण राक्रान्त प्रकृत्यन्तरदलिकमावलिकायामतीतायां सत्यामन्यत्र संक्रमणयोग्यं भवति, नान्यथेत्यत उक्तम्- "आवलियं गंतु बंधता" इति। निद्धसमा य थिरसुभा, सम्मद्दिहिस्स सुभधुवाओ वि। सुभसंघयणजुयाओ, वत्तीससयोदहिचियाओ ||6|| 'निद्वसमत्ति सिग्धलक्षणस्पर्शसमये स्थिरशुभनामनी द्रष्टव्ये। इदमुक्त भवति-यथाऽनन्तरं शुभध्रुवबन्धिनामप्रकृतीनामन्तर्गतस्य सिग्धस्पर्शस्योत्कृष्टप्रदेशसंक्रमभावना कृता, तथैतयोरपि स्थिरशुभनाम्नोत्वगन्तव्या / एते च स्थिरशुभनामनी अध्रुवबन्धित्वात् पृथगुपात्ते / 'सम्मद्दिहिस्से' त्यादि सम्यग्दृष्टाः शुभध्रुवबन्धिन्यः पञ्चेन्द्रियजाति